________________
२ अनुमानप्रस्तावः
२१६
वचनस्य विज्ञानमेव कारणम्, असति तस्मिन्निच्छायामपि तदभावादिति निवेदनात् । तच्च तस्य यावत् यत्प्रमाणं प्रकृष्यते रूपं तावत् तत्प्रमाणं कार्यं वचनं तेन नो विरुद्धयते अपि तु तदपि प्रकृष्यत एव । सति विशिष्टे वह्निप्रकर्षे धूमेऽपि तत्कार्ये प्रकर्षस्यैव दर्शनात् । ततः प्रकर्षपर्यन्तगतेऽपि ज्ञाने वचनस्याविरोधात् कथन सम्भवी वक्ता सर्वज्ञः ? किन्तु सम्भव्येव सकलवेद्यपि वक्ता । तन्नान्यथाऽनुपपत्तिरत्र । स्यादेवं यदि विज्ञानाद्वचनम्, न चैवं विवक्षाया- ५ स्तत्कारणत्वात् । सा च रागविशेषत्वेन दोषात्मा सती विधूताशेषदोषतो निःशेषतत्त्वज्ञानान्निवर्तमाना वचनमपि निवर्तयत्येव, तत्कथं नान्यथाऽनुपपत्तिर्यतस्तत्सुगता दो अनिवर्तितप्रसरतया प्रवर्तमानं विवक्षादोषोपस्थापनेन निःशेषवेदित्वं न व्यापादयेदिति चेत् ? अत्राह
२।१८५-१८७]
विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीच्यते ॥ १८५ ॥ वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः । इति ।
न सर्वदा वक्तुकामतयैव वचनप्रवृत्तिर्विनापि तथा गोत्रस्खलनादौ तदुपलब्धेः, तदापि प्रमाद निबन्धनत्वात् तस्या न विज्ञानहेतुकत्वम् । ततो यदि विवक्षातः प्रमादाद्वा तत्प्रवृत्तिरुभयथापि दोष जातेरनतिवर्तनात् भवत्येव ततः क्वचिद्दोषोपस्थापनद्वारेण सकलज्ञत्वप्रतिक्षेष इति चेत्; इदमप्ययुक्तम् ; तदुभयाभावेऽपि तत्प्रवृत्तेर्दर्शनात् । यथा तीव्राभियोगवतो निरन्तरा संस्कृतप्रवृत्ति: । ह प्रमादः; लक्षणस्य क्रियाकारकान्वयस्य चापरिभ्रंशात् । नापि इच्छा ऽनुगमः; अतः परमिदमुच्चारया - १५ मीत्यभिनिवेशाभावात् । ततो विज्ञानस्यैव तद्ध ेतुत्वं निर्ह्रासातिशयानुविधानात् । अनुविधत्ते हि तत्प्रवृत्तिर्विज्ञानस्य निर्ह्रासातिशयञ्च, मन्दे तस्मिन् मन्दायाः पटीयसि च पटीयस्याः तस्या अपि प्रतिपत्तेः । अपि च, यदि वाञ्छायाः तद्धेतुत्वं मन्दमतयोऽपि शास्त्राणां व्याख्यातारो भवेयुः । न चैवम्, वाञ्छतामपि तेषां तदप्रतिपत्तेः । अतो विज्ञानहेतुकैव तत्प्रवृत्तिः एतदेव दर्शयन्नाह -
प्रज्ञा येषु पटीयस्यः प्रायो वचनहेतवः ॥ १८६॥ विवक्षानिरपेक्षास्ते पुरुषार्थं प्रचक्षते । इति ।
येषु बुद्धयः पटीयस्यो भवन्ति पुरुषेषु प्रायः सामस्त्येन वचनहेतवः कदाचिदपि तदभावे तदप्रवृत्तेः ते प्रचक्षते कथयन्ति । किम् ? पुरुषार्थं धर्मस्तत्प्रयोजनादिकम् । कीदृशाः ? विवानिरपेक्षास्ते वक्तुकामता निर्व्यपेक्षाः । तत एवोक्तम्
"आसिसिषादिविरहितः स्वासनगमनप्रभाषणस्थानाद्यैः ।
निरवद्यचित्ररचितैः प्रवरगुण त्वमसि चित्रचरितो नाम्ना ।" [
भवतु वा विवक्षा तथापि न दोष इत्याह
अप्रमत्ता विवक्षेयमन्यथा नियमात्ययात् ॥ १८७॥ इति ।
१०
] इति ।
२०
२५