________________
२१५
२।१७६ ]
२ अनुमानप्रस्तावः
૨
I
१०
योर्घटयोरेकत्वमिति; तत्प्रतिविहितम् एकत्वप्रत्ययेन तस्य व्यवस्थितेः । नैतदस्ति बाधवत्त्वात् । अस्ति ह्यत्र बाधः । तथा हि- आमादर्थान्तरं पक्को घटस्तदारम्भकसंयोगविलक्षणसंयोगारब्धत्वात् पाषाणवत् । आमस्य हि घटारम्भको ऽवयवसंयोगः प्रशिथिलरूपो निबिडश्च पक्कस्य कठिनतयैव तस्य प्रतीतेः । अतो न तत्राभेदव्यवस्थितिस्तात्त्विकीति चेत्; उच्यते - यदि न प्रतिपत्तिः पक्कस्य तस्य हेतोराश्रयासिद्धिः । प्रतिपत्तिश्चेत्; न तस्य आमादर्थान्तरत्वं शक्यसाधनं तत्प्रतिपत्त्यैव बाधनात् । प्रतिपत्तिर्हि ५ तस्य कुतश्चिदामादनर्थान्तरस्यैव नात्यन्ताय विभिन्नस्य, अन्यथा तत एव साध्यसिद्धेर्व्यर्थमिदमनुमानं भवेत् । विप्रतिपत्तेश्चाभावात् भावे तवटेऽपि तदापत्तेः नाश्रयासिद्धेः प्रतिक्षेपः स्यात् । न तत्र तदापत्तिर्निश्चयादिति चेत्; न; साध्येऽपि तुल्यत्वात् । अन्यथैकैव प्रतिपत्तिः निश्चयेतरात्मा भवेत् । तथा च कथमामपक्वात्माऽप्येके भावो न भवेत् ? आमस्तदारम्भकसंयोगनिवृत्त्या निवृत्त एव कथं तस्य कथञ्चिदप्यवस्थानमिति चेत्; न; तत्संयोगनिवृत्तेरप्युत्तर निविडस योगादर्थान्तरस्याप्रतिपत्तेः 1 तद्रूपत्वे च कथं निवृत्तिर्यतस्तदारब्धस्य आमस्यापि निवृत्तिः ? कथञ्चित्तु या तन्निवृत्तिः तयाऽस्त्येव तस्यापि निवर्तनम् ? अभेदवत् आमपक्कयोर्भेदस्यापि प्रतिपत्तेः । एतेन तण्डुलान्निविडावयवसंयोगात् ओदनस्य शिथिलावयवसंयोगत्वेन यदत्यन्ताय भेदकल्पनम् तदपि प्रतिक्षेत्तव्यम्, तुल्यत्वान्न्यायस्य । यदपीदं पैठरस्य मतम् - सत्यम्, आम एव पच्यते घटः केवलं तस्य रूपादय एवाग्निसंयोगात् नश्यन्ति तद्विलक्षणानामेव तेषां पश्चात् प्रादुर्भावादिति; तन्न बुद्धयामहे । तथा हि-घटो नाम तत्परिणतिविशेष एव नापरः, तस्याऽप्रतीतेः प्रतिक्षेपाच्च ततः कथं तेषां विनाशस्तस्यैव तत्प्रसङ्गात् ? तदात्माऽपि स तिष्ठति ते च नश्यन्तीति विरोधात् । ततो युक्तम्-आमस्यैव घटस्याग्निसम्पर्कात् अन्यथाभावेनावस्थानम्, अवस्थाभेदिनो लोकप्रसिद्धः सोऽन्वय इति, एवं देशभेदेऽपि प्रतिपत्तव्यम् । तत्राप्यवस्थितिः स एवायमर्वाग्भागेऽपि घटो यः परभाग इति प्रतीतेः । तत्र समवेतस्यैव तस्य तथा प्रतीतिर्न तदात्मन इति चेत्; न; तस्य निषेधात् । एवं स एवायं घटः पुराणो जातो यो मया नवो दृष्टः इति प्रतिपत्तेः कालभेदिनोप्यवस्थानं प्रतिपत्तव्यम् । उक्तमर्थं श्लोकाभ्यां संगृह्णन्नाह -
१५
२०
सर्व सन्तानविच्छेदः सति हेतौ फलोदयः ॥ १७८॥ अन्यथा नियमाभावादानन्तर्यं विरुद्धयते ।
सति क्षणिके नित्ये च यदा हेतौ फलोदयस्तदा सर्वस्य कार्यस्य यः सन्तानः क्रमवान् प्रबन्धः २५ तस्य विच्छेदो विरहः तत्कार्यत्वात् कार्यकार्यस्यापि परापरस्य, यदि वा परापरस्यापि कार्यस्य सकृदेव भावात्, कारणस्याक्रमे कार्यक्रमस्यायोगात् । अन्यथेति यद्यसति हेतौ फलोदयो यदि वा नित्ये तदविच्छेदः तदा यदेतदानन्तर्यं कारणानन्तरभावित्वं कार्यस्य यद्वायं नित्यस्य प्रत्यासन्नत्वं तत्सन्तानस्य तद्विरुद्धयते
१ बाधकवत्वा-आ०, ब० । २ " प्रमाणविशेषात् " - ता० नैयायिकस्य । ४-द्वेः सो-आ०, ब० । ५ प्रतिपत्तिर्न आ०, ब०, प० ।
टि० । ३ श्रवयविपाकवादिनो