________________
२२८ . न्यायविनिश्चयविवरणे
[ २।१९८-१६६ उत्पत्तिः; अवस्तुन्येव तस्याहेतुत्वात् । न च प्रतिबन्धान्तरम् । अप्रतिबद्धस्य च न तद्विषयत्वमतिप्रसङ्गादिति ।
__ आश्रयासिद्धो यथा भावमात्रानुषङ्गी - विनाशो भावानां निर्हेतुकत्वादिति । निरन्वयो ह्यत्र भावप्रध्वंसो धर्मी निर्दिष्टः स चासिद्ध एव । अन्यथा किमनेन हेतुना तस्यैवातोऽपि साधनात् ? ५ तत्कथमसिद्धावस्य सिद्धिः सिद्ध एव धमिणि तद्धर्मसिद्धरुपपत्तेः। असिद्धिश्चास्य सान्वयस्यैव विनाशस्य प्रतीतेः, यथा बाल्यादेयौवनादौ । न हि तत्रान्वयो नास्ति, 'स एवायम्।इत्यपरिस्खलितात् प्रत्ययात् । हेतुफलभावादेवायं नान्वयादिति चेत्, न; तन्निमित्तत्वेऽतिप्रसङ्गस्याभिहितत्वात् । - भवतु तर्हि सान्वयनिरन्वयविशेष विवक्षारहितं तदुभयसाधारणं विनाशमात्रं धर्मी सिद्धत्वादिति चेत्; न;
विशेषद्वयस्य असम्भवात् । न हि निरन्वयोऽपि विनाशः क्वचिदवगतिपथप्रस्थायी सान्वयस्यैव प्रतीतेः, १० तत्कथं तयोः किञ्चित् सामान्यं नाम यस्य हेतुं प्रत्याश्रयत्वमुपकल्प्येत ? तदेवाह
सर्वथा नास्ति सामान्यं परिणामविनाशयोः।
यो हेतोराश्रयः [अनिष्टेरिष्टः स्वास्मा विशेषतः] ॥१६८॥ इति ।
व्यक्तमेतत् । भवतु तहिं परिणामात्मैव विनाशो धर्मीति चेत्; आह-अनिष्टेरिति । न हि परिणामः सौगतस्येष्टो यतस्तस्य भावमात्रानुषङ्गित्वं साध्यते । न च तत्साधनमुपपन्नं जैनं प्रति १५ विवादाभावात् । कस्तर्हि सौगतस्येष्टः? इत्याह-'इष्टः स्वात्मा विशेषतः' इति । विशेषेण हि निरनुगम
लक्षणेन सौगतस्येष्टो वस्तुस्वभावो न परिणामेन । स च प्रमाणाभावादसिद्ध इति कथमस्याश्रयासिद्धत्वं न भवतीति मन्यते ? निरंशवस्तुवादिनः सत्त्वादिः सर्वोऽपि प्रतिज्ञार्थंकदेशासिद्धः । तद्यथा अनित्यः शब्दः सत्त्वात् कृतकत्वात् उत्पत्तिमत्त्वाच्चेति । प्रतिज्ञार्थो हि अत्र धर्मिसाध्यधर्मसमुदायः । तदेकदेशः पुनः शब्दोऽनित्यत्वं च, तत्र यथा अनित्यत्वस्य न हेतुत्वं साध्यत्वेनासिद्धत्वात् तथा २० शब्दस्यापि । अत एव शब्दत्वादेस्तत्स्वभावस्य परैस्तत्त्वमनभिप्रेतं तद्वत्सत्त्वादेरपि भवेत्, शब्दस्वभाव
स्य सत्त्वादिनानाधर्मस्याभावात्,अन्यथा निष्कलनिखिलवस्तुप्रतिज्ञाव्यापत्तेः । वस्तुरूप एव तत्र न विद्यत एव नानाधर्मो व्यावृत्तिरूपस्तु विद्यत एव व्यावर्त्यभेदेन तद्भदस्य प्रतिष्ठितेः, “यावन्ति पररूपाणि तावत्यस्तन्निवृत्तयः।" इति [ ] वचनादिति चेत्, न; तद्भदस्याप्येकस्वभावनिबन्धनस्य
कार्यभेदवदसम्भवात् अनेकस्वभावस्य च शब्दे वस्तुन्यभावात् । भाव एव व्यावृत्तिरूपस्येति चेत्; २५ न; तन्निबन्धनस्यापि पुनस्तद्रूपानेकस्वभावस्य कल्पनायामनवस्थापत्तेः । सत्यमेतत्, केवलं विकल्पा
एवाविचारितरम्या व्यावृत्तिभेदेन तद्भदमुपकल्पयन्तीति चेत्, न तर्हि ततः कस्यचित् सिद्धिरवस्तुसस्पर्शित्वात्,अन्यथा ततः साध्यस्यैव सिद्धरनर्थकं लिङ्गसमर्थनम् । तन्न कल्पनासिद्धस्य सिद्धत्वमित्यसिद्ध एव सत्त्वादिः । एतदेवाह
साध्यसाधनभावो न शब्दे नाशित्वसत्त्वयोः । इति ।
१ स एवायमिति प्रत्ययः । २ अर्थध- आ०, ब०, प० । ३ "तस्मादेकस्य भावस्ययावन्ति पररूपाणि तावत्यस्तदपेक्षया व्यावृत्तयः।" -प्र० वा० स्ववृ० पृ० १११।।