________________
न्यायविनिश्चयविवरणे
[ २१६७
५
व्याख्यातं प्रागेवेदम् । तत्र विरुद्धो नाम साध्यासम्भव एव भावी । स च द्वेधा विपक्षव्यापी तदेकदेशवृत्तिश्चेति । तत्र तद्व्यापी निरन्वयविनाश साधनः सत्त्वकृतकत्वादिः तेन परिणामस्यैव तद्विपक्षस्य साधनात्, सर्वत्र च परिणामिनि भावात् । तदेकदेशवृत्तिः प्रयत्नानन्तरीयकत्व श्रावणत्वादिः, तस्य तत्साधनस्यापि विद्युदादौ परिणामिन्यप्यभावात् तथा साध्ये सत्यसति च यस्यासिद्धिरसौ असिद्धो नाम । स तु अनेकधा चायम् - अज्ञातसन्दिग्धस्वरूपाश्रय प्रतिज्ञार्थैकदेशा सिद्धविकल्पात् । तत्राज्ञातसिद्धः सर्वोऽप्येकान्तवादिपरिकल्पितो हेतुनिवहः, तत्परिज्ञानस्य " परोक्ष [ ज्ञान ] विषय " इत्या दना “विमुखज्ञानसंवेदः" इत्यादिना च प्रतिक्षेपात् । सन्दिग्धासिद्धो यथेह निकुञ्जे मयूरः केकाथितादिति । तत्र हि यदा स्वरूप एव सन्देहः किमयं मयूरस्यैव स्वरः आहोस्वित् मनुष्यस्येति ? तदाश्रये वा किमस्मान्निकुञ्जात् के काययितापात आहोस्विदन्यत इति तदा भवत्येव १० सन्दिग्धासिद्धत्वमस्य |
२२६
स्वरूपासिद्धो यथा – “सहोपलम्भनियमादभेदो नीलतद्धियोः" [
J
इत्यत्र यदि युगपदुपलम्भनियमो हेत्वर्थः सोऽसिद्ध एव विषयदर्शनेऽपि सन्तानान्तरगतस्य तज्ज्ञानस्य कुतश्चित्तत्प्रतिपत्तावपि तद्विषयविशेषस्य अनवगतेरिति प्रथम प्रस्तावे निरूपितत्वात् । अथैकोपलम्भनियमः सोऽपि तादृश एव । न ह्येकस्य ज्ञानस्यैवोपलम्भो बहि१५ रर्थस्यापि तद्भावात् । कः पुनरयं बहिरर्थो नाम यस्योपलम्भात् ऍकोपलम्भस्यासिद्धिः ? नीलधवलादिरिति चेत्; न तन्मात्रेण तत्त्वमपि तु ज्ञानादर्थान्तरत्वे तद्वेद्यत्वे च तन्मात्रस्य ज्ञानत्वेऽप्यविरोधात् । न च नीलादेरन्यज्ज्ञानं पश्यामो यतोऽर्थान्तरत्वं तद्वेद्यत्वं वा तस्य भवेत् । अव्यतिरेके तु न तस्य बहिरर्थत्वं सुखादिर्वत् ज्ञानत्वस्यैवोपपत्तेः । अथ नीलमहं पश्यामीति प्रतीतेः कथमर्थान्तरस्य ज्ञानस्याभावः अहंबुद्धिवेद्यस्य तत्त्वादिति ? तदपि न युक्तम्; कतृ कर्म२० क्रियारूपस्यापि विभागस्याविभागरूपे नीलादावेव कल्पितरूपत्वात्, शिलापुत्रस्य शरीरमित्यादिवत् अतात्त्विकत्वात् । न हि तत्त्वतो ऽहम्प्रत्ययस्य तत्र व्यापारः । व्यापारे वा तत्रापि तद्वेद्ये व्यापारान्तरेण भवितव्यं तत्राप्यपरेणेत्यनवस्थानं भवेत् । व्यापारमव्यापार एव स प्रत्येति चेत्; नीलादि किन्न तथा प्रत्येति ! प्रत्येतु को दोष इति चेत्; सर्वं तर्हि प्रतीयात् अविशेषात् । न चाहमित्यपि शरीरा - दन्यः, स्थूलोऽहमिति तत्सामानाधिकरण्येन प्रतीतेरन्यथाऽसम्भवात् । शरीरस्य च ग्राहकत्वे ग्रामप तदेवेति सिद्धं नीलादितज्ज्ञानयोरनर्थान्तरत्वमिति कथं तस्य बहिरर्थत्वमिति चेत् ? उच्यते- तदेव तदर्थान्तरं ज्ञानं यस्यायं भवद्विचारो व्यापारः । सोऽपि नीलादीनामन्यतमस्यैवेति चेत्; न; तस्य स्वरूपादन्यत्राऽप्रवृत्तेः । न हि तत् नीलादिकमशेषमविषयीकुर्वत् तद्व्यतिरिक्तज्ञानाभावप्रतिपत्तौ
1
१ अनित्यत्वसाधनस्यापि । २ 'स तु' एते पदे व्यर्थे । त्वनेक - ता० । ३ न्यायवि० श्लो० १। ११ । ४ न्यायवि० श्लो० १११९ । ५ " धर्म्यत्र नीला कारतद्धियौ तयोरभिन्नत्वं साध्यधर्मः यथोक्तः सहोपलम्भो हेतुः । ईदृश एव श्राचायये प्रयोगे हेत्वर्थोऽभिप्रेतः ।" -तत्त्वसं० पं० पृ० ५६७ । प्र० वा० ३।३८७ | ६ -यसन्द- प० । ७ एतस्योप - आ०, ब०, प० । ८ - वत्तज्ज्ञा- आ०, ब०, प० । यत्वस्य आ०, ब०, प० । १० ज्ञानत्वादिति । ११ एव प्र- आ०, ब०, प० ।