________________
२३२ न्यायविनिश्चयविवरणे
[२।२०२ देवेच्छति तत्करोतीति चानुसृतं भवति । यदि वा, कृत्वा परिशोधनात् कर्मणामकरणमेवोपपन्नम् "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शन वरम्"[ ] इति न्यायात् । तत्कर्मणामविद्यामलीमसाः पाणिन एव कर्तारो न महेश्वरः स तु तेषां फलमेवोचितं परिकल्पयतीति चेत्, तन्वादीनामपि त एव किन्न कर्तारो
यतस्तेषामीश्वरकर्तृत्वमुच्यते । प्राणिनामज्ञत्वादिति चेत्, न; कर्मस्वषि समानत्वात् । तथा ५ हि-यथा ते तन्वाधुपादानादिकं न जानन्ति तथा कर्मवैचित्र्यनिमित्तमपि, अन्यथा दुष्कर्मकरणासम्भवात् । मा भूवंस्तेऽषि तेषां कर्तार इति चेत् ; आगतस्तर्हि तैरपि हेतूनां व्यभिचारदोषोऽप्रतिविधानः । तन्नोपकारायापि निग्रहकरणमुपपन्नम् ।
प्रयोजननिरपेक्षमेव तस्य जगत्करणं स्वाभान्यादिति चेत् कथं तर्हि तत्कस्यचिदनुग्रहाय अपरस्योपघाताय च ? महेश्वरस्यैवं नामिसन्धिर्जगत्स्वभावादेव तद्विभाग इति चेत्, अनुबद्धस्तईि १० तेन व्यभिचारदोष इत्युपपन्नमनैकान्तिकत्वमचेतनोपादानत्वादीनाम् ।
तथा तत्पुत्रत्वादीनामपि । 'स 'श्यामः तत्पुत्रत्वादितरतत्पुत्रवत् । पक्का एते तण्डुलाः एकस्थाल्यन्तर्गतत्वात् उपमृष्टतण्डुलवत्' इत्यादयोऽपि तद्विपक्षे बाधकवैधुर्येण अन्यथाऽनुषपत्तिवैकल्यादेव अगमकत्वपदवीमासादयन्ति न पुनस्त्रैरूप्यवैकल्यात् । अस्ति पत्र पक्षधर्मत्वं देशान्तरगते देवदत्तादौ
तत्पुत्रत्वस्य भावात् । सपक्षे सत्त्वञ्च, पार्श्ववर्तिनि पुरुषे श्यामे तदुपलम्भात् । विपक्षव्यतिरेकश्च १५ तत्पुत्रत्वस्य अश्यामस्याप्रतिपत्तेः, अश्यामपुत्रस्य चातत्पुत्रत्वात् । नन्वत्र साध्यप्रतिबन्धो नास्ति-न
तत्पुत्रत्वं श्यामत्वस्य कार्यम्; ततः प्रागेव भावात्, विशिष्टाहारदेशादिबलेन पश्चादेव हि ततः श्यामत्वं भवति तत्कथं तद्धेतुकत्वं तत्पुत्रत्वस्य ? कथं वा तत्स्वभावत्वमिति प्रतिबन्धवैकल्यादेव अगमकत्वमत्र नान्यथाऽनुपपत्तिविरहादिति चेत; कथं पुनस्त्रैरूप्ये सति तद्वैकल्यं कृतकत्वादावपि अविश्वास
प्रसङ्गात् ? तदेवात्र नास्ति विपक्षव्यावृत्तेरभावात् अश्यामेऽपि बालावस्थायां तत्पुत्रत्वस्योपलम्भादिति २० चेत् ; शिंशपात्वेऽपि तन्न स्यात्, अङ्कुरदशायामवृक्षत्वेऽपि तद्भावेन विपक्षव्यावृत्तेरभावात् । वृक्षपरि
णामयोग्यतयाङ्करस्यापि वृक्षत्वे श्यामपरिणामशक्तितया बालकस्यापि किन्न श्यामत्वं यतो विपक्षव्यति'रेको न भवेत् ? ततस्तन्मात्रानुबन्धित्वात् साध्यधर्मस्योपपन्नमस्य स्वभावहेतुत्वं शिंशपात्वादिवदिति न प्रतिबन्धवैकल्यादगमकत्वम्,अन्यथाऽनुषपत्तिविरहादेव तदुपपत्तेः ।।
सम्प्रति चिरन्तनाचार्यानुस्मरणेन पुण्यातिशयावाप्तिमभिसन्दधानः श्रीमत्पात्रकेसरिवचनेन २५ हेत्वाभासानामुपसंहारं दर्शयन्नाह. अन्यथाऽनुपपन्नस्वरहिता ये विलक्षणाः ।
अकिश्चित्कारकान् सर्वान् तान् वयं सङ्गिरामहे ॥२०२॥ इति ।
अन्यथाऽनुषपत्तिविरहादेव हि तत्पुत्रत्वादयोऽन्ये ऽपि हेत्वाभासाः साध्यप्रत्यायनवैकल्यात् अकिञ्चित्करा न त्रैरूप्यविरहात् । तदविरहस्योक्तरीत्या समर्थनादिति व्यं स्याद्वादन्यायवेदिनः ३० प्रतिपादयामहे ।
१ पश्या- आ०, ब०, प०। २ नहि त- आ० ब०, प०।