________________
२३० न्यायविनिश्चयविवरणे
[२।२०१ चेतनोपादानत्वादिकमस्ति यस्य घटादौ साध्यानुगमः प्रतिपन्नः । यदि स्यात् जीर्णप्रासादादिवत् तत्राषि प्रतिपत्तुः स्वयमेव कृतबुद्धिः स्यादिति व्यथैवेयमनुमानक्लृप्तिर्भवेत् । ततोऽसिद्ध एव तत्रायं हेतुवर्ग इति कथमनैकान्तिकत्वम् ? तदुक्तम्
"सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद्यक्तं तस्माद्यदनुमीयते ॥" [५० वा० १।१३ ] इति;
तदयुक्तम् ; प्रत्यवमर्शेन तत्रापि तत्सिद्धेः । अस्ति हि घटादाविव तन्वादावपि प्रत्यवमर्शः'अयमचेतनोपादानः, अयमचेतनोपादानः' इत्यादिः, तत्कथं जीवति तस्मिंस्तत्र तदसिद्धत्वकल्पनम् ? व्यपदेश एवायं केवलं न प्रत्यवमर्श इति चेत्, न; कृतकत्वादावपि एवं प्रसङ्गात् । शवयं हि वक्तुं
घटः कृतकः शब्दोऽपि कृतक इति न्यपदेशमात्रमेवेदं नात्रापि सामान्यप्रत्यवमर्शः कश्चित् । तथा १० चात्रासावपि असिद्ध एवेति न कश्चिदपि हेतुः सिद्धः स्यात् । ततो यथा कृतकत्वादौ प्रत्यवमर्श एव
सामान्यविषयः, तद्वदचेतनोपादानत्वादावपि इति सिद्ध एवायम्, केवलं साध्याभावेऽपि भावात् अनैकान्तिकः । तथा हि-बुद्धिमतो तोर्यच्छरीरं तद्यदि तेनैव बुद्धिमता बुद्धिमद्धेतुकं तन्निर्माणेऽपि तस्य शरीरान्तरं पुनस्तन्निर्माणे पीति न क्वचिदवस्थितिस्तच्छरीराणाम् । अन्येन बुद्धिमता तधेतुकं
तदित्यपि न युक्तम्; तच्छरीरस्यापि तदन्येन तद्धेतुकत्वकल्पनायामव्यवस्थापत्तेः। अथाशरीर१५ बुदिधमधेतुकमेव तच्छरीरं तदयमप्रसङ्ग; तन्न; तन्वादावपि तद्धेतुकस्यैव प्रसङ्गात् । अस्तु तर्हि
तेत् अतधेतुकमेवेति चेत्; सिद्धं तर्हि तेन व्यभिचारित्वम् अचेतनोपादानत्वादेः असिधे बुदिधमति तच्छरीरस्याप्यसिद्धत्वात् कथं तेन व्यभिचारकल्पनम् ? सिद्धे सिद्धमेव तदिति चेत्; तथापि किं तत्कल्पनेन सिद्धस्य ते प्रत्यख्यानानुपपत्तेरिति चेत् ; सत्यं यदि प्रमाणसिद्धेन ते तत्कल्पनम्। न
चैवं परागीकारमात्रसिधेनैव तदुपपादनात्, तदङ्गीकारस्य अप्रमाणत्वात् कथं तद्विषयेण व्यभि२० चार इति चेत् ? कथं तादृशेनैव क्षणक्षयादिनाऽनुपलम्भस्य पक्षधर्मत्वं यतो 'नास्ति क्षणक्षयादिर
नुपलम्भात् व्योमकुसुमादिवत्' इत्यनुमानमुज्जम्भेत ? तदभावो न भावेषु साध्यते किन्तु तद्विरुद्धमनि (द्धं नि ) त्यत्वमात्रं कौटस्थ्यमेवेति चेत्; अप्रतिपन्ने तस्मिन् कथं तत्र तद्विरुद्धत्वप्रतिपत्तिः ? पराङ्गीकारादप्रतिपन्नव्यभिचारबुद्धेरिति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । तस्य नास्त्येव शरीर
मिति केचित् । तैरपि तत्र निदर्शनं वक्तव्यं यतोऽशरीरस्यैव तस्य तन्वादिकर्तृत्वं प्रतीयेत इति । २५ उच्यत एव गाढसुप्तः तेन अशरीरेणापि स्वशरीरविक्षेपादेः करणादिति चेत्, अबुद्धिमताऽपि तर्हि
तेन तत्करणाद् बुद्धिमत्त्वमपि तस्य न स्यात् । कुविन्दादेः बुद्धिमत एव दर्शनात् तस्यापि बुद्धिमत्त्वे सशरीरत्वमपि स्यादविशेषात् । किमर्थं वा बुदिधमतोऽपि तस्य तन्वादिकरणम् ? क्रीडार्थमिति चेत्, न; क्षीणक्लेशस्य क्रीडाऽसम्भवात् । क्लेशोऽपि विद्यत एव तस्य रागादिरिति चेत्;
१- णेपि तस्य शरीरान्तरं पुनस्तन्निर्माणेगीति प० । २ शरीरम् । ३ व्यभिचारकल्पनेन । ४ शरीरेण । ५ पराङ्गीकारमानसिद्धेनेव । ६ क्षणिकत्वाभावः। ७ क्षणिकत्वे । ८-दविप्रतिपन्ने व्यआ०, ब०, प०।