________________
२।१६६-२०१] २ अनुमानप्रस्ताव:
२२६ ... न हि शब्दे धर्मिणि नाशित्वस्य साध्यभावः साधनभावो वा सत्त्वस्य उपलक्षणमिदं तेन कृतकत्वादेश्च,तस्य वस्तुतः कल्पनया चावस्तुत्वात् । अत्रैव प्रतिवस्तूपमया दृष्टान्तमाचष्टे
अनलः पावकोऽग्नित्वात् [इत्यनेकान्तविद्विषाम् ] ॥१९९॥ इति । यथैव हि अनले धर्मिणि पावकत्वाग्नित्वयोर्न साध्यसाधनभावः शब्दभेदेऽपि वस्तुभेदाभावात् तथा प्रकृतयोरपि । न हि तत्रापि वस्तुभेदो विकल्पभेदस्यैव भावात् । केषां पुनस्तत्र तयोर्न तद्भावः ? ५ इत्याह-'इत्यनेकान्तविद्विषाम्' इति । विकल्पबुद्धौ अनेकान्तं ये विद्विषन्ति तेषामिति । न हि अत्राभिलाप्येतराकारस्यानेकान्तस्याभावे विकल्पो नाम, यतः विकल्पिताऽपि हेतुसिद्धिर्भवेत् । भवतु कल्पितस्तत्र अनेकान्त इति चेत्, नअनवस्थादोषस्योद्घोषितत्वात् । भवतः कथं तत्र तयोस्तद्भाव इति चेत् ? आह- .
सर्वान्यसदृशः शब्दः सत्वादिपरिणामतः।।
सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥२००॥ इति ।
साधारणेतरस्वभावो हि शब्दः स्याद्वादिनां प्रतीतिबलात् । प्रतीयते हि तत्र साधारणस्वभावत्वं सत्त्वज्ञेयत्वादिना परिणामेन, तद्रूपेण तस्य सर्वापरपदार्थसादृश्यात्, असाधारणरूपत्वं च शब्दत्वश्रावणत्वादिना, तस्य तदन्यत्र सर्वत्राभावात् । अतः शब्दानित्यत्वसाधनेन तेषां सत्त्वादेः प्रतिज्ञाऽर्थेकदेशासिद्धत्वम् । शब्दादसाधारणपरिणामात्मनस्तस्य तद्विपरीतत्वेन न निरंशवादिनामिति १५ भावः । शब्दस्य परिणामत्वे परिणामिना भवितव्यं तस्य तद्धर्मत्वात् । न चासौ कश्चिदपि अस्तीति चेत्, न; पुद्गलपरमाणूनां भावात् । एतदेवाह
अपूनां श्रुतयोग्यत्वातिशयादानहानयः।
शब्दोत्पत्तिविनाशाः [तत्साध्यसाधनसंस्थितिः ] ॥२०१॥ इति ।
शब्दस्य हि उत्पत्तिर्नाम पुद्गलपरमाणूनां ताल्वादिभिः श्रवणज्ञानविषयभावयोग्यस्कन्ध- २० रूपातिशयोपादानमेव, विनाशोऽपि कुतश्चिदतिशयपरिहाणिरेव, नासतः सर्वथा प्रादुर्भावो नापि नोरूपः प्रध्वंसः प्रमाणाभावात् । ततो युक्तं परिणामत्वं शब्दस्य पुद्गलपर्यायत्वात् । न चेदमसिद्धमवबोद्धव्यं तृतीये निरूपयिष्यमाणत्वात् । बहुवचनं तु उभयत्रापि व्यक्तिबहुत्वापेक्षं प्रतिपत्तव्यम् । ततः किम् ? इत्याह-तत्साध्यसाधनसंस्थितिः । तत् तस्मात् साधारणेतरस्वभावसद्भावात् साध्यसाधना- . नामनित्यत्वसत्त्वादीनां संस्थितिरस्तीति शेषः । एवमन्येऽप्यसिद्धा हेत्वाभासा अभ्यहितव्याः । २५
सम्प्रत्यनैकान्तिकस्तदाभास उच्यते । कथं पुनर्विरुद्धेत्यादौ कारिकायामनुक्तस्तदाभासः कथ्यते तदुक्तस्यैव विवरणीयत्वादिति चेत् ? न; सन्दिग्धशब्देन तस्यैव अभिधानात् । सन्दिग्धसाध्यविषयत्वेन तत्र तच्छब्दोषपत्तेः । स च यथा तनुकरणभुवनादिकं बुद्धिमधेतुकम् अचेतनोपादानत्वात् सन्निवेशविशिष्टत्वाच्च घटादिवदिति । '
स्यान्मतम्-सत एव साध्ये तद्विपक्षे च भावादनैकान्तिकत्वम् । न च तन्वादौ तादृशम- ३० १ न्यायवि० श्लो० २।१६७ ।