________________
२।२१५ ] २ अनुमानप्रस्तावः
२४५ नियमः, तदा वाद एव, तन्नियमादेव जयपराजययोर्भावात् । अनियमेऽपि तद्वयवस्थाभावे वाद एव । तदभावे तु कथं वैतण्डिकादेर्जयः पक्षसिद्धिविकलतया परस्मादविशेषात् ? छलादिप्रयोगतदुद्भावनलक्षणाद् गुणादिति चेत्, परस्यापि तद्गुणसद्भावे का गतिः ? द्वयोरपि साम्यमिति चेत्, नेदानी कथारम्भेण प्रयोजनं विनाऽपि तेन साम्यस्य भावात् ? कथं वा तस्य गुणत्वम् ? परत्रासम्भवादिति चेत्, न, तस्य छलजात्यादेरन्यस्यापि बहुलं सम्भवात् । तथा हि
वर्गं विहाय गद्येन कश्चित् पद्येन चापरः । अन्यासम्भविना वक्ति सङ्गीतध्वनिना परः ॥१५८०॥ प्रवाहान्तरसंश्लिष्टं पराऽशक्यं परः कृती। एवं विचित्रा वक्तारः सन्त्यभ्यासबलाश्रयाः ॥१५८१॥ जयिनस्तद्गुणैस्ते स्युरन्यासम्भविभिन किम् । भवन्त्येवेति चेत्; सैषा कथा तुर्या प्रसज्यते ॥१५८२॥ कथात्रयोक्तौ यत्तेषां जयहेतौ न संग्रहः । प्रकृतानुपयोगाच्चेन्न तेभ्यो जयसम्भवः ॥१५८३।। छलादावपि तत्तुल्यं तस्मादपि कथं जयः।। ऋषिणाभिहितत्वाच्चेद् गीतादावपि तत्समम् ॥१५८४॥ नारदादिर्यतिः प्राह गीताज्जयमभीप्सितम् । ऐकस्मादपि साधक्ताच्छन्दात्पापक्षयं परः ॥१५८५॥ दुरपोहं महत्पापं येन जेयमुदीरितम् ।
तस्य वाद्यपि जेतव्यः प्रोक्त एव महषिणा ॥१५८६॥ तन्न मुनिप्रणीतत्वमात्रेण छलादेर्जयनिबन्धनत्वमतिप्रसङ्गात् । एतदेवाह
तदात्मोत्कर्षणायैव वाचो वृत्तिः [ अनेकधा ] ॥२१॥ इति ।
तदिति तस्मिन्नित्यर्थे निपातत्वात् । वाचः वचनस्य वृत्तिः छलादिमयोगतदुद्भावनलक्षणा सा आत्मनो वैतण्डिकादेर्यदुत्कर्षणं तत्प्रयोगाद्यतिशयरूपं परासम्भवि तस्मा एव न जयायेत्येवकारः । कुत इत्यत्राह-'अनेकधा' इति । यतश्छलादिना अन्येन च रूपेण अनेकप्रकारा वाचो वृत्तिः ततोऽन्यप्रकारेणेव छलादिप्रकारेणापि सा तदुत्कर्षायैव न जयाय । अन्यथा चतुर्था अपि २५ कथायाः प्रसङ्गादिति भावः । ततः सूक्तम्-'अभ्युपेताव्यवस्थितेस्तदाभासो वितण्डादिः' इति ।
' साम्प्रतं प्रत्यक्षादिज्ञानानां सङ्ख्यादिकथननिरूपणे प्रयोजनमुपदर्शयितुकामः परेण प्रश्नं कारयति
१ यतः आ०,ब०, प०।२ "एकः शब्द सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति ।" -महाभा० ६।११८४।