________________
२४० न्यायविनिश्चयविवरणे
[२।२११ स्थानं प्रतिपत्तव्यम् । दोषाश्च अवयवन्यूनत्वं प्रतिज्ञावचनादिकमसिद्धत्वमनैकान्तिकत्वं विरुद्धत्वं दृष्टान्तदोषाश्चाष्टादश वक्ष्यमाणाः" [ ] इति; तदप्यनुपपन्नमेव; यदि वादिनः सम्य. क्साधनप्रयोगः, सति तस्मिन् दोषाणामसत्त्वेनानुद्भावनसम्भवात् प्रकृतार्थपरिसमाप्त्या तस्य जयस्य प्रतिवादिनः पराजयस्याप्युपपत्तेः । दोषवत्यपि साधने तस्य पराजय एष सतोऽपि दोषस्यापरिज्ञानेनानुद्भा५ वनोपपत्तेरिति चेत् ; न; तस्य वादिन्यपि भावात्, कथमन्यथा दोषवत्साधनप्रयोगः, जानत एव दोषं
तदसम्भवात् ? वादोपक्रमेण प्रवृत्तो यदि स्वपक्षे सम्यक् हेतुमपश्यन् तदन्यदपि न प्रयुञ्जीत स्यादैकान्तिकः पराजयः । तत्पयोगे तु यदि प्रतिवादी दोषमुद्भावयेत् भवति तस्य जयः, अन्यथा तु तदनुद्भावनात् तस्यैव पराजय इति निश्चितपराजयपरिहाराय सम्भवत्येव जानतोऽपि तस्य तत्प्रयोग इति
चेत; किं पुनस्तस्योद्भावित एव दोषः पराजयाय ? तथा चेत्, प्रतिवादिनोऽपि तदनुद्भावनमुद्भावितमेव १० तदर्थम् । तथा चेत्, कस्तस्योद्भावकः ? वाद्यवेति चेत् ; न तदसम्भवात् । न हि मया दोषवत्सा
धनं प्रयुक्तं त्वया तु न परिज्ञातमिति तस्य सचेतसो वचनं सम्भवति स्वयमेवात्मनो निग्रहाकर्षणात् । परोषदर्शितादेव दोषात् तस्य निग्रहो न स्वयं प्रकाशितादिति चेत्, न; चौर्यादेः स्वयं दर्शितादपि तदुपलब्धेः । भवतु प्राश्निका एव तस्योद्भावका इति चेत्; किं ते वादिदोषं न जानन्ति ? तथा चेत्;
न प्राश्निकत्वम्, सिद्धान्तद्वयवेदिनां तत्त्वात् । जानन्तोऽपि प्रतिवादिनः तदुद्भावनेनैव तं निगृह्णन्ति न १५ स्वयमुद्भावनेनाप्रत्यनीकत्वादिति चेत; न; एवमनवस्थाप्रसङ्गात् । शक्यं हि वक्तुं यथा ते वादिनः
सत्यपि दोषे प्रतिवादिनस्तदुद्भावनमपेक्षन्ते तथा तत्रापि वादिनः परिहारं पुनस्तत्रापि परस्य तदुद्भावनं तावदेवं यावदनवधिस्तत्प्रबन्ध इति कथं तदुद्भावनापेक्षयापि ते वादिनः पराजयमारचयेयुः ? कथं वा स्वयमप्रत्यनीकत्वेन वादिनो दोषमनुद्भावयन्तः प्रतिवादिन एव तमुद्भावयेयुः ? अनुद्भावितादेव दोषात्तस्य निग्रहो (हे) वादिनोऽपि स्यात् अविशेष!दिति निरवसर एव प्रतिवादिनो निग्रहः । तन्नासम्यक्सा२० धनवादिनि दोषानुद्भावनात् प्रतिवादिनो निग्रहोपपत्तिः । कः पुनरसौ दृष्टान्तो यद्दोषानुद्भावनं प्रतिवादिनो निग्रहं सङ्कल्पयन्ति सौगता इति चेत् ? अत्राह
सम्बन्धो यत्र निज्ञोतः साध्यसाधनधर्मयोः।
स दृष्टान्तस्तदाभासाः साध्यादिविकलादयः ॥२११॥ इति ।
यत्र यस्मिन् साध्यसाधनधयोरविनाभावस्य सम्बन्धस्य प्रतिपत्तिः स दृष्टान्तः । स च द्वेधा साधर्म्यण वैधयेण च । तत्र साधर्येण कृतकत्वादनित्यत्वे साध्ये घटः, तत्रान्वयमुखेन तयोः सम्बन्धप्रतिपत्तेः । वैधय॑णाकाशं तत्रापि व्यतिरेकद्वारेण तयोस्तत्परिज्ञानात् । तद्वत् दृष्टान्तवदाभासन्त इति तदाभासाः ते च साध्यमादियस्य साधनादेस्ते विकलाः ते चादयो येषां सन्दिग्धसाध्यादीनां ते साध्यादिविकलादयः प्रतिपत्तव्याः । तत्र नित्यः शब्दोऽमूर्तत्वादिति साधने कर्मवदिति साध्यवि- - कलं निदर्शनम् अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलं मूर्त्तत्वात् परमाणूनाम् । घटवदित्युभयविकलम् अनित्यत्वान्मूर्तत्वाच्च घटस्य । 'रागादिमान् सुगतः कृतकत्वात्' इत्यत्र रथ्यापुरुषवदिति
१ हेतुं पश्यन्नपि आ०, ब०, प० । २ वादिनः ।