________________
२२५
२।१६६-१६७ ]
२ अनुमानप्रस्तावः
सूक्तम्- 'कारण'
इति मलसद्भावादुपपन्नं तत्परिक्षयस्य सकलज्ञेयप्रतिपत्त कारणत्वमिति इत्यादि । तदेवमनैकान्तिकत्वं वक्तृत्वादीनाममिधाय साम्प्रतम सिद्धमपि हेत्वाभासं दर्शयन्नाह - असिद्धश्चाक्षुषत्वादिः शब्दानित्यत्वसाधने ॥ १९६॥ इति |
शब्दस्य यत् अनित्यत्वं तस्य साधने कर्तव्ये चाक्षुषत्वं चक्षुर्ब्राह्यत्वमादिर्यस्य रासनत्वादेरसौ असिद्धः, असिद्धिः शब्दे धर्मिण्यसम्भवात् । 'चक्षुःश्रवसो भुजङ्गाः' इति तु प्रवादमात्रमिदं ५ न वस्तुबलप्रवृत्तम्, अन्यथा पिहितलोचनानां पन्नगानां न शब्दश्रवणं भवेत् । अस्ति च तत्तेषाम्, रूपमपश्यतामपि शब्दश्रवणेन पलायनोपलम्भात् । भवतु शब्दे तस्यासम्भवः तथापि सिद्ध एव घटाभावात्, अन्यथा व्यर्थैव चक्षुरादिकल्पना भवेदिति चेत्; न; तत्र सतोऽपि शब्दानित्यत्वं प्रत्यगमकत्वात् । घटाद्यनित्यत्वस्य हि तन्नान्तरीयकत्वेन ततः प्रतिपत्तिर्न शब्दानित्यत्वस्य, तदभावात् ।
ननुभावोऽपि नापक्षधर्मत्वात् सत्यपि तस्मिन् कृत्तिकोदयादौ तदभावात् । ' न ह्युदेष्यति १० शकटं कृत्तिकोदयात्' इत्यत्र पक्षधर्मत्वम् शकटे तदुदयवत् कृत्तिकोदयस्याभावात् । कृत्तिका व तदुदयवत् इतरोदयस्यासम्भवात् । कालादेश्च धर्मिण: "सौगतकल्पितस्य शास्त्रकारेणैव प्रतिक्षेपात् । तन्न अपक्षधर्मत्वेन तदभावः । शब्दानित्यत्वाभावेऽपि तत्र भवतो बाधकाभावादेव तर्हि तस्य भवतु तदभाव इति चेत्; नेदानीं तस्यासिद्धत्वम्, सिद्धस्यैव एवमगमकत्वप्रतिपादनादिति चेत्; सत्यम् ; घटादिगतस्य तस्यैवमगमकत्वं शब्दगतस्य तु नैवम्, असिद्धत्वादेव तस्यागमकत्वात्, अन्यथाऽ - १५ नुपपत्तिवैकल्यस्य तत्र तन्मूलत्वात् । कः पुनः शब्दगतत्वेनैव चाक्षुषत्वादिकं हेतुमभिदध्यात् अनिभिहितस्यासिद्धितोद्भावनाऽनुपपत्तेरिति चेत् ? 'सर्वं सर्वत्र' इति ब्रुवन् साङ्ख्य एवेति ब्रूमः । न च तस्य “शब्दानित्यत्वमनभिप्रेतम् ; आविर्भावादिरूपेण तदभ्युपगमात् । असिद्धत्वञ्चैतस्य तत्राप्रतिपत्तेः । नाप्रतिपन्नं सिद्धं नाम अतिप्रसङ्गात् । ततः स्थितम् - - असिद्ध' इत्यादि । हेत्वाभासत्वमन्यथानुपपत्तिवैकल्यात् । तस्य चैकविधत्वात् तदाभासानामप्येकविधत्वमेव प्राप्नोति, बहुविधत्वञ्चेष्यते तत्कथमिति चेत् ? अत्राहअन्यथासम्भवाभावभेदात् स बहुधा स्मृतः । इति ।
२०
अन्यथासम्भवाभावः अम्यथा ऽनुपपन्नत्वस्याभावः तस्य भेदो नानात्वं तस्मात् स हेत्वाभासो बहुधा बहुप्रकारः स्मृतो मत इति । कैः कृत्वा स बहुधेत्याहविरुद्धासिद्धसन्दिग्धैरकिञ्चित्कर विस्तरैः || १९७॥ इति ।
1
१- श्रवणभु - आ०, ब०, प० । २ अविनाभावाभावः । ३ नान्तरीयकत्वे । ४ पक्षधर्मत्वाभावात् । ५ " यदा च स एव कालो धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् ?”-प्र० वा० स्ववृ० पृ० ११ । ६ " कालादिधर्मिकल्पनायामतिप्रसङ्गः " - प्र० सं० पृ० १०४ | "यदि पुनराकाशं कालो वा धर्मी तस्य उदेष्यच्छुकटवत्त्वं साध्यं कृत्तिकोदयः साधनं पक्षधर्म एवेति मतम् ; तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु, तथा च महानसधूमो महोदधौ श्रग्निगमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । " - प्रमाणपरी० पृ० ७१ । अक० टि० पृ० १९७५ । ७ शब्दादिनि - ता० ।
२ह