Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 429
________________ ३५२ न्यायविनिश्चयविवरणे [३६८ 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [ तै० २।४-५ ] इति । ततो युगपदत्सदसत्त्वाभ्यां तस्य वक्तुमशक्यत्वात् अवाच्यत्वम्, न क्रमेण नापि धर्मान्तरैः, युगपदपि पदद्वयेनैव । एकपदेन तु शतृशानचो: सच्छब्देनेव सकृदपि ताभ्यां तस्य वचनसम्भवादिति स्याद्वादस्यायमुल्लासः । तथा 'अस्ति अवक्तव्य एव' इत्यत्र अस्त्येवेति वचनात् स्वरूपादिवत् पररूपादिनाऽपि अस्तित्वस्य, अवक्तव्य एवेत्यभिधानाच्च तयोः क्रमेणेव अक्रमेणापि अवक्तव्यत्वस्य प्रसक्तौ स्यात्पदेन प्रत्यवस्थापनम् । तेन स्वरूपादिनैवास्तित्वम्, यौगपद्यनैवावाच्यत्वं चावद्योतयता विपर्ययेणास्तित्वावाच्यत्वयोः प्रत्याख्यानात् । एवमुत्तरत्रापि वक्तव्यम् । ततो युक्तो भङगविकल्पेषु स्यात्कारस्य प्रयोगः फलवत्त्वात् । नन्वेवं घटमानयेत्यादेलौ किकस्य शास्त्रीयस्य च “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"३ [त० सू० १।१] इत्यादेर्वचनमार्गस्य स्यादेवकारप्रयोगवैकल्यात्तत्पक्षभावी दोषः प्राप्नोतीति चेत् ; सत्यम् ; यदि तदापि तदर्थस्य 'प्रतिपत्तिर्न भवेत् । न चैवम्, प्रकरणादिना तदापि तद्भावात् । तदेवाह प्रयोगविरहे जातु पदस्यार्थः प्रतीयते । इति । जातु कदाचित् प्रकरणादिसन्निधिसमये पदस्य स्यादित्यादेः प्रयोगस्य विरहोऽनु१५ च्चारणं तस्मिन् सति अर्थः स्यात्कारादेरभिधेयः अतिप्रसङ्गानुक्तकल्पत्वनिवृत्तिलक्षणः प्रतीयते प्रकरणादिसहायादेव शब्दादवगम्यते। तन्न तत्र तद्विरहभाविदोषः तद्विरहेऽप्यर्थत एव तस्य निवर्तनात् तदर्थस्य तद्विरहे प्रतीतेः। कथमिदानीं तस्य तदर्थत्वम् ? अन्यतः प्रतीयमानत्वादिति चेत् ; किमेतावता तदर्थत्वाभावः ? क्वचित्सैन्धवशब्दादवगतस्यापि लवणस्य लवणशब्दार्थत्वानिवृत्तेः। ततो यथा प्रकरणादिबलादवधृतस्यापि लवणस्य २० लवणशब्दार्थत्वं तच्छब्दस्य तत्र प्रयोगार्हत्वेन शब्दतदर्थतत्त्ववेदिभिरभ्यनुज्ञानात्, तथातिप्रसङगादिनिवर्तनस्यापि स्यात्काराद्यर्थत्वं तदविशेषात् । एतदेवाह स हि शब्दार्थतत्वज्ञैस्तस्येति व्यपदिश्यते ॥६८॥ इति । स तन्निवृत्तिरूपोऽर्थो हि यस्मात तस्य स्यादित्यादेः पदस्य इति व्यपदिश्यते शब्दार्थतत्त्वज्ञः शब्दार्थयोस्तत्त्वं वाच्यवाचकभावं जानद्भिर्न बालाबलादिभिः तेषां गतानुगति२५ प्रवृत्तानां तद्व्यपदेशशक्त्यभावात् । तस्मात् स तस्येति प्रतिपत्तव्यम् अन्यत्रापि तद्वयपदेश निबन्धनत्वाच्छब्दार्थसम्बन्धप्रतिपत्तेरिति मन्यते। कुतः पुनरयं नियमः सर्वत्र कुतश्चित् प्रतिपत्तव्य एवं स्यात्कारादेरर्थ इति चेत् ? उक्तमत्र-'अन्यथातिप्रसङगादिनिवर्तनस्यासम्भवात्' इति। तथाहि-सम्यग्दर्शनादिवाक्ये यद्यनवधारणं तदा सम्यग्दर्शनादिरेव नापरो मोक्षमार्ग इत्यन्ययोगव्यवच्छेदस्य, स च 'मोक्षस्य मार्ग एव नामार्ग इत्ययोगव्यु३० दासस्य, तस्य मार्गो भवत्येवेत्यन्तायोगव्यपोहस्य चाप्रतिवेदनादनुक्तकल्पं वाक्यं भवेत्, स्वार्थस्यास्वार्थव्यवच्छेदेनानभिधानात् । ततो विद्यत एव नियमादेवकारार्थस्य प्रतिपत्तिः, व्यवच्छेदस्यैव तदर्थत्वात् । तथा स यदि मार्ग एव मोक्षस्य सर्वदा किन्न स्यात् परिणति १ तस्यावक्तुम- श्रा०, ब०, प०। २ -कवाक्यस्य प्रा०, ब०, प० । ३-मार्गस्य स्यादेव - श्रा०, ब०, प०। ४-पत्तिन चैवं श्रा०, ब०, प०। ५ -तद्भावस्तदे -श्रा०, ब०, प० । ६ धेयातिप्रसङ्गादुक्त- प्रा०, ब०। ७-प्यर्थ एवं श्रा०, ब०, प०। ८ "तव्यपदेशता" -ता० टि०।। -सङ्गानिव -श्रा, ब०, प० । १० यद्यव-पा०, व० । यदव-प०।११ मोक्षमार्ग प० ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538