________________
२।२०१] .. २ अनुमानप्रस्तावः
२३१ कथं तर्हि तस्य दुस्तरासारसंसारघोरासातसागरोदरनिपातनिमित्ततां प्रतिपद्यमान एव तत्प्रयुक्तः क्रोडायां प्रवर्तेत ? बालप्रज्ञामलीमसमानसस्यैव तदुपपत्तेः । प्राकृतस्यैव सोऽपि तन्निमित्तं न विश्वलोकाति- - शयिशक्त्यधिष्ठानस्य महेश्वरस्य, न हि यथा पन्नगविषं मानुषाय प्रतपत्येवं मयूरायापीति चेत् ; न; तत्क्लेशेऽपि क्लेशत्वस्याविशेषात् । तथापि प्राकृतक्लेशस्यैव तन्निमित्तत्वं न तस्येति कल्पनायाम् अचेतनोपादानत्वाद्यविशेषऽपि कलशमुशलादिकमेव बुद्धिमधेतुकं न तन्वादीति किन्न विभाग- ५ कल्पनं यतो व्यभिचारदोषो दुष्परिहारो न प्राप्नुयात् ? किञ्च,
मुक्तानामपि तन्वादि कुर्वन् क्रीडति किन्न सः । प्रभावः स्यात् परं चैवमशक्यार्थीपकल्पनात् ॥१५५५।। कर्मणां तन्निमित्तानामभावान्नेति चेदसत् । तेषामपि तदायत्तप्रादुर्भावतया स्थितेः ॥१५५६॥
अचिन्त्यां बिभ्रतः शक्तिं किं वा तेषामपेक्षया । सहायापेक्षिणी शक्तिरचिन्त्या वा कथं भवेत् ? ॥१५५७॥ तन्न क्रीडापरत्वेन युक्ता तन्वादिनिर्मितिः । प्राणिनामुपभोगाय तस्कृतिर्यदि करप्यते ॥१५५८॥ उपभोगोऽपि कर्तव्यः प्रीतिरेव तनूभृताम् । यद्यनुग्रहबुद्धयाऽसौ तक्रियायां प्रवर्तते ॥१५५९॥ तथा च दुःखजन्मेषां न तत्कार्यतया स्थितम् । व्यभिचारेण तद्धेतून् योजयत्यपसंशय॑म् ॥१५६०॥ अस्ति निग्रहबोधोऽपि यदि तस्य मनीषिणः । द्रोहः कस्तैः कृतो येन स तत्र परिव लप्यताम् ॥१५६१॥ द्रुह्यते सोऽपि चेदन्यैः सत्त्वैरत्यल्पशक्तिभिः । तत्प्रभावप्रवादाय त्वं प्रयच्छ जलाञ्जलिम् ॥१५६२॥ अद्रोहकृत्सु तन्नायं निग्रहस्तेषु युज्यते ।
कर्तुं बुद्धिमता देवैरिदमन्यत्र भाषितम् ॥१५६३॥ "तन्वादिकरणात् सत्त्वान् भवक्लेशेन योजयेत् ।
बुद्धिमानीश्वरः कस्मात् स्वयं द्रोहमकुर्वतः ॥" [ सिद्धिवि० परि०७ ] इति। - निग्रहोऽपि तेषामुपकारायैव, फलोपभोगेन कर्मपरिक्षये निर्वाणपुरप्राप्तेर्भावादिति चेत्; अपरिपक्कानामेव तर्हि तेषां परिक्षयः कर्तव्यः स्यात् । एवं हि तेन जंगदनुगृहीतं भवति, प्रभुर्य
- १ तस्य स दु- आ०, ब०, प० । २ साधारण जनस्यैव । ३ प्रभवत्येवं आ०. ब०, प० । ४-शयः आ०, ब०, प०। ५-प्रभावाय आ०, ब०, प०। ६-षां क्षयः कः परि-आ०, ब०, प० । ७ जनानुगृहीतं आ०, ब० प०।