Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 318
________________ २।२१२ ] २ अनुमानप्रस्तावः २४९ सन्दिग्धसाध्यं रथ्यापुरुषे रागादिमत्त्वस्य निश्चेतुमशक्यत्वात्, प्रत्यक्षस्याप्रवृत्तेः व्यापारादेश्च रागादिप्रभवस्यान्यत्रापि सम्भवात्, वीतरागाणामपि सरागवच्चेष्टोषपत्तेः । ' मरणधर्माऽयं रागादिमत्त्वात् ' ' इत्यत्र सन्दिग्धसाधनं तत्र रागादिमत्त्वा ऽनिश्चयस्योक्तत्वात् । अत एव असर्वज्ञोऽयं रागादिमत्त्वादित्यत्र सन्दिग्धोभयम् । रागादिमत्त्वे वक्तृत्वादित्यनन्वयम् रागादिमत्त्वस्यैव तत्रासिद्धौ तदन्वयस्यासिद्धेः । अप्रदर्शितान्वयं यथा शब्दोऽनित्यः कृतकत्वात् घटादिवदिति । न ह्यत्र ' यद्यत्कृतकं तत्तदनित्यम्' इत्य- ५ न्वयदर्शनमस्ति । विपरीतान्वयं यथा यदनित्यं तत्कृतकमिति । तदेवं नव साधर्म्येण दृष्टान्ताभासाः । वैधर्म्येणाषि नवैव । तद्यथा नित्यः शब्दः अमूर्तत्वात्, यन्नित्यं न भवति तदमूर्तमपि न भवति परमाणुवदिति साध्याव्यावृत्तं परमाणुषु साधनव्यावृत्ताववि साध्यस्य नित्यत्वस्याव्यावृत्तेः । कर्मवदिति साधनाव्यावृत्तं तत्र साध्यव्यावृत्तावपि साधनय अमूर्तत्वस्यावृत्तेः । आकाशवदित्यु - भयाव्यावृत्तम् अमूर्तत्वनित्यत्वयोरुभयोरप्याकाशादव्यावृत्तेः । सन्दिग्धसाध्यव्यतिरेकं यथा सुगतः १० सर्वज्ञो ऽनुपदेशादिप्रमाणोपपन्नतत्त्ववचनात् यस्तु न सर्वज्ञो नासौ तद्वचनो यथा वीथीपुरुष इति तत्र सर्वज्ञत्वव्यतिरेकस्यानिश्चयात् परचेतोवृत्तीना मित्थम्भावेन दुरवबोधत्वात् । सन्दिग्धसाधनव्यतिरेकं यथा अनित्यः शब्दः सत्त्वात्, यदनित्यं न भवति तत्सदपि न भवति यथा गगनमिति, गगने हि सत्त्वव्यावृत्तिरनुपलम्भात् तस्य च न गमकत्वमदृश्यविषयत्वात् । सन्दिग्धोभयव्यतिरेकं यथा संसारी हरिहरादिरविद्या दिमत्त्वात्, यस्तु न संसारी स न तद्वान् यथा बुद्ध इति, बुद्धात् संसारि - १५ त्वाविद्यादिमत्त्वव्यावृत्तेः अनवधारणात् । तस्य च तृतीये प्रस्तावे निरूपणात् । अव्यतिरेकं यथा नित्यः शब्दः अमूर्त्तत्वात् यन्न नित्यं न तदमूर्तं यथा घट इति घटे साध्यनिवृत्तेर्भावेऽपि हेतुव्यतिरेकस्य तंत्मयुक्तत्वामावात् कर्मण्यनित्ये ऽप्यमूर्त्तत्वभावात् । अप्रदर्शितव्यतिरेकं यथा अनित्यः शब्दः सत्त्वात् वैण आकाशवदिति । विपरीतव्यतिरेकं यथा अत्रैव साध्ये यत्सन्न भवति तदनित्यमपि न भवति यथा व्योमेति साधनव्यावृत्त्या साध्यनिवृत्तेरुपदर्शनात् । त इमे पूर्वसूचिता अष्टादशाऽपि दृष्टान्ताभासाः । २० कुतः पुनरेषामनुद्भावा (वना ) त् न निग्रहस्थानमिति चेत् ? अत्राह सर्वत्रैव न दृष्टान्तोऽनन्वयेनापि साधनात् । अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ।। २१२ । इति । न खलु सर्वत्रापि प्रतिपाद्ये दृष्टान्तेन प्रयोजनं विनाऽपि तेन परिज्ञातसम्बन्धस्य हेतुनैव साध्यस्य साधनात् । यथोक्तम् - " तद्भावहेतुभावौ हि " [ प्र०वा० ३।२६ ] इत्यादि । तत्कथ- २५ मनपेक्षितस्य दोषानुद्भावनं निग्रहायातिप्रसङ्गादिति भावः । यदि वा, सर्वत्र सर्वस्मिन् हेतौ नवेव दृष्टान्तोऽनन्वयेन सपक्षसत्त्वविकलेन अपिशब्दाद् असपक्षासत्त्वरहितेनापि साध्यस्य साधनात्, अत्रापि तात्पर्यं यदि हेतुवद् दृष्टान्तोऽपि साध्यसिद्धेरङ्ग' तदा भवत्यपि तद्दोषानुद्भावनं निग्रहस्थानम् । १ रथ्यापुरुषवदिति । २ अनित्यत्वप्रयुक्त । ३ सर्वमभिधेयं ज्ञेयत्वात् इत्यादौ सर्वस्य पक्षत्वेन व्यतिरेकप्रदर्शनाभावात् । ४ भवितव्यमित्यपि आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538