________________
२०२१३ ] २ अनुमानप्रस्ताव
२४३ विचाँव क्रियते न पूर्वमिति चेत् तदा तर्हि तेषां तदभिनिवेशापरिज्ञानात् दस्युत्वसम्भावनोपपत्तेः निग्रहबुद्धयाऽपि तदुद्भावनं भवेत् । तथा च न युक्तमिदम्-"प्रमाणतर्कसाधनोपलम्भो वादः" [ न्यायसू०१।२।१ ] इति, निग्रहस्थानसाधनोपालम्भत्वस्यापि सम्भवात् । तन्न योगस्यापि निग्रहस्थानमुपपन्नम् । किं पुनस्तर्हि तदुपपन्नमिति चेत् ! उक्तमेवेदम्
"स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः ।" [ ] इति । ५ कः पुनरसौ वादो नाम यत्रेदं निग्रहस्थानमित्यत्राह वादलक्षणम्
प्रत्यनीकव्यवच्छेदप्रकारेणैकसिद्धये । वचनं साधनादीनां वादः सोऽयं जिगोषतोः ॥२१३॥ इति ।
अप्रसिद्धवस्तुनिर्णयनिबन्धनं प्रत्यक्षादिकं साधनं तस्य आदिशब्दात् दृषणतदाभासानामपि यद्वचनं स वादः। स च जिगीषतोः परस्परं जेतुमिच्छतोः वादिपतिवादिनोः । १० द्विवचनान्नैकस्य न बहूनामपि । न ह्यकस्य वादः । स हि विप्रतिपन्ने वस्तुनि साधनादेः स्वयंप्रसिद्धस्य वचनम् । न च तत्प्रसिद्धौ विप्रतिपत्तिः विरोधात् । अथ पूर्वं विप्रतिपत्तिः पश्चात् तत्प्रसिद्धिः; तथाऽपि किं वचनेन ? प्रसिद्धिरपि तत एव तस्येति चेत् तस्यापि तर्हि साधनत्वेन तदन्तरादेव प्रसिद्धौ अनवस्थापत्तेः । न कदाचिदपि मौलस्य तस्य वचनं यत एकस्यापि वादो भवेत् । वचनसाधनं विनाऽपि तदन्तरेण प्रसिद्धयति न प्रत्यक्षादिसाधनमिति स्वमतानुरागमात्रम् । १५ तन्नैकस्य वादः । नापि बहूनाम् ; युगपत्तेषां तद्वचने कलकलमात्रश्रुत्या तदर्थानवधारणप्रसङ्गात्, तच्छु तिमात्रेण कस्यचिदिष्टसिद्धरयोगादतिप्रसङ्गोच्च । परिपाट्या तद्वचने तु द्वयोरेव तत्पर्यवस्यतीत्युपपन्नं द्विवचनं जिगीषावचनं च, अन्यथा निग्रहाभावप्रसङ्गात् । अस्ति च वादेऽपि न्युनाऽघिकादेः परैरपि वचनात् । निग्रहोऽपि तत्र अजिगीषायामेवेति चेत्, व्याहतमेतत्-अजिगीषा च निग्रहश्वेति, अन्यथा शिष्यादावपि स्यात् । भवत्विति चेत्, कथं तत्रानुग्रहः ? सति निग्रहे तदयोगात्, निग्रहा- २० नुग्रहयोः परस्परपरिहारस्थितिरूपत्वात् । तथा च न विद्यागमः कस्यापीति नष्टः शिष्यादिव्यवहारः। ततो विजिगीषाविरहाच्छिष्यादेः सतो दोषान्न निग्रहस्तथा गुर्वादेरपि न भवेत् । अस्ति च, तस्माद्विजिगीषुविषय एव वादोऽपि । जल्पादिवदिति न युक्तमिदम्-"तं गुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयुभिरभ्युपेयात" [न्यायसू ४।२।४८] इति, साभ्यसूयैरेव तस्याभ्युपगमोपपत्तेः । तस्य फलप्रदर्शनार्थं प्रत्यनीक'इत्यादि। अत्रैकस्मिन्निति द्रष्टव्यम् तत्रैव साध्यतत्प्रत्यनीकयोर्विरोधोषपत्तेः। २५ न भिन्नधर्मिणि यथा जले शैत्यम् औष्ण्यग्मनाविति । तदयमर्थः-एकस्मिन्नभिन्ने धर्मिणि प्रत्यनीकस्य साध्यविरोधिनो नित्यत्वादेर्धर्मस्य व्यवच्छेदप्रकारेणैकस्य तस्मादन्यस्यानित्यत्वादेर्धर्मस्य या सिद्धिनिर्णीतिः तस्यैतदर्थमिति । एतेन तसिद्धरॅन्यन्न लाभादिकं तत्फलम् । वादिना च द्वयं कर्तव्यं
१ उद्धृतोऽयम्- अष्टसह० पृ०८७ । प्रमेयक० पृ० ६७१ ।२-सङ्गात् प-आ०, ब०, प०। ३ “उपपन्नति सम्बन्धः"-ता० टि०। ४ -रप्यत्रला-आ०, ब०, प० ।