________________
२ अनुमानप्रस्तावः
२४७
२।२१७ ] पश्यन्ति तत्कथनेन ततस्तस्मिन् तदुत्प्रेक्षणं कारणमिति मन्यते । तदपि किमर्थमिति
चेत् ? अत्राह- 'तदुदीरितार्थगहने सन्देहविच्छित्तये' इति । तेनागमेनोदीरितोऽथों जीवादिः स एव गहनं बलवत्प्रज्ञाविकलानां दुरवगाहत्वात् तत्र यः सन्देह उपलक्षणमिदं तेन विपर्यासादिश्च तस्य विच्छित्तये विनाशाय । यदि हि तत्कथनेने तदविरोधं नोत्प्रेक्षेरन् बुधाः स्वामिसमन्तभद्रादयस्त'दा यथास्वं परिकल्पितलक्षणैरध्यक्षादिभिरेकान्तवादिनस्तज्ज्ञानस्य ५ विरोधं साधयन्तः सुकुमारप्रज्ञानां सन्देहादिकं तद्गहने परिकल्पयेयुः, सन्देहादिग्रहगृहीताश्च ते श्रेयसः प्रच्यवेरन् । अतो युक्तं परकीयलक्षणनिराकरणेन प्रत्यक्षादिकं व्यवस्थापयतां तत्सङ्ख्यादि- - कथनेन तद्विषयज्ञानस्याविरोधोत्प्रेक्षणं सन्देहादिविच्छित्तरेतस्य फलत्वात् । नन्वेवं प्रत्यक्षादिविषयेऽपि तद्विच्छित्तये परप्रत्यक्षादिभिरविरोध उत्प्रेक्षितव्यः पुनस्तत्राप्येवमित्यनवस्थाप्रसङ्ग इति चेत; सत्यम्, तत्रापि विवादविषये तदविरोधात् तद्विच्छित्तिः, न चैवमनवस्थितिः ; किमप्यन्तरमनु- १० सृत्य तद्विच्छित्तिहेतोरविवादास्पदस्य प्रतिलम्भात् । निवेदितमेतत् प्रथमप्रस्तावे सविस्तरमिति नेह प्रतन्यते ।
कुतः पुनायदर्शनादि निःश्रेयसनिबन्धनतया प्रसिद्धमपि शास्त्रान्तरं परित्यज्य पुरुषार्थसिद्धये भगवदानाय एव भवतामभिरतिरिति चेत् ? अत्राह
शास्त्रं शक्यपरीक्षणेऽपि विषये सर्व विसवादकं । मिथ्यकान्तकलङ्कितं [ बहुमुखैरुवीक्ष्य तर्कागमः । दाहात परिणामकल्पविटपिच्छायागतः साम्प्रतं विस्रब्धैरकलङ्करस्ननिचयन्यायो विनिश्चीयते ॥२१७॥] इति ।
सदसन्नित्यानित्यादयसदेकान्तप्रवादमलीमसं हि सकलमपि परोपक्रमं शास्त्र परीक्षाशक्येऽपि प्रत्यक्षादिविषये विसंवादबहुलं- तत्कथं तदभियोगे श्रेयस्कामानामभिरतिरिति भावः । तादृशं २० शास्त्रं किं कृत्वा पुनः किं क्रियते ? इत्याह- 'बहुमुखैरुद्वीक्ष्य तांगमैः दाहातैः परिणामकल्पविटपिच्छायागतः साम्प्रतं विस्रब्धेरकलरत्ननिचयन्यायो विनिश्चीयते ।' इति । आदितः प्रभृत्यापर्यवसानं विसंवादकमेव तत्कलङ्कितं शास्त्रमित्युद्वोक्ष्योर्ध्वमवलोक्य। कैः ? तांगमैः तकै स्तदव्युत्पाद्यतया तच्छब्दवाच्यैः प्रत्यक्षादिभिरागमैश्च तत्पूर्वापरभागैः बहुमुखैः अनेकप्रकारैः साम्प्रतमिदानी विनिश्चीयते स्थानत्रयेऽपि प्रमाणया निर्णीयते । कोऽसौ ? अकलकरत्ननि- २५ चयन्यायो रत्नानीव रत्नानि सम्यग्दर्शनादीनि पुरुषार्थहेतुत्वात्तेषां निचयो निवहो यस्मिन् न्याये प्रवचनरूपे रत्ननिचयन्यायः स चाकलङ्कानामर्हतां नापौरुषेयः तदभावस्य निवेदनात् । कैः स विनिश्चीयते ? परिणामकल्पविटपिच्छायागतः अनेकान्तरूपकल्पपादपच्छायामुपाश्रितैः । कुतश्छायागतैः ? दाहाः संसारधर्मोषतापग्लपितमानसः, तेषां तच्छायागमनमन्तरेण तदाहोपशम
१ -स्तथा य-आ०, ब०, प० । २ -नार्माहतानां पै-आ०, ब०, प० ।