SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २४४ न्यायविनिश्चयविवरणे [ २२२१५ परपक्षप्रतिषेधः स्वपक्षविधिश्चेत्येतच्च प्रतिपादितं प्रतिपत्तव्यम् । यदि प्रत्यनीकव्यवच्छेद एव परस्य निग्रहः कथमुक्तम्-"स्वपक्षसिद्विरेकस्य निग्रहोऽन्यस्य वादिनः।" [ ] इति चेत्, न तद्व्यवच्छेदस्य तत्सिद्धेः कथञ्चिदनन्तरत्वाभिप्रायेण तदभिधानात् । भेदनयेन तु तद्व्यवच्छेदे एवं तस्य निग्रहः । सोऽपि न निग्रहो मिथ्याध्यारोपनिषेधस्य निःश्रेयसहेतुत्वेन अनु - ५ ग्रहरूपत्वात् । ततो लाभाद्यभाव एव निग्रहो वक्तव्य इति चेत् ? अत्राह- . आस्तां तावदलाभादिरयमेव हि निग्रहः। . न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तनम् ।। २१४॥ इति । लाभस्य ग्रामहेमादिप्राप्तेरादिशब्दात् पूजादेश्वाभावः अलाभादिः स परस्य निग्रह इत्यास्तां तस्य मुख्यवृत्त्या वादफलत्वाभावात् । प्रतिपन्नवस्तुप्रत्यस्तमयादिव ततः परस्य परिषदि पीडा १० तिशयस्यापि अनुत्पत्तेः । तस्मादन्यदेव विजिगीषूणां परतिरस्कारकाम्यया प्रवृत्तानां न्यायेन प्रमाण बलेन स्वाभिप्रायस्य तत्सम्बन्धिनोऽभिनिवेशस्य निवर्तनम् । अयमेव निग्रहो वादोपक्रमस्यापि तत्परत्वेनास्यैवान्तरङ्गत्वात् । लाभादेश्चैतन्निबन्धनत्वेन मुख्यफलत्वाभावात् । कथं पुनर्मिथ्याज्ञाननिवतनस्य निग्रहत्वम् ? निःश्रेयसहेतुत्वादिति चेत्, सत्यमिदम् ; वस्तुवृत्या निग्रहत्वं तु तस्याभिप्राय कृतमौषधपानवत्, यथैव हि कश्चित् भेषजद्वेषी रोगी क्षीरादिव्याजेनौषधं पायितेनानुगृहीतमात्मानं १५ मन्यते तथा तत्त्वविद्वेषी परोपि युक्तिबलेन मिथ्याऽभिनिवेशादवरोप्यमाणो निग्रहापन्नमात्मानमभिमन्यते, तेजस्वितया प्रवृत्तश्च साक्षिसमक्ष स्वपक्षपरिक्षयात् मनसि किञ्चित् परितप्यते, ततः तदभिप्रायादेव तस्य निग्रहत्वं न तत्त्वतः । कथं पुनस्तस्य परितापकारिणः करणमपि परमकारुणिकत्वात् जिनमतावलम्बिनामिति चेत् ? न तस्य गुणानुबन्धित्वेनादोषगुणत्वात् (नादोषत्वात् ) गुणानुबन्धि खलु तत्करणं महतः संसारदुःखस्य ततो निस्तरणात् । अन्यथा हि अनिवर्तितमिथ्याऽभिनिवेशप्रबलान्धकारपरि२० वर्तनपरः परिवर्द्धितामय इव अमायावी को जानीयात् कीदृशीं दुःखपरम्परां प्राप्नुयादिति ? ततोऽध्ययनार्थो बालकनिग्रह इव तन्निग्रहोऽपि अदोषबुद्धया पतिपत्तव्यः उपकारभूयस्त्वात् । सम्प्रति वादाभासं दर्शयति-- तदाभासो वितण्डादिः [ अभ्युपेताव्यवस्थितेः। ] इति । वितण्डा जल्प एव पक्षस्थापनारहितः “स प्रतिपक्षस्थापनाहीनो वितण्डा।" २५ [ न्यायसू० १।२।३ ] इति वचनात् । आदिशब्दात् जल्पश्च “यथोक्तोपपन्नश्छलजातिनिग्रह स्थानसाधनोपालम्भो जल्पः" [न्यायसू०१।२।२ ] इति लक्षितः तदाभासो वादाभासः सम्यग्वादो न भवति । कस्मात ? इत्याह-'अभ्युपेताव्यवस्थितेः' इति । अभ्युपेतं यत् वैतण्डिकादिना शब्दानित्यत्वादिकं तस्य वितण्डादेः सकाशात् अव्यवस्थितेः । तथा हि-वितण्डादौ यदि अभ्युपेतव्यवस्थायाः १-षदादिपी-प० । २ यथार्थवक्ता।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy