________________
२।१८१-१८३ ]
२ अनुमानप्रस्तावः
धर्मिधर्मस्य सन्देहे व्यतिरेके ततो भवेत् ॥ १८९॥
असिद्धिः प्रतिबन्धस्येत्यपरे प्रतिदिपरे । इति ।
२१७
भवतु नाम पाषाणादौ वक्तृत्वाद्यभावो रागादिनिवृत्तेः, न तावता व्यतिरेकनिश्चयः क्वचित् सत्यामपि तस्यां तद्भावस्याविरोधात् ।
निवृत्तरागः सर्वज्ञो वक्त्रादिर्नोपलभ्यते ।
इति चेत् मा नामोपलम्भि न तावता तस्याभावः, अनुपलब्धिलक्षणप्राप्तानुपलम्भात् अभावासिद्धेः । ततो धर्मिधर्मस्य सुगतलक्षणे धर्मिणि विद्यमानस्य वक्तृत्वादेर्यो ऽसौ ततो विपक्षाद्वयतिरेके सन्देहः तस्मिन् सति भवेदसिद्धिः अनिश्चयः प्रतिबन्धस्य तादात्म्यतदुत्पत्तिरूपस्याविनाभावस्य । न हि सन्दिग्धव्यतिरेके तत्सिद्धिः, निश्चित एव तस्मिन् तदुपपत्तेः । तदसिद्धौ च न रागादिसाधनत्वं वचनादीनाम् इति एवं मन्यमानाः अपरे सौगताः प्रतिपेदिरे प्रतिपन्ना इति । १० अत्रोत्तरमाह -
वाचो विरुद्धकार्यस्य सिद्धिः सर्वज्ञबाधनी ॥ १८२॥ शिरःपाण्यादिमत्त्वाद्या विरुद्धव्याप्त सिद्धयः । इति ।
इदमेवासिद्धं यद्वाचो विरुद्धकार्यत्वं शिरः पाण्यादिमत्त्वादेर्वा विरुद्धव्याप्तत्वम् सर्वज्ञलक्षणे विषक्षे तद्व्यावृत्तेः सन्देहेन तदसिद्धेर्निरूपितत्वात् । अथ अत एव विपक्षाभावस्य निश्वये १५ तत्सन्देहस्य निवृत्तिः; तदयुक्तम्; परस्पराश्रयात् - सिद्धावतो विपक्षनिषेधस्य तद्द्वारेण तन्निवृत्तिः, ततोऽपि तत्सिद्धिरिति चेत्; न; तद्व्यावृत्तेः सपक्षदर्शनादेव निश्चयाद् धूमादिवत् । न हि धूमादेरप्यन्यदेव विपक्षव्यावृत्तिनिश्वये निमित्तम् अन्यत्र सपक्षदर्शनात् । तच्च वचनादावपि, रागादिमत्य सर्वज्ञ एव रथ्यापुरुषादौ तस्य दर्शनात् । तथापि तस्यान्यत्र भावे धूमादेरपि स्यादिति कथं निश्चित ततोऽपि पावकादिप्रतिपत्तिः ? ततो यथा न धूमादिः शिशपात्वादिर्वा पावकादेवृक्षादेर्वाऽन्यत्र २० भवति भूयस्तन्निष्ठतयैवोपलब्धेरेवं न वचनादिशिरः पाण्यादिमत्त्वादिकं वा किञ्चिज्ज्ञादेरन्यत्र, भूयोऽपि तन्निष्ठतयैव तस्यापि दर्शनात् । अथ सर्वज्ञादिरपि किञ्चिज्ज्ञादेरन्यो न भवति चेतनत्वादिना तुल्यजातीयत्वात् तत्कथं तत्र तदभाव इति ? तर्हि द्रव्यान्तरमपि न पाकादेवृक्षादेर्वा अन्यदेव मूर्तत्वादिना समानजातीयत्वादिति तत्रापि घूमादिना शिंशपात्वादिनापि भवितव्यम् । अवान्तरभेदापेक्षया तस्य द्विजातीयत्वं प्रकृतेऽपि समानम् । ततो युक्तं विरुद्धकार्यत्वं वाचः, सर्वज्ञविरुद्धात् किञ्चिज्ज्ञादेव २५ तस्या उत्पत्तेः । ततस्तस्याः सिद्धिर्भवत्येव सर्वज्ञस्य बाधनी तया तद्विरुद्धं किञ्चिज्ज्ञत्वमुपानयन्त्या तस्य प्रतिक्षेपात् यथा धूमसिद्धिः शीतस्पर्शस्य । एवं शिरः पाण्यादिमत्त्वमाद्यम् आदौ भवं
१ रागादिनिवृत्तौ । २ वक्तृत्वस्य । ३ - पादिर्वा आ०, ब०, प० । ४ बाधनीयतया आ०, ब०, प० ।
२८