________________
न्यायविनिश्चयविवरणे
[२।२१६ प्रामाण्यं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात्
सङ्ख्यालक्षणगोचरार्थकथने कि कारणं चेतसाम् । आ ज्ञातं [ सकलागमार्थविषयज्ञानाविरोधं बुधाः
प्रेक्षन्ते तदुदीरितार्थगहने सन्देहविच्छित्तये ॥२१६॥] इति । चेतसां प्रत्यक्षादिज्ञानानां सङ्ख्या च प्रत्यक्षं परोक्षमिति द्वैविध्यं लक्षणं च विशदं ज्ञानं प्रत्यक्षम् अविशदं परोक्षमिति, गोचरश्च अनेकान्तात्मा जीवादिर्भावः अर्थश्च प्रयोजनमव्यवधानेन स्वार्थव्यवसायो व्यवधानेनोपादानादिबुद्धिप्रवृत्त्यादिस्तेषां कथने शास्त्रारोपिततया निरूपणे किं कारणं निमित्तम् आज्ञातं न किश्चित् । लोकत एव तेषां प्रसिद्धः । तदुक्तम्
"प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः।
प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥" [ न्यायावता० श्लो० २]
प्रसिद्धानामेव तेषामनुवादः तदविसंवादेन प्रवचनप्रामाण्यनिर्णयार्थमिति चेत्, न; तेषामपि तन्निर्णयाय तदन्येषामनुवादप्रसङ्गादनवस्थापत्तेः । तन्निर्णयस्य तदविसंवादात् प्रागेवाभ्यासबलादुत्पत्तेन तदर्थस्तदनुवाद इति चेत्, न; तथा आगमप्रामाण्यनिर्णयस्यापि सम्भवात् । तदेवोच्यते'प्रामाण्यं यदि शास्त्रगम्यम्' शास्त्रं तज्जनितं तदर्थज्ञानं तेन गम्यं निश्चेतव्यं प्रामाण्यमवञ्चकत्वम् । ४ तदपि प्रत्यासत्तेः तस्यैव कथमवगम्यम् ? प्राक् पूर्वम् । कुतः ? अर्थसंवादनात् अर्थस्यागमाभिधेयस्य यत्संवादनं प्रत्यक्षादिनिबन्धनमविप्रतीसाररूपं तत इति । यदि चेत् इति । एतदुक्तं भवति-यथा प्रत्यक्षादौ प्रामाण्यनिर्णयस्ततः प्रागेव तथा यद्यागमज्ञानेऽपि व्यर्थं तदर्थाविसंवादनार्थं तेषां तत्कथनमिति । पक्षान्तरं द्योतयति-'अथ न' इति । अथ यदि ततः प्राक् शास्त्रगम्यं तत्प्रामाण्यं
न भवति पश्चादेवागमादिति; अत्रोत्तरम्-'संख्या' इत्यादि । चेतसाम् आगमज्ञानानां संङ्ख्याद्वय २. नेकादिरूपं परिगणनम् । लक्षणमिति मतिपूर्वत्वादि, गोचरः ससंसारतत्कारणादिः अर्थो हेयोपादेयपरित्यागोपादानादिस्तेषां कथने किं कारणमाज्ञातं न किञ्चित् । तथा हि
कृत्वाऽपि यदि तच्चेतःसङ्ख्यादिकथनं त्वया । तदर्थनिर्णये ऽपेक्ष्यं प्रत्यक्षादिप्रमान्तरम् ॥१५८७।। तत एवेष्टसं सिद्धर्व्यर्थं तत्कथनं भवेत् ।
अर्कादेव मधुप्राप्तौ पर्वतारोहणेन किम् ॥१५८८॥ अतो न युक्तं तत्कथनमिति । अत्रोत्तरमाह-सकलागमार्थविषयज्ञानाविरोधं बुधाः प्रेक्षन्त इति । सकलो निरवशेषो य आगमस्यार्थः प्रत्यक्षादिस्थानत्रयगोचरस्तद्विपयं यज्ज्ञानमागमजनितमेव तस्याविरोधं प्रत्यक्षादिभिरबाधनं बुधाः प्रेक्षन्ते प्रकर्षेण निर्णयरूपेण
१ द्विभेदम्-अङ्गप्रविष्ट-अङ्गबाह्यभेदात् । अङ्गप्रविष्ट' द्वादशविधम् अङ्गबाह्यमनेकविधम् । २-णमज्ञ -ता०।३- मस्तस्यार्थः आ०, ब०, प० ।