________________
२३८
न्यायविनिश्चयविवरणे
[२।२०६
५
कृतं सर्वमनित्यं हि दृष्टं यद्वद्धटादिकम् । कृतश्च शब्द इत्येतन्मात्रात् साध्यस्य निर्णयात् ॥१५७२॥ संक्षेप्तव्यं ततस्तेन विनाऽपि वचनं त्वया । अन्यथा निग्रहादुक्तमिदं सिद्धिविनिश्चये ॥१५७३॥ "सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम् । संक्षेप्तव्यं समासार्थनिग्रहस्थानभीरुणा ॥१५७४॥” इति तावन्मात्रेण तज्ज्ञप्तावशक्तं पुरुषं प्रति । सार्थत्वात् स्वार्थिकाद्युक्तिर्न दोष इति चेत्तथा ॥१५७५|| प्रतिज्ञादिवचः कस्माददोषो न प्रकल्प्यते । यतस्तद्वादिनो वादे निग्रहायोपदर्श्यताम् ॥१५७६।। निग्रहश्चेत् प्रतोतार्थात् प्रकृतानुपयोगतः । शब्दालङ्कारदोषोऽपि निग्रहः किन्न कल्प्यते ॥१५७७।। इयत्तानियमो येन निग्रहेष्वभिधीयताम् ।
न हि शब्दादिदोषाणां गणना काऽपि विद्यते ॥१५७८।।
केन वा तस्य तद्वचनान्निग्रहः कर्तव्यः ? प्राश्निकैरिति चेत्; साधु तेषां प्राश्निकत्वं यत् स्वपक्षसाधनसमर्थसाधनप्रयोगोदात्तगुणाधिष्ठानमप्यनरूपदोषेण निगृह्णन्तीति ? जयमपि ते तस्य तद्गुणेन कल्पयन्तीति चेत्, उक्तमत्र युगपत्तयोरेकत्रासम्भवादिति । ततस्तैस्तस्य गुणभूयसो जय एवापादयितव्यो न निग्रहः, निरर्थकवचनदोषस्य सतोऽप्यसत्कल्पत्वात्, “कणिका विषस्य न दृषिका
शीतशिवाम्बुराशौ" [ बृहत्स्व० श्लो० ५८ ] इति न्यायात् । तन्न तैस्तस्य निग्रहणम् । नापि २० प्रतिवादिना; गुणवतस्तेनापि निगृहीतुमशक्यत्वात् । ततो न स्वपक्षसिद्धिसम्पन्नस्य तद्वचनं निग्रह
स्थानम् । तत्सिद्धिविकलस्येति चेत्, नेदानीमधिकवचनेन किञ्चित् तद्वैकल्यस्य निग्रहत्वात् । उभयमपि निग्रह एव "द्विद्ध सुबद्धम्" [ ] इति न्यायात् चेत् ; न; हेतुद्वयेऽप्यदोषापत्तेः । एकस्यैव साध्यप्रत्यायनसामर्थ्य किं द्वितीयेन हेतुनेति चेत् ? न; दोषेणापि किं द्वितीयेन ? एकस्मादेव वादिनो निग्रहनिष्पत्तेरिति साम्यात् । तदुक्तम्
"वादिनोऽनेकहतूक्तौ निगृहीतिः किलेष्यते । नानेकदूषणस्योक्तौ वैतण्डिकविनिग्रहः ।।" [सिद्धिवि०परि०५] इति । तदनेन छलादिकमपि, स्वार्थसिद्धिसम्पन्नस्य तद्विपरीतस्य चोक्तन्यायेन निग्रहाऽनुपपत्तेः । यत्पुनरेतत् - "अन्वयवचनसामर्थ्यात् व्यतिरेकस्य तद्वचनसामर्थ्याच्चान्वयस्य प्रति
१ सिद्धिवि० परि० ५। २ न विद्यते अल्पो यस्यादसौ अनल्पः इति यावत् । ३ द्विबुद्धं सुबुद्धं प०।४ "अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति वैधर्म्यवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्यासामर्थ्य मिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव।"-वादन्या० पृ० ६५ ।