________________
२१८ न्यायविनिश्चयविवरणे
[२।१८३-१८५ यासां पुरुषत्वादीनां सिद्धीनां ता अपि सर्वज्ञस्य बाधन्य इति वचनपरिणामेने सम्बन्धः । कुतस्तास्तद्बाधन्य इति चेत्; विरुद्धेन निषेध्यप्रत्यनीकेन किञ्चिज्ज्ञत्वेन व्याप्तास्ता एव सिद्धय इति उपलब्धयो यत इति । तत्रोदाहरणं यथा न वेदाः प्रमाणं दृष्टेष्टविरोधादिति । प्रामाण्यविरुद्ध खल्वप्रामाण्यं तद्व्याप्तश्च
दृष्टेष्टविरोध इति । प्रसिद्धं चेदं बौद्धस्येति न निवृत्य कथ्यते । तदेवं विरुद्धकार्योंपलब्धि ५ विरुद्धव्याप्तोपलब्धिं च प्रतिपाद्य व्यापकविरुद्धोपलब्ध्यादिनाऽपि तद्बाधनं दर्शयन्नाह
सत्सम्प्रयोगजस्वेन विरुद्धः सकलग्रहः ॥१८३॥ स्वभावकारणासिद्धिरेकलक्षणविद्विषाम् । इति ।
सद्भिविद्यमानैरथैः अक्षाणां यः समीचीनप्रयोगः तस्माज्जातं तस्य भावः सत्सम्प्रयोगजत्वं तेन प्रत्यक्षज्ञानधर्मेण विरुद्धः सकलस्य देशादिविप्रकृष्टस्य ग्रहः सकलवेदित्वम् । तस्य हि १० व्यापकमसत्सम्प्रयोगजत्वं तद्विरुद्धञ्चेदं सत्सम्प्रयोगजत्वं ताथागतेऽपि प्रत्यक्षे प्रतीयमानं स्वप्रत्यनीका
ऽसम्प्रयोगजत्वव्यावर्तनद्वारेण तद्वयाप्यं सकलग्रहं व्यावर्तयतीति युक्ता व्यापकविरुद्धोपलब्धिः । यथा नात्र तुषारस्पर्शो वह्नरिति । वह हि शीतस्पर्शविरुद्धस्योपलब्ध्या तद्व्याप्यस्य तुषारस्पर्शस्यात्र प्रतिक्षेप इति प्रसिद्धमेवात्र तद्विरुद्धोपलब्धित्वम् । अथ ताथागते ज्ञाने सत्सम्प्रयोगजत्वमसिद्धम्;
भावनाप्रकर्षपर्यन्तादेव तस्योत्पत्तेरिति; तन्न; तस्यापि प्रत्यक्षत्वादेव साधनात् । ताथागतमपि प्रत्यक्षं १५ सत्सम्प्रयोगजं प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति । एतदपि स्वसंवेदनप्रत्यक्षेण व्यभिचारीति चेत्, न; निरंशवस्तुवादिनः स्वसंवेदनमर्थवेदनं चेति स्वभावद्वयस्यैकत्रासम्भवात् ।
तथा, स्वभावकारणासिद्धिरपि बाधनी तंत्र भवेत् । नन्वेवं स्वभावासिद्धिः स्वभावानुपलब्धिः; यथा नास्ति सर्वज्ञोऽनुपलब्धेरिति । कथं पुनरदृश्यानुपलब्धेर्गमकत्वं सत्यपि वस्तुनि सम्भवात् परचेतोवृत्तिविशेषवदिति चेत्; किं पुनः सर्वज्ञस्य अदृश्यत्वम्? तथा चेत्; न; स्वयमपि तत्प्रसङ्गात् । परापेक्षतयैादृश्यत्वमिति चेत्, न निरंशैकान्ते स एव दृश्यश्चादृश्यश्चेति स्वभावद्वयानुपपत्तेः,ततो दृश्य एवासाविति कथं तदनुपलब्धिरदृश्यानुपलब्धिर्यतो न गमिका भवेत् ! नन्वेवं न काचित् दृश्यानुपलब्धिः; सर्वस्य केनचिदृश्यस्य सर्वैरपि दर्शनादिति चेत्, अयमपि भवत एव निष्कलवस्तुवादिनो दोषः ।
तथा कारणसिद्धिः कारणानुपलब्धिः । यथा नातीतादिविषयं योगिप्रत्यक्षं तदभावात् इति, अतीतादिकं हि तत्प्रत्यक्षस्य कारणं "नाकारणं विषयः" [ ] इत्यभिधानात् । न २५ चातीतादेर्भावः; प्रध्वस्तत्वेनातीतस्य अनागतस्य चानुत्पन्नत्वेनाभावग्रस्तत्वादिति । एवमेते वचनादयः कार्यस्वभावानुपलम्भरूपतया त्रैविध्यमपरित्यजन्तोप्यन्यथाऽनुपपत्तिवैकल्यादेव अगमकाः । तदेव दर्शयति
कथन्न सम्भवी वक्ता सर्वज्ञस्तस्य तेन नो ॥१८४॥ यावत् प्रकृष्यते रूप तावत् कार्य विरुध्यते । इति ।
१-दीनां ता आ०, ब०, प०।२-न कृतः स-आ०, ब०, प०। ३ तत्र स्वभा-आ०, ब०, प०।४ परचेतोनिव- आ०, ब०, प० ।५-चिददृश्या- आ०, ब०, प० ।