________________
२३७
२।२०६]
२ अनुमानप्रस्तावः "तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥"[ प्र०वा०२।३६ ] इति । अपरिज्ञातप्रतिबन्धं प्रति तदवचनमसाधनाङ्गवचनमेवेति चेत्; तस्य तर्हि न प्रतिवादिनोद्भावनम् आत्मीयापरिज्ञानप्रकटनदोषात् । अथ सम्बन्धाभावमेवासौ तदानीमुद्भावयति; तर्हि साधनव्यभिचारदोषादेव वादिनो निग्रहो न व्याप्त्यनुपदर्शनादिति न किञ्चिदेतत् ।
____ तथा नापक्षधर्मवचनमपि असाधनाङ्गवचनम् ; तद्वचनस्यैव तत्त्वात् । न हि सर्वं कृतकमनित्यमिति प्रतिपद्यमानः शब्दस्यापि कृतकस्यानित्यत्वं न प्रतिपद्यते सर्वानित्यताप्रतिपत्तरेवाभावप्रसङ्गात्, तत्किं तद्वचनेन विनापि तेन साध्यसिद्धेः उपनयादिवचनवत् । परं प्रत्यर्थादापन्नस्यापि तस्य वचने परिज्ञातप्रतिबन्धं प्रति व्याप्तिवचनमपि स्यादिति असङ्गतमेतत्-"विदुषां वाच्यो हेतुरेव हि केवलः ।" [प्र०वा०३।२६ ] इति । ततो नेदं व्याख्यानमुपपन्नम् । १०
इदं तहिं स्यात्-“साध्यते विवादापन्नोऽर्थोऽनेनेति साधनं लिङ्गं तस्याङ्ग पक्ष- . धर्मत्वादिकं तस्यावचनं वादिनो निग्रहस्थानम् । रूपस्यैव अवचने पक्षसिद्धेरनुपपत्तेः।" [ ] इति चेत्, नेदमप्युपपन्नम् ; प्रतिवादिनः परपक्षासिद्धिमात्रेण स्वपक्ष सिद्धेरभावात् जयानुषपत्तेः ।
___ इदं तर्हि व्याख्यान शोभनम्-"यत्साधनाङ्गं न भवति प्रतिज्ञोपनयादि तदसाध- १५ नाङ्गं तस्य वचनं साधनवाक्ये तदङ्गत्वेनोपपादनम् । यथा अनित्यः शब्दः, कृतकत्वात्, यत्कृतकं तदनित्यं 'दृष्टं यथा घटादि, कृतकश्च शब्दस्तस्मादनित्यः इति । तदिदं वादिनो निग्रहाधिकरणमनर्थकाभिधानात् । अनर्थकं हि प्रतिज्ञादिकं विनाऽपि तेन 'यत्कृतकं तदनित्यं यथा घटादि कृतकश्च शब्दः' इत्येतावतैव शब्दानित्यत्वस्य प्रतीतेः, प्रतीतार्थस्याप्यभिधानेऽतिप्रसङ्गः प्रतिज्ञादिभिः पञ्चावयवस्येवान्वयव्यतिरेकाभ्यां षडवय- २० वस्य संशयजिज्ञासाप्रयोजनशक्यप्राप्तिसंशयव्युदासर्दशावयवस्यापि साधनवाक्यस्याभिधानोपनिपातात् ।" [ ] इति चेत्; अत्रोच्यते
कृतकत्वं समर्थं चेच्छब्दानित्यत्वसाधने । प्रतिज्ञादिवचस्तस्य निग्रहाय कथं भवेत् ॥१५६९॥ प्रतीतार्थत्वदोषाच्चेत् पक्षसिद्धिमपीडयत् । *प्रतीतार्थत्वमात्रेण दोषस्तत्कथमुच्यताम् ॥१५७०॥ अन्यथा त्वत्प्रयोगेऽपि स्वार्थिकस्तद्धितस्तथा । यत्तत्पदं च दोषः स्यात् प्रतीतार्थतया स्थितेः ॥१५७१॥
१ तुलना-वादन्या० पृ० ६० । २ 'तस्यैव साधनस्य यन्नाङ्ग प्रतिज्ञोपनयनिगमनादि तस्यासाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं व्यर्थाभिधानात् "-वादन्या० पृ० ६१। ३ तत्प्रतीतार्थमा- आ०, ब०, प०। ४ त्वप्रयो-आ०, ब०, प० ।५ 'कृतकत्वात्' इत्यत्र ।