________________
२।१६७] २ अनुमानप्रस्तावः
२२७ समर्थम् , व्यतिरिक्तभावप्रतिपत्तेर्व्यतिरेचयितव्यवस्तुप्रतिपत्तिनान्तरीयकत्वात् । अथ तदेव नोलादिकं यथास्वमात्मनि ज्ञानान्तराभावमवैति तत्किं तदर्थेन व्यतिरिक्तज्ञानेनेति चेत् ? न; विना तेन तदेवेत्यादेरपि दुरवबोधत्वात् । न ह्य केन तस्य सर्वस्याऽनवगमे युक्तमिदं तदेवेत्यादिकम् , एकज्ञानव्यापारतयैवास्य प्रतीतेः । ततोऽस्त्येव ज्ञानमर्थान्तरं नीलादेः । कथं पुनस्तेनाप्यव्यापारेण तस्य ग्रहणम् ? सव्यापारत्वेऽनवस्थानस्य प्रतिपादनादिति चेत्, न; स्वत एव तस्य व्यापारत्वेन व्यापारान्तरकल्पना- ५ वैफल्यात् । स्वतोऽपि सर्वग्रहणव्यापारमेव तत् कस्मान्न भवतीति चेत् ? नीलमपि स्वतो नित्यं व्यापि च कस्मान्न · भवति ! स्वहेतोरेव नियतकालदेशतयोत्पत्तेरिति चेत्, न; अन्यस्यापि तत एव नियततद्वयापारत्वेनोत्पत्तेरविशेषात् । यत्पुनरुक्तं मस्तकस्फोटविज्ञानप्रकरणे
"अदृष्टं पश्यतीत्येतत् सुतरामतिदुर्घटम् । ___ दृष्टं च पश्यतीत्येतत् व्यर्थकत्वात् सुदुर्घटम्॥" [ ] इति । १०
तदपि न युक्तम् ; अदृष्टस्यैव पावकादेरनुमितस्य पुनर्दर्शनात् । तदपि दृष्टमेव दृष्टतयैव तत्रानुमानस्यापि प्रवृत्तेरिति चेत्, न; दर्शनाभावे दृष्टत्वस्यासम्भवात् । दर्शनभावे व्यर्थतैव अनुमानस्य सन्निहिततद्रूपवदिति निवेदितमेव तत्पूर्वं सविस्तरमिति नातीव निबध्यते। कुतश्च दृष्टत्वं नीलादेर्यतः परेण : तदर्शनं व्यर्थमुच्यते ? स्वत एवेति चेत्; न; परस्य तद्विषयस्य दर्शितत्वात् । सतोऽपि परस्य कथं तद्विषयत्वं तत्र व्यापाराभावात् ? न हि समसमयस्य तत्प्रतिभासस्य तदायत्तत्वमुपपन्नम् , अन्यथा १५ दीपप्रतिभासोऽपि तुल्यकालतदन्तरायत्तः प्राप्नुयात् । तन्नेदं समञ्जसमुपकल्पितम् । अभिहितं चेदं तत्रैव प्रकरणे
“समानकालयोरेव कार्यकारणता यदि । भवेदेवं यदि भवेद्वयापार इह कस्यचित् ।। प्रदीपयोरपि भवेत् ग्राह्यग्राहकता तथा ।
घटयोरपि तेनेदमसमञ्जसवृत्तिकम् ॥" [ ] इति चेत्; अहो भवान् अश्वारूढोऽपि अश्वं न पश्यति, यतोऽनेन विचारेण नीलतज्ज्ञानद्वयं पश्यन्नपि परतस्तत्प्रतिपत्तिं प्रतिषेधति । न हि विचारस्यातद्विषयत्वे तेन तत्र ग्राहकभावस्यान्यस्य वा निराकरणमुपपन्नम् अप्रतिपन्ने भूतले कलशनिषेधवत् । ततो यथा स्वहेतुतस्तथोत्पत्तेर्विचारस्य तद्विषयत्वं तद्भावनिषेधविषयत्वं वा समसमयस्यापि तथा दर्शनस्यापि नीलादिगोचरत्वमुररीकर्तव्यं २५ तथाप्रतीतेः । न प्रदीपादिभिरतिप्रसङ्गापादनं तत्र तत्प्रतीतेरभावात् । ततोऽस्ति बाह्यस्याप्युपलम्भ इत्यसिद्धिरेवैकोपलम्भस्य हेत्वर्थस्य ।
तथा पृथगनुपलम्भस्यापि । न हि तत्र किञ्चित्प्रमाणम् अप्रतिबन्धात् । न हि तत्र तस्य तादात्म्यम् ; तद्वन्नीरूपत्वापत्तेः । तस्यापि पुनःप्रमाणान्तरेण तदात्मना ग्रहणेऽनवस्थापत्तेः । नापि तस्मात्
१ निर्बध्यते आ०, ब०, प० । २ -षयदर्शनात् प०।