________________
३५२ न्यायविनिश्चयविवरणे
[३६८ 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [ तै० २।४-५ ] इति । ततो युगपदत्सदसत्त्वाभ्यां तस्य वक्तुमशक्यत्वात् अवाच्यत्वम्, न क्रमेण नापि धर्मान्तरैः, युगपदपि पदद्वयेनैव । एकपदेन तु शतृशानचो: सच्छब्देनेव सकृदपि ताभ्यां तस्य वचनसम्भवादिति स्याद्वादस्यायमुल्लासः । तथा 'अस्ति अवक्तव्य एव' इत्यत्र अस्त्येवेति वचनात् स्वरूपादिवत् पररूपादिनाऽपि अस्तित्वस्य, अवक्तव्य एवेत्यभिधानाच्च तयोः क्रमेणेव अक्रमेणापि अवक्तव्यत्वस्य प्रसक्तौ स्यात्पदेन प्रत्यवस्थापनम् । तेन स्वरूपादिनैवास्तित्वम्, यौगपद्यनैवावाच्यत्वं चावद्योतयता विपर्ययेणास्तित्वावाच्यत्वयोः प्रत्याख्यानात् । एवमुत्तरत्रापि वक्तव्यम् । ततो युक्तो भङगविकल्पेषु स्यात्कारस्य प्रयोगः फलवत्त्वात् । नन्वेवं घटमानयेत्यादेलौ किकस्य शास्त्रीयस्य च “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"३ [त० सू० १।१] इत्यादेर्वचनमार्गस्य स्यादेवकारप्रयोगवैकल्यात्तत्पक्षभावी दोषः प्राप्नोतीति चेत् ; सत्यम् ; यदि तदापि तदर्थस्य 'प्रतिपत्तिर्न भवेत् । न चैवम्, प्रकरणादिना तदापि तद्भावात् । तदेवाह
प्रयोगविरहे जातु पदस्यार्थः प्रतीयते । इति ।
जातु कदाचित् प्रकरणादिसन्निधिसमये पदस्य स्यादित्यादेः प्रयोगस्य विरहोऽनु१५ च्चारणं तस्मिन् सति अर्थः स्यात्कारादेरभिधेयः अतिप्रसङ्गानुक्तकल्पत्वनिवृत्तिलक्षणः
प्रतीयते प्रकरणादिसहायादेव शब्दादवगम्यते। तन्न तत्र तद्विरहभाविदोषः तद्विरहेऽप्यर्थत एव तस्य निवर्तनात् तदर्थस्य तद्विरहे प्रतीतेः। कथमिदानीं तस्य तदर्थत्वम् ? अन्यतः प्रतीयमानत्वादिति चेत् ; किमेतावता तदर्थत्वाभावः ? क्वचित्सैन्धवशब्दादवगतस्यापि
लवणस्य लवणशब्दार्थत्वानिवृत्तेः। ततो यथा प्रकरणादिबलादवधृतस्यापि लवणस्य २० लवणशब्दार्थत्वं तच्छब्दस्य तत्र प्रयोगार्हत्वेन शब्दतदर्थतत्त्ववेदिभिरभ्यनुज्ञानात्, तथातिप्रसङगादिनिवर्तनस्यापि स्यात्काराद्यर्थत्वं तदविशेषात् । एतदेवाह
स हि शब्दार्थतत्वज्ञैस्तस्येति व्यपदिश्यते ॥६८॥ इति । स तन्निवृत्तिरूपोऽर्थो हि यस्मात तस्य स्यादित्यादेः पदस्य इति व्यपदिश्यते शब्दार्थतत्त्वज्ञः शब्दार्थयोस्तत्त्वं वाच्यवाचकभावं जानद्भिर्न बालाबलादिभिः तेषां गतानुगति२५ प्रवृत्तानां तद्व्यपदेशशक्त्यभावात् । तस्मात् स तस्येति प्रतिपत्तव्यम् अन्यत्रापि तद्वयपदेश
निबन्धनत्वाच्छब्दार्थसम्बन्धप्रतिपत्तेरिति मन्यते। कुतः पुनरयं नियमः सर्वत्र कुतश्चित् प्रतिपत्तव्य एवं स्यात्कारादेरर्थ इति चेत् ? उक्तमत्र-'अन्यथातिप्रसङगादिनिवर्तनस्यासम्भवात्' इति। तथाहि-सम्यग्दर्शनादिवाक्ये यद्यनवधारणं तदा सम्यग्दर्शनादिरेव
नापरो मोक्षमार्ग इत्यन्ययोगव्यवच्छेदस्य, स च 'मोक्षस्य मार्ग एव नामार्ग इत्ययोगव्यु३० दासस्य, तस्य मार्गो भवत्येवेत्यन्तायोगव्यपोहस्य चाप्रतिवेदनादनुक्तकल्पं वाक्यं भवेत्,
स्वार्थस्यास्वार्थव्यवच्छेदेनानभिधानात् । ततो विद्यत एव नियमादेवकारार्थस्य प्रतिपत्तिः, व्यवच्छेदस्यैव तदर्थत्वात् । तथा स यदि मार्ग एव मोक्षस्य सर्वदा किन्न स्यात् परिणति
१ तस्यावक्तुम- श्रा०, ब०, प०। २ -कवाक्यस्य प्रा०, ब०, प० । ३-मार्गस्य स्यादेव - श्रा०, ब०, प०। ४-पत्तिन चैवं श्रा०, ब०, प०। ५ -तद्भावस्तदे -श्रा०, ब०, प० । ६ धेयातिप्रसङ्गादुक्त- प्रा०, ब०। ७-प्यर्थ एवं श्रा०, ब०, प०। ८ "तव्यपदेशता" -ता० टि०।। -सङ्गानिव -श्रा, ब०, प० । १० यद्यव-पा०, व० । यदव-प०।११ मोक्षमार्ग प० ।