________________
२।२१२ ]
२ अनुमानप्रस्तावः
२४९
सन्दिग्धसाध्यं रथ्यापुरुषे रागादिमत्त्वस्य निश्चेतुमशक्यत्वात्, प्रत्यक्षस्याप्रवृत्तेः व्यापारादेश्च रागादिप्रभवस्यान्यत्रापि सम्भवात्, वीतरागाणामपि सरागवच्चेष्टोषपत्तेः । ' मरणधर्माऽयं रागादिमत्त्वात् ' ' इत्यत्र सन्दिग्धसाधनं तत्र रागादिमत्त्वा ऽनिश्चयस्योक्तत्वात् । अत एव असर्वज्ञोऽयं रागादिमत्त्वादित्यत्र सन्दिग्धोभयम् । रागादिमत्त्वे वक्तृत्वादित्यनन्वयम् रागादिमत्त्वस्यैव तत्रासिद्धौ तदन्वयस्यासिद्धेः । अप्रदर्शितान्वयं यथा शब्दोऽनित्यः कृतकत्वात् घटादिवदिति । न ह्यत्र ' यद्यत्कृतकं तत्तदनित्यम्' इत्य- ५ न्वयदर्शनमस्ति । विपरीतान्वयं यथा यदनित्यं तत्कृतकमिति । तदेवं नव साधर्म्येण दृष्टान्ताभासाः ।
वैधर्म्येणाषि नवैव । तद्यथा नित्यः शब्दः अमूर्तत्वात्, यन्नित्यं न भवति तदमूर्तमपि न भवति परमाणुवदिति साध्याव्यावृत्तं परमाणुषु साधनव्यावृत्ताववि साध्यस्य नित्यत्वस्याव्यावृत्तेः । कर्मवदिति साधनाव्यावृत्तं तत्र साध्यव्यावृत्तावपि साधनय अमूर्तत्वस्यावृत्तेः । आकाशवदित्यु - भयाव्यावृत्तम् अमूर्तत्वनित्यत्वयोरुभयोरप्याकाशादव्यावृत्तेः । सन्दिग्धसाध्यव्यतिरेकं यथा सुगतः १० सर्वज्ञो ऽनुपदेशादिप्रमाणोपपन्नतत्त्ववचनात् यस्तु न सर्वज्ञो नासौ तद्वचनो यथा वीथीपुरुष इति तत्र सर्वज्ञत्वव्यतिरेकस्यानिश्चयात् परचेतोवृत्तीना मित्थम्भावेन दुरवबोधत्वात् । सन्दिग्धसाधनव्यतिरेकं यथा अनित्यः शब्दः सत्त्वात्, यदनित्यं न भवति तत्सदपि न भवति यथा गगनमिति, गगने हि सत्त्वव्यावृत्तिरनुपलम्भात् तस्य च न गमकत्वमदृश्यविषयत्वात् । सन्दिग्धोभयव्यतिरेकं यथा संसारी हरिहरादिरविद्या दिमत्त्वात्, यस्तु न संसारी स न तद्वान् यथा बुद्ध इति, बुद्धात् संसारि - १५ त्वाविद्यादिमत्त्वव्यावृत्तेः अनवधारणात् । तस्य च तृतीये प्रस्तावे निरूपणात् । अव्यतिरेकं यथा नित्यः शब्दः अमूर्त्तत्वात् यन्न नित्यं न तदमूर्तं यथा घट इति घटे साध्यनिवृत्तेर्भावेऽपि हेतुव्यतिरेकस्य तंत्मयुक्तत्वामावात् कर्मण्यनित्ये ऽप्यमूर्त्तत्वभावात् । अप्रदर्शितव्यतिरेकं यथा अनित्यः शब्दः सत्त्वात् वैण आकाशवदिति । विपरीतव्यतिरेकं यथा अत्रैव साध्ये यत्सन्न भवति तदनित्यमपि न भवति यथा व्योमेति साधनव्यावृत्त्या साध्यनिवृत्तेरुपदर्शनात् । त इमे पूर्वसूचिता अष्टादशाऽपि दृष्टान्ताभासाः । २० कुतः पुनरेषामनुद्भावा (वना ) त् न निग्रहस्थानमिति चेत् ? अत्राह
सर्वत्रैव न दृष्टान्तोऽनन्वयेनापि साधनात् । अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ।। २१२ । इति ।
न खलु सर्वत्रापि प्रतिपाद्ये दृष्टान्तेन प्रयोजनं विनाऽपि तेन परिज्ञातसम्बन्धस्य हेतुनैव साध्यस्य साधनात् । यथोक्तम् - " तद्भावहेतुभावौ हि " [ प्र०वा० ३।२६ ] इत्यादि । तत्कथ- २५ मनपेक्षितस्य दोषानुद्भावनं निग्रहायातिप्रसङ्गादिति भावः । यदि वा, सर्वत्र सर्वस्मिन् हेतौ नवेव दृष्टान्तोऽनन्वयेन सपक्षसत्त्वविकलेन अपिशब्दाद् असपक्षासत्त्वरहितेनापि साध्यस्य साधनात्, अत्रापि तात्पर्यं यदि हेतुवद् दृष्टान्तोऽपि साध्यसिद्धेरङ्ग' तदा भवत्यपि तद्दोषानुद्भावनं निग्रहस्थानम् ।
१ रथ्यापुरुषवदिति । २ अनित्यत्वप्रयुक्त । ३ सर्वमभिधेयं ज्ञेयत्वात् इत्यादौ सर्वस्य पक्षत्वेन व्यतिरेकप्रदर्शनाभावात् । ४ भवितव्यमित्यपि आ०, ब०, प० ।