Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 413
________________ ३३६ न्यायविनिश्चयविवरणे [३३५४ विवेकज्ञानान्तरात्तद्रूपवत्प्रतिभासनपरिकल्पनायामनवस्थापत्तेः । अपि च मिथ्याज्ञानाद् विवेकश्चत् स्वभावो जीववस्तुनः । कथं स्ववेदिनस्तस्य तत्राज्ञानं प्रवर्तताम् ॥१८१९।। अस्वसंवेदने तस्य परसंवेदनात्ययात् । कथं भोगोऽवकल्प्येत संसारी यदसो भवेत् ॥१८२०॥ तस्मान्निरंशरूपस्य तस्य स्वग्रहणात्मनः । तद्विवेकाग्रहाभावान्मिथ्याज्ञानमयुक्तिमत् ॥१८२१॥ ततो यदुक्तम् "सर्पहारादिभावानामबुद्धा रशना यथा। कारणं जगतस्तद्वदबुद्धं तत्त्वमेव हि॥ भान्ति रज्वामसन्तोऽपि सर्पहारादयो यथा। चिद्धातोस्तद्वदाकाराः स्वरूपस्याग्रहादमी ॥"[ ] इति । तत्प्रतिविहितम्; स्वरूपस्याग्रहात् सिद्धत्वात् । स्यान्मतम्-नैकान्ततस्तस्य स्वाग्रहः कथञ्चिदेव तद्भावात्, ततो मिथ्याज्ञानविवेकस्याग्रहणेऽपि भेदादिरूपस्य ग्रहणाद्भोगोपपत्ते१५ रुपपन्नमेव संसारित्वमिति; तर्हि सिद्धं तद्विवेकापरिज्ञानस्य सत्कृतस्यापि कुतश्चिन्निवर्तनम्, अन्यथा जीवस्य निःश्रेयसाभावापत्तेः, तद्वदास्रवादेरपि स्यादविशेषात् । ततो युक्तम्आत्मन्यास्रवादिसत्कारपुरस्सरमेव निःश्रेयसाथिनस्तदपाये' प्रवर्तनम्, अन्यथा तदनुपपत्तेः । - अत्र चोद्यम्-'कर्मक्षयान्मोक्षः' इति मतं तदनुपपन्नम्, कर्मणां विपक्षासम्भवेन क्षयस्याभावात् । अशक्यक्रियश्च तत्परिक्षयः, तृष्णायां तद्धतौ पुनरपि तेषामुत्पत्तेः । अथ कर्म२० वत्तृष्णाया अपि कुतश्चित् परिक्षयः, तहि स एवास्तु व्यर्थः कर्मक्षये परिश्रमः, तृष्णापरिक्षये हि सतामपि कर्मणामकिञ्चित्करत्वेन संसारानुत्पत्तेः । कथं पुनः कर्मणामविपक्षत्वं यावता कायपरिक्लेशरूपं तप एव तेषां विपक्ष इति चेत् न; ततोऽप्येकरूपात् विचित्रशक्तीनां कर्मणां परिक्षयायोगात् । अवगतं हि विचित्रशक्तित्वं कर्मणां फलवैचिन्यदर्शनात् अन्यथा तदयोगात् । ततो भवन्नपि तपसा कर्ममलस्य प्रतिरोधः तज्जातीयस्यैव स्यान्न विजातीयस्य। २५ स्यादयमाशयः-तपस एव शक्त्या कर्मशक्तयः सङकीर्णाः क्रियन्ते परिक्षीणा वा, ततो निःशेषस्यापि कर्ममलस्याक्लेशात् तपोलेशतोऽपि चैकरोमोत्पाटनादिलक्षणात् परिक्षयो भवतीति; भवत्ययं शोभनो यदि तत्तपः क्लेशादर्थान्तरम् । तथा चेद्व्यर्थस्तहि 'तप्तवनशिलारोहणादिपरिक्लेशः तदन्यतस्तपस एव कर्मक्षयोपपत्तेः । क्लेशादव्यतिरिक्तमेव तप इति चेत् ; न तर्हि ततः कर्मशक्तीनां सङ्करादिः तस्य कर्मफलत्वेन ततस्तदसम्भवादिति । तत्राह३० तत्त्वज्ञानप्रभावेण तपःसंवरणं नृणाम् ॥ इति । तत्त्वं जीवादिः तस्य ज्ञानं याथात्म्यनिर्णयस्तस्य प्रभावो भावनया प्रकर्षगमनं तेन यत् संवरणं बाह्याभ्यन्तरशुभाशुभरूपव्यापाराणां निवारणम् औदासीन्यापरनामधेयं तदेव तपः, तस्याल्पसत्त्वपुरुषापेक्षया तापत्वेन प्रतिभासनात्, तच्च मृणां मनुष्याणां न तिर्यग्जीवा दीनां भव्यानामपि तेषां तदसम्भवात् । तदेव च तपो विपक्षः कर्मणां तन्निदानप्रत्यनी३५ कत्वात् । यो यन्निदानप्रत्यनीकः त तस्य विपक्षो यथा व्याधिविशेषनिदानवातादिप्रत्यनीकः १ तदुपा-श्रा०, ब०, प० । श्रास्त्रवादिनाशे। २ कथं क-पा०, ब०, प०। ३-ये स-ता। ४"तपोवन इति पा०"-ता०टि०।५-नाच प्रा०, ब०, ५०।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538