________________
२४२ न्यायविनिश्चयविवरणे
[२२२१२ न चैवमिति । अस्यानभ्युपगमे दूषणमिदम्-'अन्यथा' इत्यादि । अन्यथाऽन्येन सर्वत्र दृष्टान्तान्वेषणप्रकारेण सर्वभावानाम् अयं पराभिमतः क्षणक्षयोऽसिद्धः सिद्धो न भवेत्; तत्र सर्वेषां धर्मित्वेन सपक्षविपक्षयोरभावत्वेन द्विविधस्यापि दृष्टान्तस्याभावात् । तन्न दोषस्यानुद्भावनमिति व्याख्यानमुपपन्नम् ।
तथा, न दोषादन्यस्योद्भावनमित्यपि, दूषणादन्यदपि हि प्रतिज्ञाहान्यादिकमुद्भाव्यमानं साधनवादिनः पक्षसिद्धौ यदि परस्य निग्रहस्थानम् , उपपन्नमेव, तद्वादिनो जयप्राप्त्या तन्निग्रहस्य न्यायादापत्तेः । तदसिद्धौ पुनरनुपपन्नम् , पराजयस्य जयसव्यपेक्षत्वेन तदभावे दुरुपपादत्वात् । न तत्सिद्धया तस्य तत्पाप्तिरपि तु प्रत्यर्थिनो दोषादिति चेत् ; स्वदोषात्तर्हि पराजयोऽपीति
युगपदुभयं प्राप्तम् , तच्चायुक्तं विरोधादित्युभयोरपि साम्यमेव न जयः पराजयो वा कस्यचित्, तन्न १० सौगतोक्तं निग्रहस्थानम् ।
नापि नैयायिकपरिकल्पितं प्रतिज्ञाहान्यादिकम् ; तस्यासर्दूषणत्वात् । अन्यथा वादेऽपि किन्न तदुद्भावनं यतो न्यनाधिकापसिद्धान्तहेत्वाभासपञ्चकमित्यष्टावेव वादे निग्रहस्थानानीति नियमः ? तस्य गुर्वादिभिः शिष्टैः सह प्रवृत्तेरिति चेत्; किं पुनस्ते सताऽपि दोषेण न निग्राह्या? ? तथा चेत् ;
न्यूनादिनाऽपि न निगृह्मरन्नविशेषात् । को वा विशेषोऽयं नान्यस्य शस्त्रेण व्यापादनं १५ मुष्टियुद्धेन वेति । कथं वा गुर्वादीनां शिष्टत्वम् ? मतभेदाभावादिति चेत्, कथं तैर्वादस्तस्य
तद्भद एव सम्भवात् । "प्रतिपक्षपरिग्रहो वाद" [ न्यायसू०१।२।१] इति तल्लक्षणश्रवणात् । अमत्सरित्वादित्यप्ययुक्तम् ; तत्परिग्रहे मत्सरस्याप्यवश्यम्भावात् अन्यथा सौगतादेरपि न भवेत् । कस्य वा तदुद्भावनात् निग्रहस्थानम् ? सौगतादेरेवेति चेत्, कुत एतत् ? तत्र
तद्धान्यादेः सम्भवादिति चेत्, न; गुर्वादिष्वपि तदविशेषात् । तत्रे सतोऽपि निवारणबु२० द्धयैवोद्भावनं न निग्रहबुद्धयेति चेत्, इतरत्र कुतस्तद् द्धया तदुद्भावनम् ? तस्य दस्युत्वादिति
चेत्; तदेव कस्मात् ? तत्त्वविघटनादिति चेत्; यदि प्रमाणतः; कथं दस्युत्वं तस्य ? कथं वा निग्रहः प्रामाणिके अनुग्रहस्यैवोपपत्तेः ? अपमाणतश्चेत् ; तदिति कुतश्चिच्छक्यनिश्चयम् ? तत एव तस्य निग्रहात् किं प्रतिज्ञाहान्यादिना कर्तव्यम् ? यष्टिन्यायेन द्वाभ्यामपि तस्य निग्रह इति चेत्, उक्तमत्र
'वादिनोऽनेकहेतूक्तो' इत्यादि । यदि न शक्यनिश्चयम् ; तर्हि तद्विघटनं न प्रमाणत इति रिक्ता २५ वाचो युक्तिरिति । तन्न तद्धान्यादिकं निग्रहस्थानमुपपन्नम् ।।
____ छलादिकं तु प्रागेव निषिद्धमिति न सङ्गतमेतत्-"यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः" [न्यायसु० १।२।२] इति । कुतो वा निवारणबुद्धयैव वादे तदुद्भावनम् ? गुर्वादेस्तत्त्वाभिनिवेशेनादस्युत्वादिति चेत; कथं तैर्विवादः ? स्वयं तन्मताभ्यनुज्ञानस्यैवोपपत्तेः । तदपि
___ १ वादन्या० पृ०७२ । २ वादिपक्षासिद्धौ।३ न्यायभा०१।२।१।४-नां विशि-आ०,व०,प० । ५ वादे । ६ इतरत्तत्कुतः आ०,ब०,प० ।