________________
२३६
२।२१० ]
२ अनुमानप्रस्तावः पत्तौ पुनः स्वशब्देन तद्वचनं प्रतीतार्थत्वेन निग्रहस्थानम्" [ ]इति'; तदपि न युक्तम् ; त्रिरभिहितस्याप्यप्रत्युच्चारणे प्रतिवादिनो निग्रहप्रसङ्गात् परोक्तापरिज्ञानस्यापि दोषत्वात् । अथ परोपरोधार्थो न महतां जल्पारम्भोऽपितु परप्रतिपादनाय तत्र किं त्रिरेवेति नियमेन तावदभिधातन्यं यावत्परः साध्यं प्रत्यायितो भवति न पुनः त्रिरुच्चारितस्याप्रत्युच्चारणेन निगृहणीय इति चेत्, न; अस्यान्वयादिवचनेऽपि तुल्यत्वात् । शक्यं हि वक्तु सामर्थ्यप्रापितमर्थं प्रतिपत्तु मशक्नुवन्तं प्रति तत्प्रतिपिपा- ५ दयिषया तत्परं वचनमुच्चारयन्नपि वादी न निग्रहेण योजयितव्यो वचनवैफल्याभावात् । ।
परमप्यत्र व्याख्यानम्-"संशयादिरहितत्वेन प्रतिपत्तव्यं साधनम् कर्मस्थे भावे प्रत्यय-- विधानात, तदङ्गं स्वरूपं यस्य तत्साधनाङ्गं विवादापन्नं साध्यमेव, तस्मादन्यदसाधनाङ्गं तस्य वचनम् । तद्यथा आत्मनि विवादे नास्त्यात्मेति वयं बौद्धाः । के बौद्धाः? ये बद्धशासनमपगताः । को बुद्धः ? यस्य शासने भदन्ताश्वघोषः प्रबजितः । कः पुनर्भदन्ताश्व- १० घोषः १ यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च तन्नाटकमिति प्रसङ्गमारचय्य नान्द्यन्ते ततः प्रविशति सूत्रधार इत्यारभ्य नाटकग्रन्थं पठति नृत्यति गायति च, अपरस्य व्यामोहमनुवादे शक्तिव्याघातं च कतु मिति, तदपि वादिनो निग्रहस्थानमप्रस्तुताभिधानात" [ ] इति; तदपि न प्रेक्षावतां प्रमोदमाषादयति ; तादृशात् प्रसङ्गपरम्परा करणात् कथाविच्छेदस्यैवोपपत्तेः न पराजयस्य, तस्य प्रतिवादि विजयसव्यपेक्षस्य तदभावेऽनुपपत्तेः । न हि तस्य तत्कर- १५ णोद्भावनादेव जयः, तावता पक्षसिद्धेरभावात् । एवमन्यदपि तत्कारणमनिग्रहस्थानत्वेन प्रतिपत्तव्यम् । तन्नासाधनाङ्गवचनं वस्तुनिर्णयं कुतश्चित् कुर्वाणस्य निग्रहाधिकरणमुपपन्नं जयस्यैवोपपत्तेः । नापि तदुद्भावयतोऽपि प्रतिवादिनो जयः, पक्षसिद्धिविकलतया पराजयस्यैवोपपत्तेः । एतदेव दर्शयति
वादी पराजितो युक्तो वस्तुतत्त्वे व्यवस्थितः।
तत्र दोषं ब्रुवाणो वा विपर्यस्तः कथं जयेत् ॥२१०॥ इति । २०
वस्तुनः शब्दादेस्तत्त्वमनित्यादिकं तत्रैव व्यवस्थितः प्रमाणबलेन कृतोऽर्थो वादी कथं । नैव पराजितः पराजयसम्बद्धो युक्तः,
वस्तुतत्वे स्थितस्यापि यदि वाचा कयाचन । पराजयो जयो लोके हन्त कस्योपकल्प्यताम् ॥१५७०।।
तथा तत्र वादिनि दोषं प्रतिज्ञावचनादिकं वाणश्च न केवलमब्रुवाणो विपर्यस्तः पक्ष- २५ सिद्धिविकल: प्रतिवादी कथं जयेत् नैव जयेदिति । अयमन्तरश्लोकः ।
यत्पुनरिदम्-अदोषोद्भावनमिति। तत्र व्याख्यानम् - "वादिना साधने प्रयुक्त स्वयमभ्युपगतोत्तरपक्ष एव प्रतिवादी यदा तत्र दोषान्नोद्भावयति तदा तदनुद्भावनं तस्य निग्रह
१ द्रष्टव्यम्-वादन्या० पृ० ६६ । २-व्यं तन्नासाधनाङ्गवचनं कर्मस्थभा-आ०, ब०, प० । ३ यस्य स्वराष्ट्रपालनं ना-आ०, बायस्य सुराष्ट्रपालनं ना-प०। ४-रात्कार-आ०, ब०, प०।५-दिनो वि-आ०, ब०, प०। ६ द्रष्टव्यम्- वादन्या० पृ०६६ ।