________________
२१४ न्यायविनिश्चयविवरणे
. [२।१७८ न; तत्रापि प्रत्यक्षतस्तदग्रहात् । कार्यादेव तु ग्रहणेऽनवस्थापत्तेरिति चेत्; इदमपि न दूषणं पक्ष एवास्माभिः सम्बन्धग्रहणस्याभ्युपगमात्, सम्बन्धस्य कार्यस्वरूपत्वेन अप्रतिपन्नायामपि शक्तौ शक्यावसायत्वात् । प्रमाणस्य च तत्र तर्काभिधानस्य निवेदितत्वात् । तन्न शक्तः प्रतिषेधो न्याय्यः ।
नापि व्यापारस्य,तथा हि-यदि नित्यस्य सामग्रीसन्निपातेऽषि प्राच्यस्वभावापरित्यागः कथं ५ कारणत्वं पूर्ववत् । तत्परित्यागे वा कथमव्यापारत्वं तत्परित्यागस्यैव व्यापारत्वात् । नास्त्येव तस्य तत्परित्यागो नित्यत्वहानेः कारणत्वं तुतदा' तस्य तत्सन्निधानादिति चेत्, तल्कि पूर्व नास्ति ? तथा चेत् ; कथं नित्यत्वम् ? अस्ति चेत्; कुतो न कार्यम् ? सहकार्यभावादिति चेत् ; कुतस्तदभावे तदभावः ? तस्य तत्कारणत्वादिति चेत्; यथा तर्हि सहकारी तत्कारणत्वात् स्वनिवृत्त्या कार्यं निवर्तयति तथा तत एव
नित्यमपि स्वप्रवृत्त्या तत्प्रवर्तयेत् । न चेत्; तदपि न निवर्तयेदिति वक्तव्यम् । प्रवृत्तिनिवृत्तिभ्यां ० निर्मुक्तस्य कीदृशी तदा कार्यस्य गतिरिति ? न नित्यस्य केवलस्य कारणत्वं यदेवं स्याद् , अपि तु
सहकारिसहितस्यैव । न च तत्सहितं तत्प्रागस्ति यतः कार्यं स्यादिति चेत्; तथापि कथं नित्यत्वं तत्सहितस्य तत्स्वभावस्यैव पूर्वमभावात् । सहकार्यभाव एव तत्सहिताभावो न तत्स्वभावाभाव इति चेत्; तत्सद्भाव एव तत्सहितसद्भावोऽपि स्यात्, तथा च तत्सहितं नित्यं कारणमिति सहकार्येव कारणमित्युक्तं
स्यात् । न नित्यं सहकारि वा केवलं कारणम् अपि तु तत्समुदाय इति चेत् ; एकैव तर्हि तद्रूपा १५ शक्तिरिति कथं तद्भेदकल्पनं सहकारिशक्तिः स्वरूपशक्तिरिति च । तद्भेदे वा कथं प्रत्येकमेव न
कारणत्वं (ण) शक्तित एव तत्त्वात् । समुदायस्यैव कारणत्वे च न नित्यस्य सहकारिणो वा वस्तुत्वम् अकारणत्वात् । समुदायकारणत्वमेव तयोरपि कारणत्वं तद्वयतिरेकेण तदभावादिति चेत् ; तथापि समुदायतयैव वस्तुत्वं न पृथगिति कथन्न (कथं) नित्यं वस्तु पृथगेव स्यात् ? ततः प्रत्येकं भावानां
वस्तुत्वमुररीकुर्वता समुदायदशायां प्राच्यरूपपरित्यागात्मा व्यापारस्तेषां कारणत्वोपपादी वक्तव्य २० एव । स च नित्यत्वे तेषामनुपपन्न एव, सति तस्मिन् तत्पच्युतेः । ननु यदि शक्तिः किं व्यापारेण ?
तस्मिन् वा किं शक्त्या ? तदन्यतरत" एव कार्यनिष्पत्तेरिति चेत् न, शक्तरेव कार्य प्रत्युन्मीलनस्य व्यापारत्वात् । तदुन्मीलने च शक्तरेव कार्यनिष्पत्तिः न व्यापारादिति चेत्, न; शक्तरेव सत्युन्मीलने व्यापारत्वात् । ततो युक्तं निरन्वयविनाशनित्यत्वयोर्भावस्य निर्व्यापारत्वात् परिणाम एव क्रियाया अव
स्थितिरिति । कः पुनरयमन्वयो नाम यतो निरन्वयो निर्व्यापारत्वमुच्यते इति चेत् ? अत्राह२५ अवस्थादेशकालानां भेदेऽभेदव्यवस्थितिः ॥१७७॥
__ या दृष्टा सोऽन्वयो लोके व्यवहाराय कल्पते । इति ।
अवस्थादयः प्रसिद्धाः तेषां भेद आमः पक्व इति परभागोऽर्वाग्भाग इति नवः पुराण इति च नानात्वं तस्मिन् सति या दृष्टा प्रतिपन्ना अभेदस्य कथञ्चित्तादाम्यस्य व्यवस्थितिः साङ्कर्यादि
परिहारेणावस्थानं लोके लोकग्रहणेन तद्दष्टेर्लोकप्रसिद्धतया अशक्याऽषह्नवत्वं दर्शयति । स तद्वयव३० स्थितिरन्वयः कल्पते । किमर्थोऽसौ ? व्यवहाराय तन्निमित्तमिति । ततो यत्परमतम्-नामपक्क
१ तथा तस्य आ०,ब०, प० । २ सहकार्यभावे कार्याभावः । ३ नित्योऽपि प० । ४ नित्यम् । ५- तर एव श्रा०, ब०, प० । ६ वैशेषिकमतम् (प्रश० व्यो० पृ०४४८)।