________________
१०
३५०
न्यायविनिश्वयविवरणे
सम्बन्धे सति यत्तेषां तद्वतां न निवर्तनम् । निवर्तने वा सम्बन्ध विना तैः स कथं भवेत् ।। १८२४ ||
ततो नित्या एव ते । तथा च अनेकान्तविद्विषामेकान्तवादिनां सम्बन्धिन आत्मनो जीवस्यानिर्मोक्षो निश्रेयसाभावः संसार एव स्यात् । कुतः ? मिथ्याज्ञानात् तत्त्वे अतत्त्व५ ज्ञानात्, तन्निबन्धनत्वात् संसारस्य तस्य चेच्छादिवन्नित्यत्वात् । तदनित्यत्वमिच्छता चात्मनोऽपि तत्सम्बन्धात्मनः कथञ्चिदनित्यत्वमेषितव्यम्, अन्यथाऽनुपपत्तेः । ततः परिणामात्मन एवात्मनो मोक्षः, हेतुफलभावस्य तत्रैव सम्भवात् नैकान्तनित्यादिस्वभावस्य विपर्ययात् । तथा च व्यवस्थितं सर्वभावेषु क्रमाक्रमाने कान्तयोर्मार्गतद्विषययोश्च चतुष्टयस्य प्रतिपादनात् प्रवचनं प्रमाणमिति । तच्च स्वविषये सप्तभङ्ग्या प्रवर्तत इति तद्विनिश्चयं कुर्वन्नाहद्रव्यपर्यायसामान्यविशेषप्रविभागतः ।
स्याद्विधिप्रतिषेधाभ्यां सप्तभङ्गी प्रवर्तते || ६६ || इति ।
२०
[ ३।६६-६७
द्रव्यमन्वयिरूपं पर्याया व्यावृत्तिधर्माण: सामान्यः सदृश: परिणामो विशेषो विसदृशस्तेषां प्रविभागस्तेन यौ स्यात् कथञ्चिद्विवक्षितधर्मस्य विधिप्रतिषेधौ भावाभावौ ताभ्यां सप्तभङ्गी सप्तानां भङ्गानां समाहारः तद्वचसि प्रवर्तत इति । विधिप्रतिषेधयोद्वित्वात् १५ तदुपाश्रयो भङ्गावपि द्वावेव स्यातां तत्कथं ते सप्तेति च ेत्; न; तयोरेव प्रतिपत्तुः प्रत्येको - भयादिविकल्पेन सप्तधा प्रतिपित्सायां तथा तत्प्रतिपादिनो वचनस्यापि सप्तविषयत्वोपपत्तेः । तथाहि जीवे धर्मिणित इमे तद्विध्यादिविषयाः सप्त भङ्गाः - स्यादस्त्येव जीवः, स्यान्नास्त्येव, स्यादस्ति च नास्ति चैव स्यादवक्तव्य एव स्यादस्ति अवक्तव्य एव स्यान्नास्ति अवक्तव्य एव, स्यादस्ति नास्ति चावक्तव्य एव इति । तत्र प्रथमद्वितीयौ तद्भावाभावयोः प्रत्येकं प्रतिपित्सायाम्, तृतीयस्तदुभयजिज्ञासायाम् । तदेवाह -
तदतद्वस्तुभेदेन वाचो वृत्तेस्तथोभयम् । इति ।
तच्चास्तित्वम् अतच्च नास्तित्वं ताभ्यां यो वस्तुनो जीवस्य भेदः कथञ्चिन्नानात्वं तेन वाचः प्रत्येकं तत्प्रतिपादिन्याः श्रुतेर्वृतेराद्यौ भङ्गो तथा तेनोभय वेदनप्रकारेण वाचो वृत्तेरुभयं तृतीयो भङ्ग इति यावत् । चतुर्थस्तु युगपत्तत्प्रतिपित्सायां वचनप्रवृत्तेरसम्भवात्, २५ तदेवाह -
तदतद्रागवृत्तश्च [ सह तद्वागवृत्तिना ] || ६७ || इति ।
तदतदोर्या वाचः वचनस्य अवृत्तिः यौगपद्येन अन्यथानुपपत्तेः तस्याः, चेति समुच्चये । पञ्चमादिभङ्गत्रयं तु प्रथमादेः प्रत्येकं जिज्ञासया चतुर्थेन सम्मिलनात् । तदेव निवेदयति- 'सह तद्वागवृत्तिना' इति । वृत्तेरिति वर्तते । तदिति च निपातस्तेषा - मित्यर्थे । तदयमर्थः - बाग ( ग्) वचनम् अवृत्तिरविद्यमान' वृत्तिर्यत्रावक्तव्यविषये, अनेन सह तेषां स्यादस्त्यादीनां वृत्तेरिति । तथाहि प्रथमस्य चतुर्थेन सह वृत्तौ पञ्चमो भङगो द्वितीयस्य षष्ठः, तृतीयस्य सप्तमः । न चैवं भङ्गान्तरपरिकल्पनं सम्भवति यतः "सप्तभङगीप्रसादेन शतभङ्ग्यपि जायते " [ ] इत्युपलभ्येत । तथाहि
३०
१ सदृशपरि -आ०, ब०, प० । २ - पत्त्रा प्रत्ये- श्रा०, ब०, प० । ३ तत्प्रतिवादि - श्रा०, ब०, प० । ४ - वेदिनं प्र - आ०, ब०, प० । ५ - पातनस्ते - प्रा०, ब०, प० । ६ - मानावृत्ति - श्रा०, ब०, प० । ७ पञ्चमभ - श्रा०, ब०, प० ।