________________
२३६
न्यायविनिश्चयविवरणे
"विरुद्ध हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते” ॥ [
] इति ।
तस्मादेकस्य प्रकृतसिद्धेरेव परस्य निग्रहो न प्रकारान्तरेण । तदेवाह -
असाघनाङ्गवचनमदोषोद्भावनं द्वयोः ।
न युक्तं निग्रहस्थानम परिसमाप्तितः ॥ २०९॥ इति |
[२२०६
सिद्धिः सिषाधयिषितवस्तुनिर्णीतिः साधनं तस्याङ्ग निर्वर्तकं प्रत्यक्षकं लिङ्ग ं वा तस्यावचनमनुच्चारणं वादिनो निग्रहस्थानं वादमभ्युपगम्य तूष्णीम्भवतो गत्यन्तराभावादिति । एतत् न युक्तम् । कस्मात् ? अर्थस्य वादप्रयोजनस्य साध्यनिर्णयलक्षणस्य अपरिसमाप्तितः तदा हि तस् निग्रहस्थानमुपपन्नं यदा प्रतिवादिनः पक्षनिर्णयफलपरिसमाप्तिः, तदा तस्य जयाद्वादिनः पराजयो१० पपत्तेः, पराजयस्य जयसव्यपेक्षत्वात् । न च विना तत्परिसमाप्तेस्तस्य जयः तदर्थत्वात्तद्व्यापारस्य । न च वादिनस्तूष्णींम्भावादेव तस्य तत्परिसमाप्तिः; प्रमाणकल्पना वैफल्यात् । न तत्परिसमाप्तेः तस्य जयः किन्तु वादिदोषस्योद्भावनादिति चेत्; उक्तमत्र पक्षपरिग्रहा देवैफल्यमिति । कथं वादिनस्तूष्णीम्भावो दोषः, तावता तत्पक्षस्यापरिक्षयात् । शक्तिपरिक्षयादिति चेत्; न; शक्तस्यापि कुतश्चिज्जिह्वाकीलनादेस्तत्सम्भवात् । तस्मात् स्वपक्षं व्यवस्थाप्य जयवाञ्छया प्रवृत्तो यदि तन्न व्यवस्थापयति मा १५ भूज्जय एव तस्य, कस्मात् पुनः पराजयः ? स्वपक्षा साधनादिति चेत्; न; साधनस्य जयनिमित्तत्वेन यस्यैव तदभावे भावात् । तदभाव एव पराजय इति चेत्; न; तस्य प्रतिवादिन्यपि पक्षसिद्धि - विकलत्वेन भावात् । न च द्वयोः पराजयः कस्यचिज्जयाभावे तदनुपपत्तेः ।
२०
यदध्यत्र व्याख्यानंम्–“प्रत्यक्षाविषयस्यार्थस्य सिद्धेरङ्गं त्रिविधं लिङ्गं तस्य वचनं समर्थनम्, तच्च यत्कृतकं तदनित्यं दृष्ट ं यथा घटादिकमिति साध्यसाधनयोः साकल्येन विपक्षे बाधक सामर्थ्यात् व्याप्त्युपदर्शनम्, अप्रदर्शितव्याप्तिकस्यानुक्त कल्पत्वेनागमकत्वात् । पक्षधर्मप्रदर्शनं वा, कृतकच शब्द इति, तदनुपदर्शनेऽपि गमकत्वासम्भवात् चाक्षुषत्वादिवत् । तस्यावचनमसाधनाङ्गवचनम् । तदुद्भाव्यमानं वादिनो निग्रहस्थानम् ।" [ ] इति; तदपि न समीचीनम् ; तदुद्भावनमात्रेण स्वपरपक्षसिद्धिप्रतिक्षेपयोरभावात्, तन्निबन्धनत्वाच्च जयेतरव्यवस्थायाः । यदि च, व्याप्तेरवचनमसाधनाङ्गवचनम् कथं तदपरिज्ञातं (त) तत्प्रतिबन्धं 1 प्रति तदवचनं न दोषायेत्यभ्युपगमः ? यत इदं शोभेत
२५
१ ‘'अकलङ्कोप्यभ्यद्भात्-विरुद्धं हेतुमुद्भाव्य...." - रत्नाकरा० पृ० ११४१ । उद्धृतोऽयम्त० श्लो० पृ० २८० | सन्मति० टी० पृ० ७५६ । प्रमाणमी० पृ० ६५ । २ जयाभाव | ३ " साधनाङ्गस्यासमर्थनाद्वा | त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धेरङ्गम्-स्वभावः कार्यमनुपलम्भश्च । तस्य समर्थनं साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत्कृतकं वा तत्सर्वमनित्यं यथा घटादि, सन्कृतको वा शब्द इति...तस्यासमर्थेनं साधनाङ्गावचनं तद्वादिनः पराजय स्थानमारब्धार्थासाधनात् । ( पृ०१२ ) साधनं त्रिरूपहेतुवचनसमुदायः तस्याङ्ग पक्षधर्मादिवचनम् ..." - वादन्या० पृ० ६१ । ४ - ज्ञानम् आ०, ब० ।