________________
२।१८६-१९०] २ अनुमानप्रस्तावः
२२१ वचस्यपि विभागोऽयं प्रशस्यः कल्प्यतां त्वया ॥१५४४॥ सर्वज्ञश्चन्न वक्तव्यः कल्पितः किं त्वयाऽप्यसौ । प्रयोजनं विना यस्मान्न मन्दोऽपि प्रवर्तते ॥१५१५॥ तत्सन्निधानतस्तत्त्वज्ञानं स्यादिति चेत् कुतः । तज्ज्ञानं येन तत्सन्निधानादित्यभिजल्पसि ।।१५४६॥ तत्त्वज्ञानोदयाच्चेत् स व पुनस्तत्कृतो' गतः । निरन्वयस्य यद्धेतोर्गमकत्वं न वाञ्छसि ॥१५४७॥ कुतो वा सन्निधिस्तस्य नियतेष्वेव सम्भवी । अदृष्टनियमाच्चेत् स्यात् तत्त्वज्ञानं ततो न किम् ? ॥१५४८॥ तन्न तत्सन्निधानेन किञ्चिदस्ति प्रयोजनम् ।
विनाप्येवं यतस्तेन तज्ज्ञानमुपपत्तिमत् ।।१५४९।। इति । ततो न युक्तमिदं राहुबलकीर्ते:-"चिन्तारत्नोपमानो जगति विजयते विश्वरूपोऽप्यरूपः।" [ ] इति । तदुषमानत्वस्यैव सन्निधिबलात् तत्त्वज्ञाननिबन्धनरूपस्यानवगमात् । ततो नोपमानादेव तत्त्वपर्यवसायिनस्तस्य परिज्ञानमिति कथन्न वक्तत्वं तस्य कथं चायथार्थत्वं वचसाम् ? इत्युपमन्नमुक्तम्-'तत्कार्य' इत्यादि । तदेवं वक्तृत्वस्य सर्वज्ञत्वेनाविरोध- १५ मुपपाद्य पुरुषत्वादेरप्युपपादयन्नाह
यथा वचनसवैज्ञकार्यकारणभूतयोः ॥१८९॥ अविरोधेन वाग्वृत्तेराद्रेकस्तनिषेधने ।
तथैव पुरुषत्वादेरक्षयाबुद्धिविस्तरे ॥१६॥
तथैव हि वा [ग्] वृत्तेः हेतोस्तस्य सर्वज्ञस्य निषेधेन केवलम् आद्रेकः शब्दोत्साह २० एवार्थरहितः । मीमांसकस्य स एवेति । केनेति चेत् ? पचनसर्वज्ञकार्यकारणभूतयोरविरोधेन वचनस्य सर्वज्ञस्य च योऽयमुक्तन्यायेन कार्यकारणभूतयोरविरोधस्तेनेति । तथैव पुरुषत्वादेरादिशब्दात् शिरःपाण्यादिमत्त्वादेरपि तनिषेधने आद्रेक इति सम्बन्धः । एतदेव कुत इति चेत् ? तस्यैव पुरुषत्वादेषु द्धिविस्तरे प्रज्ञाप्रकर्षे सत्यपि अक्षयादिति । यदि हि तस्य तेन विरोधः सति बुद्धिपकर्षतारतम्ये तदप्यपकृष्यमाणमुपलभ्येत उष्णातिशयतारतम्ये शीतवत् । न चैवम्, अतो । न तस्य तेन विरोध इति । केवलं ततोऽपि तन्निषेधनमाद्रेक एव । स्यान्मतम्- नियतविषया एव निसर्गतो बुद्धयः तत्कथं तासां भावनाबलादपि सकलं तद्विषयं ( सकलतद्विषयत्वम् ? ) न
१ तत्कुतो आ०. ब०, प०। २ ततोऽनुपमा- आ०,ब०,प०।३ वा - ता०। ४ हिमवान् आ०, ब०, प०।५आद्रक एव । ६-तम्येनैव त-आ०, ब०, प०। ७ पुरुषत्वादेरपि ।