Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 431
________________ ३५४ न्यायविनिश्चयविवरणे [३१७१-७३ मव'गच्छता व्याख्यातून प्रति विफलमपि तद्वादप्रणयनं तदवगमविकलप्रतिपत्रपेक्षया सफलं तथा स्यात्कारादिनिपातप्रयोगोऽपि । के तहि स्याद्वादमनुरुन्धते यदि तत्र सौगतादयो जडवृत्तय इति चेत् ? अत्राह-- सर्वथैकान्तविश्लेषतत्त्वमार्गव्यवस्थिताः । व्याख्यातारो विवक्षातः स्याद्वादमनुरुन्धते ॥७१।। इति । . व्याख्यातारः परप्रत्यायनप्रवृत्ताः स्याद्वादं स्याच्छब्दम् , उपलक्षणमिदं तेनैवकारमपि अनुरुन्धते स्वीकुर्वन्ति विवक्षातो विवक्षया तेन विषयावद्योतनेच्छया। कीदृशास्ते ? सर्वथैकान्तविश्लेषो व्यपोहो यस्मिस्तत्त्वे तस्य मार्गोऽन्वेषणं प्रत्यक्षादिरूपं तत्र व्यवस्थिता इति । जात्यन्तरं तत्त्वमेकान्तव्यवच्छेदेन प्रत्यक्षादिना निश्चिन्वन्तो व्याख्यातारः तदवद्योतनाय १० स्याद्वादमवलम्बन्त इति यावत् ।। प्रमाणप्रसिद्धत्वादेवानेकान्ते संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नावतरतीत्याह अनेकलक्षणार्थस्य प्रसिद्धस्याभिधानतः । संशयादिप्रसङ्गः किं स्याद्वादेऽमूढचेतसः ॥७२।। इति । संशय आदिर्यस्य विरोधादेस्तस्य प्रसङ्गः किं नैव । क्व कस्य ? स्याद्वादेऽनेकान्त१५ वादे अमूढचेतसः प्रबुद्धबुद्धेः । कुतः स न ? इति चेत्, अनेकलक्षणस्य क्रमाक्रमानेकरूपस्य अर्थस्य चेतनेतरवस्तुनः प्रसिद्धस्य प्रमाणनिर्णीतस्य अभिधानतः स्याद्वादेन प्रतिपादनात् । ततस्तत्र संशयादिकमुपलोकयन्नर्चतादि'रमूढचे ता न भवतीति मन्यते। हेयोपादेयतत्त्वमेव सोपायं प्रयत्नतः प्रतिपादयितव्यं पुरुषार्थोपयोगात् किमनेकान्त प्रतिपादनेन विपर्ययात् इति चेत् ? नास्ति विपर्ययः सर्वस्यापि वस्तुतत्त्वस्यानेकान्तपर्यवसितत्वज्ञापनेन एकान्त२० शासनेषु हेयादि तत्त्वसत्त्वाभावनिवेदनार्थत्वात् तत्प्रतिपादनस्य । तदेवाह साकल्येनेह सामान्यविशेषपरिणामधीः । मिथ्र्यकान्तप्रवादेभ्यो विदुषो विनिवर्तयेत् ॥७३॥ इति । मिथ्र्यकान्ताः सर्वथैकान्ताः तेषां प्रवादाः सर्वमपि तत्त्वं सामान्यरूपमेव विशेषात्मैव परस्परविविक्तोभयस्वभावमेव विचारायोगादुपप्लुतमेव सांवृतमेव' इत्यादयो वचन२५ प्रबन्धाः तेभ्यो विदुषो विद्वज्जनान् विनिवर्तयेत् निःश्रेयसाथितया तत्प्रतिपादितोपायानुष्ठाने प्रवृत्तान् प्रतिनिवर्तयेत् । का पुनरेवमिति चेत् ? सामान्यविशेषपरिणामधीरेव । सामान्य द्विविधं तद्भवसामान्यं तिर्यक्सामान्यं च, विशेषोऽपि द्विविधः एकद्रव्यगतोऽनेकद्रव्यगतश्च५ तावेव परिणामस्तस्य बुद्धिः । क्व सा तादशीति चेत् ? इह अस्मिन चेतनेतरात्मन्यर्थकलापे । कथम् ? साकल्येन सामस्त्येन । तदनेनानुमानिकी "तबुद्धिरिति प्रतिपादितं भवति, १ गच्छतौ श्रा०, ब०, प० । २ स्तत्त्वे स तस्य प्रा०, ब०, ५०। ३ तस्य श्रा०, ब०, १० । ४ द्रष्टव्यम् -हेतुवि० टी० पृ० ९८, १०४ । अक० टि० पृ० १८२ । ५-न्तप्रवादेन प्रा०, ब०, प० । ६"पुरुषार्थानुपयोगात्" -ता० टि०। ७-तत्त्वगत्वा-श्रा०, ब०, प० । ८ वादः प्रा०, ब०, प० । ह-पास्मभावमेव श्रा०, ब०प०। १०-प्रसङ्गाः श्रा०, ब०, प० । ११-नाद्विनिव-श्रा०, ब०, १०। १२ प्रवृत्ता प्रवर्त-प्रा०, ब०, प० । १३ -धीरेवं श्रा०, ब०, प० । १४ तद्भाव सा-श्रा०, ब०, प० । १५-तश्च परि-पा०, ब०, प० । १६ बुद्धे : प्रा०, ब०, प० । १७ तदबुद्ध रिति श्रा०, ब०, प० ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538