________________
श६७ ३ प्रवचनप्रस्तावः
३५१ प्रथमस्य द्वितीयेन मिलने तृतीयत्वम्, तृतीयेन पौनरुक्त्यमेकस्य अस्तिपदस्याधिक्यात् । चतुर्थेन पञ्चमत्वम्, पञ्चमसप्तमाभ्यां पौनरुक्त्यं पूर्ववत् । षष्ठेन सप्तमत्वम् । एवं द्वितीयादावपि वक्तव्यम् । तन्न भङगान्तरपरिकल्पनं तन्निबन्धनस्य प्रतिपित्साप्रकारस्य सप्तधैव स्थितत्वात् । एवं प्रमेयत्ववस्तुत्वामर्त्तत्वादिसप्रत्यनीकापरधर्मापेक्षयाप्यात्मनि पुद्गलादावपि तदस्तित्वनास्तित्वादिधर्मविकल्पोपनिबन्धना सप्तभङगीसमालिङ्गिता ५ वचनप्रवृत्तिः प्रतिपत्तव्या।
तत्र किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेः इति . चेत् ? उच्यते-यदि 'अस्ति जीवः' इत्यस्तिपदमनेवकारप्रयोगम् ; अनुक्तसमं' भवेत् अप्रवृत्तिनिमित्तत्वात् । नहि जीवास्तित्वं तदभाव व्यवच्छेदेनाप्रतिपादयतस्तस्य जीवे तत्प्रयोजनकामिनं प्रति प्रवृत्त्यङगत्वम्, जीवस्यैव तदानीमप्रतिपन्नत्वात् । तदेव हि १० प्रतिपन्नं नाम यदभावव्यवच्छेदेन । न चानेवकारात् पदात्तथा तत्प्रतिपत्तिः । सति चैवकारप्रयोगे जीवस्यास्तित्व एवावधारणादैकान्तिकी तदभावव्यवच्छित्तिरिति । 'स्वरूपादिनेव पररूपादिनापि तत्र भाव एव' इति ब्रह्मवादप्रत्युज्जीवने स्यादिति निपातस्यापि प्रयोगः । तेन कथञ्चित स्वरूपादिनैव तदस्तित्वम'वद्योतयता पररूपादिना तदव्यवच्छेदात ब्रह्मवादप्रत्याख्यानोपपत्तेः । तथा नास्तीत्यपि पदमनेवकारमनुक्तकल्पमेव, भावव्यवच्छेदेन ततोऽप्य- १५ भावस्याप्रतिपत्तेः । एवं भङगान्तरेऽपि प्रत्यनीकव्यवच्छेदाभावादनुक्तकल्पत्वमनेवकारत्वे । ततो नास्त्येवेत्यवधारणे जीवस्य नास्तित्व एव नियमात् पररूपादिनेव स्वरूपादिनाप्यभावापत्तौ शून्यवादस्याविर्भाव तन्निवर्त्तनं स्यात्पदात् । स्यादेव हि तस्याभावे नियमो न सर्वथेति । तथास्त्येव नास्त्येवेत्यत्रोभयथाप्यस्तित्वनास्तित्वयोरवधारणबलात् प्राप्तौ ततस्तन्निवर्त्तनमनुवर्तव्यम् । अवक्तव्य एवेत्यत्रापि सर्वथा तस्यावक्तव्यताया नियमप्राप्तिः २० स्यात्पदेन प्रतिक्षेप्तव्या। तथा च प्रतिषिद्धमेतत्-"नार्थान् शब्दाः स्पृशन्त्यमी" [
] इति। तेषामेकान्ततोऽर्थासंस्पर्शित्वे अस्यापि वचनस्य वैयर्सेन तद्वादिनो निग्रहापत्तेः । तदसंस्पर्शित्वप्रतिपादनार्थत्वे च प्रतिज्ञाभङगदोषप्रसङगात् । एकान्तावाच्यत्वं च भावानां श्रायसलोपमापादयति । श्रायसं हि प्रेक्षावतां तदुपायानुष्ठानात् । न च स्वरसतस्तेषां तदुपायप्रतिपत्ति: आप्तागमपरिकल्पनावैकल्यप्रसङगात्। आगमाच्च २५ तदवाच्यत्वे तस्थाप्रतिपतेः । "ततो लुप्यत एव मुमुक्षूणां मोक्षावाप्तिरुपायाभियोगासम्भवात् । तदुक्तम्-"अवाच्यता प्रायसलोपहेतुः" [ युक्त्यनु० श्लो० ४४ ] इति । ततः "तरति शोकमात्मवित्" [ छा० ७।१।३ ] "ब्रह्मविदाप्नोति परम्" [ तै० २।१।१] इत्यादेरागमादेव निःश्रेयसनिबन्धनमात्मवेदनमधिगन्तुकामेन नैकान्तेनात्मावाच्यत्वमध्यवसातव्यम् । अतः प्रत्याख्यातमेतत्
१ -क्तमसम्भवे -पा०, ब०, ५०,।२-भावेन व्य -पा०, ब०, ५०।३ -दनं यत -प्रा०, ब०, प०।४"प्रतिपन्नमिति प्रागुक्तस्य पदस्यात्रापि सम्बन्धः।” -ता० टि०।५-काराप्रयो-प्रा०, ब०, प० । ६-मव्ययो-पा०, ब०,-मप्यद्यो-प०। ७"आकाशादीनां ब्रह्म विवर्तत्वमिच्छता ब्रह्मवादिनाऽऽत्मनः पररूपादिनास्तित्वमभ्युपगतम्। अनिर्वाच्या विद्याद्वितयसचिवस्य प्रभवतो, विवर्ता यस्यैते वियदनिलतेजोऽववनयः । यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ।" -ता० टि-८-स्वमेव नि -प्रा०, ब०, प०।६-प्यस्तित्वयोर -पा०, ब०, प० । १० -तायां निय-श्रा०, ब०, प०। ११ ततोऽप्यत एव श्रा०, ब०, प० ।