________________
२१६ न्यायविनिश्चयविवरणे
[२।१७९-१८१ कस्मात् ? नियमाभावात्- असतो हेतोरनन्तरमेव कार्य न पूर्व नापि पश्चादित्यवधारणस्याभावात् तदत्सत्त्वस्य तदाप्यविशेषात् । ततश्चिरव्यवधानेन प्रागपि च तद्भवेदिति मन्यते । यदि वा, हेत्वायत्तमेव कार्यमित्यस्य नियमस्य अभावात् । न हि समर्थे नित्यहेतावनुत्पन्नस्य पुनः स्वेच्छया यथा
कालं भवतस्तदायत्तत्वमुपपन्नमतिप्रसङ्गात् इत्याशेते । ततः क्षणिकादेरर्थक्रियान्यावृत्तिनिर्णयात् तदात्मकं ५ सत्त्वं कृतकत्त्वादयस्तु तद्विशेषास्तत्साधनाय प्रयुक्ता विरुद्धा एव; परिणामस्यैव साधनादित्यावेदयति
सत्वमर्थक्रियाऽन्ये वा वस्तुधर्माः क्षणक्षये ॥१७९॥
हेत्वाभासा विरुद्धाख्याः परिणामप्रसाधनाः। इति । -
सत्त्वमित्यस्यैव अर्थक्रियेति व्याख्यानम् अर्थक्रियात एव सत्तासम्बन्धस्यापि सम्भवात् नान्यथा व्योमकुसुमादिवत् । अतोऽर्थक्रियैव सत्त्वम् अन्ये वा कृतकत्वादयश्च, वेति समुच्चयात् ते हेत्वा१० भासा विरुद्धाख्याः क्षणक्षये । उपलक्षणमिदं तेन नित्ये ऽपि । कुतस्ते तथा ? परिणामप्रसाधना यत इति।
सम्प्रत्यनैकान्तिकान् तदाभासानाह
सर्वज्ञप्रतिषेधे तु सन्दिग्धा वचनादयः ॥१८०॥ इति ।
वचनमादिर्येषां पुरुषादीनां ते सन्दिग्धाः अन्यथानुपपत्त्येति शेषः । ततोऽनैकान्तिका एव १५ निश्चितान्यथानुपपत्तीनामेवैकान्तिकत्वोषपत्तेः । क्व पुनस्ते तथा ? सर्वज्ञस्य यावज्ज्ञेयव्यापिज्ञानसम्ब
न्धिनः पुरुषस्य, उपलक्षणमिदं तेन परिक्षीणदोषस्य च प्रतिषेधे साध्ये इति । निवेदयिष्यते च तेषां तत्र सन्दिग्धत्वम् । येषां तु त्रैरूप्याद् गमकत्वं तन्मत्या हेतव एवेत्याह
रागादिसाधनाः स्पष्टा एकलक्षणविद्विषाम् । इति ।
रागादेरादिशब्दादसर्वज्ञत्वस्य साधना वचनादयः । केषाम् ? एकलक्षणविद्विषां सौगतादीनां २० सन्दिग्धाः, तेषामपि कथं ते तथेति चेत् ? न; स्पष्टाः पक्षधर्मत्वादौ सन्देहविकला यत इति ।
तथा हि-'सुगतो रागादिमान् सर्वज्ञो वा न भवति, वक्तृत्वादेः रथ्यापुरुषवत्' इति । अत्र तावत् स्पष्टमेव पक्षधर्मत्वम् ; सुगते पुरुषत्वादिवत् वक्तृत्वस्यापि भावात् । कुड्यादावेव तन्न सुगत इति चेत्, न; "ज्ञानवान् मृग्यते" [ प्र० वा० १।३२ ]
इत्यादिना सुगत एव तस्योक्तेर्न कुड्यादौ तस्याचेतनत्वात् । कुड्यादिगतमेव तत्तत्रोच्यते २५ उपचारान्न तत्त्वत इति चेत्; तत्त्वतः तत्र तत् कस्मान्न भवति ? रागादेस्तद्धेतोरभावादिति चेत्;
कुड्यादावपि न भवेत् । तत्र तदभावेऽपि भवति न सुगत इति निर्निबन्धनैव कल्पना । तन्न पक्षधर्मत्वमप्रसिद्धम् । नापि सपक्षे सत्त्वम्; रथ्यापुरुषे रांगादिमत्यसर्वज्ञे च दर्शनात् । नापि विपक्षाद्वयावृत्तिः; पाषाणादौ तस्यापतिपत्तेरित्युपपन्नमेव तत्र तेषां गमकत्वम् । परकीयं तत्रोत्तरं दर्शयति
१ सुगतसन्निधानात् कुड्यादिभ्यः देशना निस्सरन्तीति मनसिकृत्य सौगतः प्राह । २ "ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्मनशङ्किभिः ॥"-ता० टि० । ३ वक्तृत्वम् । ४ कुड्यादौ । ५ रागाद्यभावेऽपि ।