Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 419
________________ ३४२ न्यायविनिश्चयविवरणे [ ३५७ भावेऽपि मोहादौ तद्विपर्ययात् वातादिप्रभवत्वं न मोहादौ शक्यकल्पनम् । ततोऽन्यदेव तस्य कारणं वक्तव्यम्, अहेतुकत्वे कालदेशस्वभावभेदानुपपत्तेः । तच्चाभ्यास 'एव । मोहाद्यभ्यासादेव हि मोहादि:; तत्पाटवाद्यनुविधायिनस्तस्य प्रतिपत्ते: अतद्धेतुकत्वे तदनुपपत्तेः । अतः सजातीयाभ्यासनिबन्धना एव मोहादय इति सौगतः; सोऽपि न युक्तवादी; दीर्घनिद्रादिना ७५ अभ्यासव्यवधाने पुनस्तदुत्पादाभावप्रसङ्गात् । व्यवहितस्यापि हेतुत्वान्न तत्प्रसङ्ग इति चेत्; कथमिदानीं गतेऽपि जन्मदोषसमुद्भवलक्षणा पुनरावृत्तिर्न भवेत् । तद्धेतोः आत्मदर्शनस्य तदानीमभाविनोऽपि चिरापक्रान्तस्य तद्धेतुत्वसम्भवात् । तथा च न सुभाषितमिदम् "आत्मदर्शनबीजस्य हानादपुनरागमः ।" [ प्र० वा० १।१४३ ] इति । तन्न अभ्यासस्यापि मोहादिकारणत्वम् । कर्मणां तु पौद्गलिकानां तदुपपन्नं प्रमाणभावात् । तथा हि१० यथावस्थितस्व' परपरच्छिदात्मनो जीवस्य स्वविषये - मोहादिः शरीरेन्द्रियव्यतिरेकि जीवोपश्लिष्टपुद्गल परिणामपूर्वकः, तत्त्वात् धत्तूराद्युपयोगिनस्तन्मोहादिवत् । कर्म पुद्गलोपश्लेषोऽपि जीवस्यापरमोहादिपूर्वकः, तत्त्वात् धत्तूरादिरसोपश्लेषवदिति सिद्ध आस्रवो बन्धरच, तदुपश्लेषस्य बन्धत्वात् तद्धेतोश्च मोहादेरास्रवत्वात् । एतदेवाह - १५ रागादयः सजातीयपरिणामाभिवृद्धयः । सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ ५७ ॥ इति । सजातीयः सदृशः परिणामः परापरविवर्त्तः स एवाभिनवा पूर्वापेक्षया 'प्रत्यग्रत्वात् अभ्यधिका कालोपचयवत्त्वादृद्धिर्येषां ते तथोक्ताः । ते चैवम्भूता रागादयो रागः स्नेहात्मा मोहविशेषः तदादयो द्वेषादयः । किं कुर्वन्ति ? सूचयन्ति हि स्फुटम् । कानि ? कर्माणि निरूपितरूपाणि । कीदृशानि ? स्वहेतुप्रकृतीनि स्वस्य रागादेर्हेतुः कारणं प्रकृतिः स्वभावो २० येषां तानीति । चराब्दो हेतु' परत्वमस्यावद्योतयति । यतो रागादीनां हेतुप्रकृतीनि कर्माणि ततः सूचयन्ति, कार्यात् कारणप्रतिपत्तेरव्यभिचारात् । अथवा स्वे रागादयो हेतु - प्रकृतयो येषामिति व्याख्येयम् । कथं पुनरत्र व्याख्याने तेषां तत्सूचकत्वम् कारणानामवश्यम्भाविकार्यत्वाभावादिति चेत् ? सत्यम्; तत्र सापेक्षत्वे तन्नियमाभाव:, अपेक्ष्यासन्निधाने कार्यानुत्पत्तेः । न चैवम्, रागादीनां स्वत एव तद्धेतुत्वस्य प्रकृतिग्रहणेन ज्ञापनात् । २५ एवं हि ते प्रकृत्या तद्धेतवो भवन्ति यदि तत्र नापरमपेक्षेरन्, आपेक्षिकस्य हेतुभावस्थ प्राकृतत्वानुपपत्तेः । प्राकृते च तद्भावे नियम एव कार्यस्य तृष्णायामिव कर्मणः । तथा चालङ्कारवाक्यम्— ३० "अथ तृष्णास्ति नैवास्ति कर्मणोऽस्य परिक्षयः । तृष्णस्यास्य हि भवेत् पुनः कर्म परापरम् ॥' [प्र० वार्तिकालं० १।१९० ] इति । कथमेवं कारणस्याप्यव्यभिचारिणो लिङ्गत्वसम्भवात् कार्यादिभेदेन लिङ्गत्रैविध्यकथनम् ? इति चेत्; सत्यम्; अस्त्ययं सौगतस्य तद्वादिनो दोष:, कारणलिङ्गस्य स्वभा १ एव न मो-आ०, ब०, प० । २ मोहाधिकरणत्वं आ०, ब०, प० । ३ प्रमाणाभावात् श्र०, ब०, प० । ४ - स्वपरस्य स्ववि- श्रा०, ब०, प० । स्वपरस्य वि - प० । ५ पुद्गलश्लेषो - श्रा०, ब०, प० । ६ प्रत्यक्षत्वा श्रा०, ब०, प० । ७ -का वा का श्रा०, ब०, प० । ८ पदत्वमध्याव - श्रा०, ब०, प० । ९ प्र० वा० ३।१ ।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538