________________
२।१६३-१६४ ]
२ अनुमानप्रस्तावः
२२३
भवेदयं प्रसङ्गोऽपि यदि संसारिणां तु छद्मस्थानामपि जीवानां स्वप्रदेशेषु कथञ्चित् कर्मपटलस्य ज्ञानावरणापव्यपदेशस्य अच्छता रूपादिवेदन प्रतिबन्धिशक्तिवैकल्यलक्षणपरिणतिविशेषो न स्यात् । अस्ति चेयम्, अतोऽयं न प्रसङ्ग इति । यद्येवं तदच्छताया एव स्वरूपादिग्रहणोपपत्तेः किं चक्षुरादिभिरिन्द्रियैरिति चेत्; अत्रोत्तरम् - यत्र येषु तत्प्रदेशेषु कर्मपटलाच्छतेति सम्बन्धः । ते चक्षुरादय आदिशब्दाद्रसनादयश्च नापर इति । न हि गोलकादेरिन्द्रियत्वमन्यत्रोपचारात् । ५ मुख्यतः क्षयोपशम विशेषस्यैव तत्त्वात् । अत एव गवाक्षसमत्वं तेषां तत्त्वविदः प्रतिपद्यन्ते । यदि तेषां न मुख्यत इन्द्रियत्वं किन्न तदभावेऽपि तद्वेदनमिति चेत् ? भवत्येव तदच्छतायाम् । कथमन्यथा_ पितझोल (पिहितगोल) कादिव्यापारस्यापि स्वप्नादौ सत्यरूपादिवेदनम् ? निरूपितं चैतत् प्रथमप्रस्तावे । 'सर्वार्थः' :" इत्युक्तम् । सर्वे चार्था वर्तमानवदतीतानागताश्च । न च तेषां ग्रहणं ज्ञानकाले अविद्यमानत्वात्, कथमिदं तैः सम्प्रयुज्यत इति चेत् ? अत्राह
साक्षात्कर्तुं विरोधः कः सर्वथावरणात्यये ॥१९३॥
©
सत्य तथा सर्वथाऽभूद्रा भविष्यति । इति ।
तात्पर्यमत्र - यदि ज्ञानेन तत्काल सन्निहितस्याग्रहणं तर्हि तदात्मतद्देशयोरप्यसन्निहितस्याग्रइणात् न स्वरूपादन्यत्प्रमेयं नाम भवेत् । यदि न तत्सन्निधानात् प्रयोजनमावरणापाये ताभ्यामसन्निहितस्यापि परिज्ञानादिति; तर्हि कालसन्निधानस्यापि न किञ्चित् फलम्, अतीतादेरपि तदवा- १५ यादेव प्रतिषत्तेरित्यावेद्यते । यथा येन अनादित्वेनानन्तत्वेन च प्रकारेण अभूत् भूतं भविष्यति 1 भावि च वेति समुच्चयार्थत्वात्, तथा तेन प्रकारेण सत्यमविप्रलब्धं यथा भवति सर्वं साक्षात्कर्तुं को विरोधो न कश्चित् । कदा ? सर्वथावरणात्यये इति ।
कालेनाऽसन्निकृष्टस्य न चेत् सर्वविदा ग्रहः ।
वेदेनापि तदर्थस्य भाविनः स्यात् कथं ग्रहः || १५५०॥ आनन्त्यात् भाविनोऽर्थस्य वेदार्थस्यापि तत्समम् । सर्वज्ञेनेव तज्ज्ञानं तद्वेदेनापि दुष्करम् ॥ १५५१ ॥ तदर्थानन्त्यवित्तिश्चेन्नास्ति वेदादितीष्यते ।
"सतस्तस्य ततो वित्तौ कुतस्ते तत्प्रवेदनम् || १५५२॥ नास्त्येव तच्चेद्वेदोऽपि स्यादनन्तः कथं तव ? तथापि तस्यानन्त् स्यात् अर्थशून्या व्यवस्थितिः ॥ १५५३॥ ततो यथा स्वास्थमपि वेदोऽर्थवेदनम् । वेदार्थानन्त्यवित्तद्वत्सर्वज्ञो ऽपीति गम्यताम् ॥१५५४॥
१०
१ "अनेक गवाक्षान्तर्गत प्रेक्षकवत् " - प्रश० भा० पृ० ३३ । २ अथ न आ०, ब०, प० । ३ तदात्मतद्देशाभ्याम् । ४-थानादि - ता० । ५ समंतस्य - आ०, ब०, प० ।
२०
२५