________________
२३४ न्यायविनिश्चयविवरणे
[२।२०४-८ सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृतः। तथाऽपि सुगतो वन्द्यो मृगः खाद्यो यथेष्यते ॥२०४॥ तथा वस्तुबलादेव भेदाभेदव्यवस्थितेः ।
चोदितो दधि खादेति किमुष्ट्रमभिधावति ॥२०५॥ इति ।
सुगतोऽपि न केवलमन्यो जातः पूर्वस्मिन् भवे मृगः मृगोऽपि न केवलं मनुष्य एव सुगतः स्मृतोऽनुमतः तदुत्तरभवे शाक्यैः । ततः किम् ? तथाऽपि मृगसुगतभवयोः उपादानोपादेयतयैकसन्तानत्वेऽपि सुगतो वन्द्यो न मृगो मृगस्तु खाद्यो न सुगत इति यथा येन अवस्थाभेदप्रकारेण इष्यते सौगतैः, तथा वस्तुबलादेव वस्तुशक्तित एव भेदाभेदयोरसाङ्कर्येण व्यवस्थिते चोदितो दघि खादेति कस्मात् उष्ट्रमभिधावति सत्येव तत्साकर्ये तदुपपत्तेः। ----
सम्प्रति जात्यन्तरं दर्शयन्नाहअत्रैवोभयपक्षोक्तदोषारेका [अनवस्थितेः] । इति ।
अव भेदाभेदव्यवस्थितावेव उभयपक्षः नित्यैकान्तपक्षः क्षणिकैकान्तपक्षश्च तत्र य उक्तः स्याद्वादिना दोषः "अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः" [ लधी० श्लो० ८] इत्यादिः
तस्य आरेका संशीतिर्जातिरिति वक्ष्यमाणेन सम्बन्धः । कुत इत्याह-अनवस्थितेः तदारेकायाः १५ प्रमाणबाधितत्वेन स्थित्यभावात् । अन्यथा सर्वस्यापि प्रमाणस्य निर्विषयतापत्तेः । पुनरपि तदन्तरमाह
अनन्वयादिदोषोक्तेः प्रपञ्चो वा [ अनया दिशा ] इति ॥२०६॥
वा इति समुच्चये अनन्वयः सर्वानेकान्तसाधने सपक्षवैकल्यम् आदिशब्दात् अपक्षधर्मत्वं सत्त्वादिसाधने हेतुसाध्ये व्यावृत्त्यभावश्च स एव दोषस्तदुक्तो प्रपञ्चः प्रबन्धो जातिरिति पूर्ववत्सम्बन्धः ।
कयोपपत्त्येत्याह-'अनया दिशा' इति । अनया पूर्वप्रतिपादितया दिशा अन्वयाद्यभावेऽपि गमक२० त्वोपपत्तिवर्त्मनेति।
ननु यथाऽन्यापि साधादिसमा जातियायिकादिना कथ्यते तथा त्वया किन्नेति चेत् ! अत्राह
मिथ्योत्तराणामानन्त्याच्छास्त्रे वा विस्तरोक्तितः।
साधम्योंदिसमत्वेन जातिर्नेह प्रतन्यते ॥२०७॥ इति ।
न पुनरिह शास्त्रे साधर्म्यवैधादिसमा तयाऽपि जातिविस्तरेण निरूप्यते । कस्मादिति चेत् ? मिथ्योत्तराणां पुरुषाभिप्रायनिबन्धनत्वेनेयत्तापरिच्छेदाभावात् त्रिलक्षणकदर्थने वा शास्त्र विस्तरेण श्रीपात्रकेसरिस्वामिना प्रतिपादनादित्यलमभिनिवेशेन ।
तदेवमनुमानतदाभासभेदे निरूपिते यथा जयेतरव्यवस्था तथा दर्शयन्नाह -
प्रकृताशेषतत्त्वार्थप्रकाशपटुवादिनः । विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृहयते ॥२०८॥ इति ।
१ -त्वासत्तासा- आ०, ब०, प० । २ -साध्याम्यावृत्यभा- आ०, ब०, प० । -साध्याव्यावस्या भा-ता० । ३ न्यायसू०५।१।१-३७ ।