________________
२।२०३] २ अनुमानप्रस्तावः
२३३ तदेवमुपदर्य हेतुतदाभासान् सम्प्रति दूषणाभासं दर्शयन्नाह
तत्र मिथ्योत्तरं जातिः [यथाऽनेकान्तविद्विषाम् ] । इति ।
प्रमाणोपपन्ने साध्ये धर्मे यस्मिन् मिथ्योत्तरं भूतदोषस्योद्भावयितुमशक्यत्वेनासदूषणोद्भावनं सा जातिरिति । तत्केषामित्याह-'यथाऽनेकान्तविद्विषाम्' इति । यथेत्युदाहरणप्रदर्शने । अनेकान्तविद्विषः सौगतादयस्तेषामिति । कीदृशं तत् ? इत्याह
दध्युष्ट्रादेरभेदस्वप्रसङ्गादेकचोदनम् ॥२०३॥ इति । दधि चोष्ट्रश्चादिर्यस्य कर्कगुडादेस्तस्य एकचोदनमेकशब्दाभिधेयत्वम् । कुत एतत् ! अमेदत्वस्य दध्युष्ट्रादेरेकत्वस्य प्रसङ्गात् । प्रसज्यते हि अनेकान्तवादिनो यथा क्षीरविकारस्य दधित्वं तथा करमत्वमपि, अन्यथा 'सर्वो भावस्तदतत्स्वभावः' इति सिद्धान्तव्यापत्तेः । तथा च दधिशब्देनैव क्षीरविकारस्येवोष्ट्रस्यापि तदेकतामापन्नस्याभिधानात् दधि खादेति चोदितेन करमेऽपि तद्भक्षणाय १० प्रवर्तितव्यम् । तदुक्तम्-"सर्वस्योभयरूपत्वे' [प्र० वा० ३। १८१ ] इत्यादि । विद्यत एव दधनि कश्चिद्विशेषो यतो न करभत्वं तस्येति चेत्; तर्हि स एव दधीति वक्तव्यं तत एव तत्फलस्य तृप्त्यादेर्भावात्, स च न करभादौ अस्तीति कथं तदतत्स्वभावत्वं भावानां यत एकान्तवाद एव प्रशस्तो न भवेत् ? इदमप्यभिहितम्
"अथास्त्यतिशयः कश्चित् येन भेदेनं वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं वरम् ।" [प्र० वा० ३। १८२ ] इति ।
कथं पुनरस्यासदुत्तरत्वं यतो जातित्वमिति चेत् प्रमाणबलावलम्बिन्यनेकान्ते प्रवृत्तेः। प्रतिपादितं हि तदवलम्बितत्वमनेकान्तस्य प्रत्यक्षतः,सत्त्वादिसाधनसमुद्भवादाभिनिबोधिकादपि तस्यैव प्रतिपत्तेः सविस्तरं समर्थितत्वात् । न च प्रमाणपरिशोधिते वस्तुनि दूषणसम्भवः । तथा हि-तदपि तदतदात्मके वस्तुनि दूषणमुद्धष्यमाणं न तावत् सामान्यविशेषात्मके भवितुमर्हति; दध्याद्यन्वयिनः सामान्यस्यैकस्या- २० भावात् । सदृशपरिणामो हि सामान्यम्, तच्च दध्यादिपर्यवसितमेव न किञ्चिदपि सत्त्वमन्यद्वा समन्वितमस्ति नीलतज्ज्ञानयोः सारूप्यवत् । तत्कथं दध्युष्ट्रयोरेकत्वं यत एकचोदनायामन्यत्रापि प्रवृत्तिः । नापि द्रव्यपर्यायात्मके; दधिद्रव्यस्य स्तब्ध-स्तब्धतरादिभिः स्वपर्यायैरेव अभेदात् नोष्ट्रपर्यायैः । एवमेव निर्बाधायास्तत्प्रतीतेरनुभवात् , अन्यथा विकल्पज्ञानस्यापि स्वगतेनेव तदन्तरगतनाप्यभिलाप्याकारणाभेदापत्तेः न भार्याविकल्पो मातृविकल्पाद्भिद्येत, तथा च तद्विकल्पप्रयुक्तस्य भार्यायामिव मातर्यपि प्रवृत्ति- २५ र्भवेत् । ततः स्याद्वादिमतमनवबुद्धय तत्रेदमुच्यमानं धर्मकीर्तेर्विदूषकत्वमावेदयति-"पूर्वपक्षमविज्ञाय दूषकोऽपि विदूषकः ।" [ ] इति प्रसिद्धः । भवतु वा दधिकरभयोः सामान्यपरायामेव चोदनायां दधिवत् करभेऽपि प्रवृत्तिः,न च दधिचोदनायास्तत्परत्वं क्षीरविकारविषयतया विशेषपरताया एव तत्रोपलम्भात्, तद्विकाराच्च करभरूषस्य विशेषस्यार्थान्तरत्वात् । एतदेव परप्रसिद्धन निदर्शनेन दर्शयन्नाह
१ "सदेव सर्वे को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासात् ..."-आप्तमी० श्लो० १५ । २ तदात्म-आ०, ब०, प०। ३ विकल्पान्तर ।
३०