________________
२ अनुमानप्रस्ताव:
२।२०८ ]
२३५ प्रकृतो विधिमुखेन निषेधमुखेन वा साधयितव्यतया प्रक्रान्तो यः अशेषः समग्रः साध्यसाधनरूपः, तत्त्वार्थो न सौगतवत् कल्पितस्वभावस्तस्य प्रकाशः सभ्यचेतसि समर्पणं तत्र पटुवादिनः सकाशात् यो विपरीतः तत्प्रकाशपाटवविकलः स निगृह्यते पराजयं प्राप्नोति । तथाहि-यदा जैनो वादी सम्यकहेतुप्रयोगेण स्वपक्षं प्रकाशयति-परिणामी भावोऽर्थक्रियाकारित्वात् । न हि नित्यैकान्ते तत्कारित्वं क्रमयोगपद्यविरोधात्, क्षणिकैकान्ते सदसत्समयविकल्पायोगाच्च । न च तदुभयविकल्पानाघ्रातं ५ प्रकारान्तरं सम्भवति यतस्तदेकान्ते तत्कारित्वावस्थितिस्तस्य बहिरन्तश्चाप्रतिपत्तेरिति तदा सौगतादिः प्रतिवादी पराजीयते । यदा वा जैन एव प्रतिवादी प्रकृतमेव हेतुं परप्रयुक्तं विरुद्धमुद्भाव्य ततः स्वपक्षमवद्योतयति तदापि परस्यैव पराजयावाप्तिस्तद्विपरीतत्वेनेति प्रतिपत्तव्यम् । अथ यदा सौगतादिरेव वादी प्रतिवादी वा स्क्पक्षे परपक्षे च साधनं वा किश्चित् समोचीनमनवलोकयन् छलादिना प्रत्यवतिष्ठते सभाभीरुतया तूष्णीं वा तिष्ठति तदा तदनुद्भावने जैनस्यैव निग्रह इति चेत्, न; प्रकृतार्थ - १० प्रत्यायने सति तदनुद्भावनस्यादोषत्वात् । यदि च तत्प्रत्यवस्थानादिना जयः परस्य पराजयश्च तदनुद्भावनेन जैनस्य किमर्थास्तहि पक्षप्रतिपक्षपरिग्रहादयो विनापि तैस्तत्सम्भवात् । तदुक्तम्
"वादिनो गुणदोषाभ्यां स्यातां जयपराजयो।
यदि साध्याप्रसिद्धौ च व्यपार्थाः साधनादयः॥"[ ] इति । किञ्च अनुद्भावितैमेवास्य तदनुद्भावनं यदि ।
निग्रहाय छलायेवं किन्न स्यात् प्रतिवादिनः । ॥१५६४॥ उद्भावितं चेत् केनास्य कल्प्यमुद्भावनं त्वया । सभ्यश्चेत् किन्न ते कुर्युश्छलायुद्भावनं तथा ॥१५६५॥ तद्वादिनैव चेत् सोऽयं स्वकौपीनप्रकाशनम् । कुर्वन् कथं जयी नाम न परस्यास्ति सम्भवः ॥१५६६॥ तदुद्भावनतस्तस्य गुणतश्चेजयस्तदा । पक्षविक्षेपणाद्दोषादजयोऽपि सकृद्भवेत् ॥१५६७॥ . न च तौ युगषयुक्तौ जन्ममृत्यू इव क्वचित् ।
यथा वा तमआलोकौ यथा वा स्थितिविभ्रमौ ॥१५६८॥ ततो न परिक्षीणपक्षस्य तदुद्भावनं गुण इति पराजय एव तस्योपपन्न इति सूक्तमिदं २५ विब्रुवाणो विसदृशं दूषणमभिदधानः अब्रु वाणो वा तूष्णीमासीनो वा विपरीत एव निगृह्यत इति । तदनेनासिद्धानकान्तिकहेत्वाभासोद्भावनमपि न पक्षसिद्धिविकलस्य गुण इति प्रतिपादितं प्रतिपत्तव्यम्, अङ्गीकृतनिर्वहणस्यैव सर्वथा गुणत्वोपपत्तेः, तद्भावाभावाभ्यामेव जयपराजययोः सम्भवात् ।
किमर्थं तर्हि तदाभासोद्भावनमिति चेत् ? परस्यानुषायपक्षतां प्रतिपाद्य पुनः स्वपक्षव्यवस्थापनार्थम् । अत एवोक्तम्
१ यथा आ०, ब०, प०। २-वित्वत्मेवा- आ०, ब०, प० । ३ इह आ०, ब०, प० ।