SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [ २।१६४-१६ यदि परदुःखादिक्कं सर्वज्ञो न जानाति कथं तज्ज्ञत्वम् ? जानाति चेत् कथन्न दुःखादिमान् ? नहि परस्यापि तत्साक्षात्करणादपरं दुःखादिमत्त्वमिति चेत् ; अत्राह 'परदुःख परिज्ञानाद्दुःखितः स कथं भवेत् ॥ १९४ ॥ स्वतो हि परिणामोऽयं दुःखितस्य न योगिनः । इति । परेषां छद्मस्थानां दुःखं तस्य, उपलक्षणमिदं तेन रागादेश्च परिज्ञानात् दुःखितः सः सर्वज्ञः कथं नैव भवेत् ? न हि दुःखपरिज्ञानादेव दुःखितत्वम् अपि तु स्वतस्तथा परिणामात् । न चायमस्ति योगिनः अपि तु दुःखितस्य संसारिण एव । ततः स एव दुःखी न तज्ज्ञानमात्रेण योग्यपि । न हि पितुरपि पुत्रदुःखपरिज्ञानादेव दुःखित्वं किन्तु स्वतस्तथापरिणामादेव, अन्यथा दुश्चरितपुत्रपरिक्लेशपरिज्ञानादपि तस्य दुःखितत्वं प्राप्नुयात् । १० किं पुनर्भावनापाटवात् कुतश्चिद् बुद्धिप्रकर्षो दृष्टोऽस्ति यतः सकल वेदनमपि ततो भवेदिति चेत् ? बाढमस्तीत्याह २२४ १५ भावनापाटवाद बुद्धः प्रकर्षोऽयं [मलक्षयः ] ॥१६५॥ इति वैद्यकादिशास्त्रार्थस्य चेतसि भूयः परिमलनं भावना तस्याः पाटनं शक्तिविशेषस्ततो बुद्ध : साध्यासाध्य रोग विभागतन्निदानादिप्रतिपत्तेः प्रकर्षो ऽतिशयपर्यन्तप्राप्तिः अयं प्रसिद्धो लोके, तथा सर्वोऽपि जीवादिपदार्थनिवहः प्रवचनोपनीतया प्रज्ञयोपसंगृह्य परिभाव्यमानः तत्प्रकर्षकाष्ठामधितिष्ठतीति भावो देवस्य । तथा हि-विवादापन्ना बुद्धि: स्वविषये प्रकर्षमधितिष्ठति, भाव्यमानत्वात्, वैद्यकादिबुद्धिवत् । प्रकर्ष स्वरूपमाह - 'मलक्षय' इति । 'अयम्' इत्यत्रापि योज्यम्; अयमुच्यमानः प्रकर्षो मलस्य प्रकाशावरणादेः पर्यन्ते क्षयो नापरम्, स्वरसासँम्भविरूपापादनं भावनाशतेनापि तस्याशक्यत्वात् । कुतः पुनस्तत्क्षय एव स इति चेत् उच्यते - विवक्षितो बुद्धिप्रकर्षो मलक्षय२० रूपस्तत्त्वात् काचकामलाद्युपशमरू वर्पे दपादिबुद्धिप्रकर्षवत् । तत्क्षयः किम् ? इत्याह कारणासम्भवाक्षेपविपक्षः सम्प्रतीयते । इति । कारणस्य सकलज्ञेयप्रतिपत्तिनिमित्तस्य असम्भवाक्षेपः स्वीकारस्तस्य विपक्षो विरोधी सम्प्रतीयते निश्चीयते । तथाहि - यस्य यत्र मरक्षयः स तं साक्षात् करोति यथा कश्चिदपगतलोचनमलोचनमलो नीलधवलादि, मक्षयश्च कस्यचिद् जीवादिनिखिला गमार्थविषय इति । किं पुनस्तद्बुद्धेः मलं यत्परिक्षयो हेतु: ? न तावदयं रागादिः; सत्यपि तस्मिन् बुद्धेर्भावात् । नापि शरीरादिः सकलवेदिन्यपि तदभ्युपगमात् । अत एव न दूरदेशादिरपीति चेत्; न; शरीरेन्द्रियादिव्यतिरिक्तस्य आस्मसमवायिपुलपरिणतिविशेषस्य तत्त्वात् । कुतस्तदस्तीति चेत् ? उच्यते- 'यत स्वविषये ज्ञानमस्पष्टं तत्तादृशमलनिमित्तं यथा मदिरोपयोगिनः सन्निहितेऽपि घटादौ अस्पष्टवेदनम्, अस्पष्टं च सर्वत्रापि स्वविषये प्रवचनज्ञानम् ।' २५ 1 १ तुलना - " संवेदनाद्रागिता चेत् स्त्रीमान् स्यात्तन्निरूपणात् । सम्बन्धाद्रागिता तस्य न तु रागादिवेदनात् । " - प्र० वार्तिकाल० १| २३३ । २ अकलङ्कदेवस्य । ३ - सम्भवी रूपादा- आ०, ब०, प० । ४ - पपाटवादि - ता० । ५- चिदपिजी - आ०, प० ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy