Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 426
________________ ३६५] ३ प्रवचनप्रस्तावः ३४६ असत्यपि कुम्भकारे तदुपनिबद्धं घटपरिमाणमिवेति ब्रूमः, कर्मणोऽपि कुम्भकारवत् तत्र सहकारित्वस्यैव भावात् । कथमेवं कर्मकृतमसकलज्ञत्वमपि तदभावे निवर्तते इति चेत्, ? न; सकलज्ञानस्य संसारिण्यपि व्याप्तिज्ञानबलेन व्यवस्थापनात्। केवलं तस्य विशेषाभिमुखनिरोधानमेव कर्मभिः, तच्च तन्निवृत्तौ निवर्तत एव तद्व्यापारत्वात् । ततो युक्तं मुक्तस्यावस्थितमेव परिमाणम् । न चैवं संसारिदशायाम् ; तदा तत्प्रदेशोपसंहारविसर्पण- ५ परिणामसहकारि कारणस्य कर्मास्रवस्यानवस्थितत्वेन सूक्ष्मसूक्ष्मतरादिविकल्पगोचरस्यानवस्थितस्यैव तत्परिमाणस्य सम्भवात् । ततो यदत्र ब्रह्ममीमांसायां सूत्रम्-"अन्त्याऽवस्थितेश्चोभयनित्यत्वादविशेषः" [ब्र० सू० २।२।३६ ] इति, यच्च भाष्यं भागवतम्-'अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः तद्वत्पूर्वयोरपि आद्यमध्यमयोः जीवपरिमाणयोनित्यत्वप्रसङ्गात् अविशेषप्रसङ्गात् एकपरिमाणशरीरतैव स्यात्, न उप- १० चितापचितशरीरान्तरप्राप्तिः” [ब्र० सू० शा० भा० २।२।३६] ; इति; तत्प्रतिविहितम् ; असङ्ख्यातप्रदेशस्य जीवस्य कर्मवशात् प्रदेशानामुपसंहार-विसर्पणातिशयक्रमसम्भवे सति अपचयोपचयातिशयक्रमाधिष्ठानपरापरशरीरप्राप्तेरविरोधात् । यदप्यत्र दूषणं भाष्यकारस्य'तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम् । प्रतिघाते तावत् न अनन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् अप्रतिघातेऽपि एकावयवदेशत्वोपपत्तेः १५ सर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गः।" [ब० सू० शा० भा० २।२।३४] इति; तदपि तस्य जैनमतानभिज्ञत्वमावेदयति; न हि तत्र तेषामप्रतिघात एव, समुद्घातदशायामत्यन्तविसर्पणेन परस्परप्रतिघातवतामेव भावात् । तेषां चासङ्खयातलोकाकाशप्रदेशसमवायित्वेन परिच्छिन्नप्रदेशसमवायित्वाभावात् । नापि सप्रतिघाता एव उपसंहारपर्यन्तप्राप्तावेकप्रदेशसमवायित्वेनैव परमाणुरूपतया मध्ये चानेकविकल्पतया तेषामवस्थानात् । २० ततो युक्त' मुक्तस्यावस्थितपरिमाणत्वम्, अन्यथाभावे हेत्वभावात् । कथमेवं घटादिवदनित्यत्वं न भवेदिति चेत् ? न ; कथञ्चित् तस्येष्टत्वात्, एकान्तनित्यत्वे विनश्वरैकान्तवनिर्वागस्यैवाभावप्रसङ्गात् । एतदेवाह नित्यस्येच्छा-प्रधानादियोगोऽनित्यः किमात्मनः। मिथ्याज्ञानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥६५॥ इति । यः खलु यौगपरिकल्पितस्यात्मन इच्छाद्वेषादिना, साङख्योपगतस्य शरीरेन्द्रियादिविवर्तिना प्रधानेन, ब्रह्मवादिसम्मतस्य स्वपरविभागादिभेदावद्योतविधायिन्याऽविद्यया योगः समवायादिरूपः सम्बन्धः, कीदृशस्य ? नित्यस्य कूटस्थस्य, परिणामिनोऽनभ्युपगमात्, स किमनित्यः ? नैव । तथा हि तत्सम्बन्धस्ततोऽन्यश्चेत् तस्येति कथमुच्यताम् । मुक्तात्मवत् परस्माच्चत् सम्बन्धादनवस्थितिः ॥१८२२॥ अनन्यश्चेत् स नित्यः स्यात् नित्यादव्यतिरेकतः । तथा च नित्या एव स्युरिच्छाद्वेषादयोऽपि ते ॥१८.३॥ १ "न हि व्यापारवतो विवृत्तौ व्यापारस्य सम्भवः ।" -ता० टि०। २ -कारणकर्मा -प्रा०, ब९, प०। ३ -णामस्य प० । ४ युक्तमवस्थित-प्रा०, ब०, प०। ५-त्यत्वेन वि-प्रा०, ब०, प० । ६-दिनिवर्तना प० । -दिविवर्तना -प्रा०, ब० ।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538