________________
२२० न्यायविनिश्चयविवरणे
[२।१८८-१८६ इयं सकलवेदिनि परैः परिकल्प्यमाना विवक्षा वक्तुमिच्छा अप्रमत्ता प्रमादरहिता कस्मात् ! अन्यथा अन्येन प्रमत्तप्रकारेण योऽसौ नियमस्तत्कृतस्य वचनप्रबन्धस्य स्थानत्रयेऽपि अविसंवादावधारणं तस्या अत्ययोऽभावस्तस्मात् । नहि प्रमादवद्धतुनिबन्धनस्य तन्नियमः सम्भवति,
अस्ति चायं प्रत्यक्षविषये प्रथमेन अनुमानवेद्ये द्वितीयेन अत्यन्तपरोक्षे च तृतीयेन प्रस्तावेन तन्नियमस्य ५ प्रसाधनात् । ततः सा प्रमादरहितैव ततो न दोषवतोत्याह
इष्ट सत्यं हितं वक्तमिच्छा दोषवती कथम् । इति ।
इष्टं श्रेयोऽर्थिभिरभिलषितं संसारतत्कारणादिकं सत्यं न सौगतादिवत् कल्पितम् । अत एव हितं पुरुषार्थभूतं वक्तुमिच्छा कथयितुकामता कथं दोषवती न कथञ्चिदिति ? कुतः पुनः कस्यचित् सकलज्ञानं यतः कथमित्याधुच्यत इति चेत् ? अत्राह- -
प्रज्ञाप्रकर्षपर्यन्तभावः सर्वार्थगोचरः ॥१८८॥ इति ।
प्रज्ञायाः सकलश्रुतार्थबुद्धेर्यो ऽसौ प्रकर्षों भाव्यमानाया अतिशयगमनस्य (नं तस्य ) यः पर्यन्तभावः परिस्फुटव्यापारात्मा स सर्वार्थगोचरः सर्वदेशकालादिव्यवहितोऽर्थो जीवादिर्गोचरो यस्य स तथोक्त इति । एतदुक्तं भवति-सकलश्रुतार्थभावनायां तत्पर्यन्ते सा परिस्फुटसकलवस्तुप्रभाववती
भवति कामिन्यादिभावनावत् । तद्वांश्च सर्वज्ञ इति । भवतु वक्ता सर्वज्ञः तद्वचनस्य तु कथं यथार्थत्वं १५ यतस्तत्त्वज्ञानार्थिनामयेमन्वेषणीयः स्यात् ? स्वरसत एव शब्दानामयथार्थबुद्धिहेतुत्वेन तदुक्तानामपि वस्तुगोचरत्वानुपपत्तेरिति चेत्; अत्राह
तत्कार्योत्कर्षपर्यन्तभावः सर्वहिताभिधा । इति ।
तस्य तत्पर्यन्तभावस्य कार्य वचनं तस्योत्कर्षः एकान्तप्रवादापेक्षोऽतिशयोऽविपतिसारलक्षणः तस्य पर्यन्तभावः स्वविषये सर्वत्र सत्त्वम् , सर्वेभ्यो हितस्य श्रेयसः तन्मार्गस्य च २० अभिधा प्रकाशनमिति । तात्पर्यमत्र
वाचां हि तत्प्रयुक्तानामविसंवादभावतः । प्रतीयते यथार्थत्वं कथं तेनायथार्थता ॥१५४०॥ अयथार्थं वचः सर्वमिदं चेदर्थवद्वचः ।। अयथार्थं वचः सर्वमिति सन्धा विलिप्यते ॥१५४१॥ इदमप्ययथार्थं चेद्यथार्थं स्याद्वचः परम् । अयथार्थायथार्थत्वे यथार्थत्वव्यवस्थितेः ॥१५४२॥ यथार्थत्वे स्वतः सर्वं वचः किन्न तथेति चेत् । चक्षुरादि तथा किन्न सर्वमर्थवदुच्यताम् ॥१५४३॥
अर्थवद्गुणवत्तच्चेन्मिथ्यार्थमितरन्मतम् । १ "स्थानत्रयाविसंवादि श्रुतज्ञानं हि वक्ष्यते ।" -त० श्लो० पृ० १३ । प्रत्यक्षानुमेयअत्यन्तातीन्द्रियलक्षणे स्थानत्रये । २- यमुन्मेषणी-आ०, ब०, प० ।