________________
२२२ न्यायविनिश्चयविवरणे
[२।१६१-१९३ हि तोयस्य पावकत्वेन परिभावितस्यापि पावकमयत्वमिति; तन्न; स्वशक्तित एव तासामशेषविषयत्वात्, अन्यथा व्याप्तिज्ञानानुपपत्तेरिति निवेदितत्वात् । किमिदानी तबलेनेति चेत् ? न; तेन तद्तस्यैव स्पष्टासाधारणाकारप्रतिभासप्रत्यर्थिनः कर्ममलस्यैव प्रत्याख्यानात्, चैतन्योन्मीलनप्रत्यर्थिनो विषोपलेपस्येवामृतध्यानवलेन । अत एवामनन्ति-"तपसा निर्जरा च" [त० सू०९।३] ५ इति । तदेव दर्शयति
सर्व प्रकाशप्सामर्थ्य ज्ञानावरणसंक्षयात् । इति ।
ज्ञानमात्रियते येन तज्ज्ञानावरणं कर्म वक्ष्यमाणसद्भावं तस्य संक्षयः समन्तात् परिक्षयः श्रुतविषयभावनात् । ततः सर्वस्य यः प्रकाशः स्पष्टासाधारणाकारप्रतिभासरूपः तत्र सामर्थ्य बुद्धीनामिति शेषः । एतदेव स्पष्टयन्नाह
अक्षयात् पुरुषत्वादेः प्रतिपक्षस्य संक्षयात् ॥१९१॥
सर्वतोऽक्षमयं ज्योतिः सर्वार्थः सम्प्रयुज्यते । इति ।
ज्योतिर्ज्ञानमेव प्रभास्वरत्वाद् अक्ष आत्मा प्रकृतः प्रकर्षेण निश्चितो यस्मिन्नित्यक्षमयम् आत्मस्वरूपं स्वरूपादन्यत्र तन्निश्चयानुपपत्तेः । तत् सर्वाथैः ग्राहकत्वेन सम्प्रयुज्यते ।
किमेकस्मिन्नेव मुखे ? न; सर्वतः सर्वात्मना ऊर्ध्वमधस्तादग्रतः पृष्ठतः सर्वतश्च । कुतस्तथा ? १५ प्रतिपक्षस्य ज्ञानावरणस्य संक्षयात् निःशेषापगमात् । तथा च प्रवचनम्
"निरावरणवाभासद्दिव्यबोधमहोमयी।
प्रख्यायोर्ध्वमस्तिर्यक् प्रतिव्यक्ति प्रकाशते ।।" [ ] इति ।
प्रतिपक्षपरिक्षये तदाहितविशेषस्य ज्ञानस्यापि परिक्षयात् । कथं तस्य पुनः सर्वार्थैः सम्प्रयोग इति चेत् ? न; तदापि तद्विशेषस्यैवास्पष्टप्रतिभासविभ्रमरूपस्य व्यावृत्तेः न ज्ञानमात्रस्यापि, २० निरन्वयायां वस्तुनिवृत्तौ प्रमाणाभावात् । अत एवेदम्-'अक्षयात् पुरुषत्वादेः' इति । पुरुषत्व
मन्वितं जीवरूपम् आदिशब्दाच्चेतनत्वादीति तस्यैवेति चेत् ; ननु चेतनत्वमेव पुरुषत्वं तत्कथं तदन्यत् यत आदिपदेन सङ्ग्रह इति चेत् ? न; तदापि तद्विशेषस्यैवास्पष्टप्रतिभासविभ्रम [ रूप ] पुरुषत्वस्य साधारणेतरस्वभावस्य अचिद्रूपतन्मात्रत्वात्, चेतनत्वस्य चोपयोगव्यपदेशस्य असाधारण
रूपत्वात् । अत एवोक्तम्-"उपयोगस्वात्मान्यो वस्तुत्वादिस्तदुभयभावो जीवः" २५ [ ] इति । यदि प्रतिपक्षपरिक्षयाज्ज्योतिः छद्भस्थानां तदभावात् कथं रूपादिवेदनमिति चेत् ? अत्राह
कथश्चित् स्वप्रदेशेषु स्यात् कर्मपटलाच्छता ॥१९२॥ संसारिणां तु जीवानां यत्र ते चतुरादयः । इति ।
१ भवानाबलेन । २ पुनस्तस्य आ०, ब०,प०। ३ तथापि आ० ब०५०। ४ न चेतआ०,व०प०।५-पस्य ता०।