________________
२।१७७ ]
२ अनुमान प्रस्तावः
२१३
कथं तत्रान्युत्पत्त्यादिः प्रत्यक्षादेव तन्निर्णये तदनुपपत्तेः । अस्ति चासौ वस्तुदर्शनेऽपि कस्यचित् तत्रानिश्चयात् अपरस्य संशयात् अन्यस्य विपर्ययाच्च । कथमन्यथा तत्परिज्ञानाय तेद्विदुपासनम् ? सामग्रीसन्निपाते नास्त्येव तत्राव्युत्पत्त्यादिः तदैव ततस्तन्निर्णयात् । अतएव तेनोक्तम् - " सामग्री तु यदा कार्य जनयति तदा तस्याः कारणत्वं निश्चीयते, द्वयोरपि कार्योत्पादकाले सामग्री कार्ययोर्निश्चयात् ।” [ ] इति चेत्; अन्यदा तर्हि भावस्याप्यनिश्चयः तदनिश्चयात् । कथमन्यथा स्वरूपमेव ५ . शक्तिः निश्चितादनिश्चितायाः अर्थान्तरत्वस्यैवोपपत्तेः । अथास्त्येव तदापि तन्निश्चयः केवलं कार्यतयैव शक्तेर्भेददर्शनात्, तत् तदाभिमुख्यमेव तस्या न निश्चीयते, अत एवाऽव्युत्पत्त्यादेरपि तत्रैव भाव इति; तदपि न समीचीनम् ; स्मा ?
तत्तत्कार्याभिमुख्यं चेच्छक्ते रूपं स्वभावतः ।
अनिश्चये कथं तस्य निश्चिता शक्तिरुच्यताम् ॥ १५३५|| विना तेन च निश्चयः ।
५
आभिमुख्यं स्वरूपं च शक्तेरिति क आहेवं विश्वरूपात् परो बुधः ॥ १५३६॥ आभिमुख्यं ततो यस्मिन् यस्मिन् कार्ये यया यया ।
सामग्र्या सर्वथा तस्याः सर्वदा स्याद्विनिश्चयः || १५३७॥ तथा च वैद्यशास्त्रादौ व्यर्थ एव परिश्रमः ।
विनापि वस्तुशक्तीनां तेन निश्चयसम्भवात् ॥ १५३८॥ सर्वदर्शित्वमप्येवं सर्वस्य प्राणिनो भवेत् । जगद्यपेक्षयैकत्र
१०
१ तज्ज्ञान्वेषणम् । २-दिस्तन्नि - आ०, ब०, प० । ३ चेत्तर्हि आ०, ब०, प० । ४ यत्तस्मात् आ०, ब०, प० । ५ " कः श्राह इति पदच्छेदः " - ता० टि० । कथा ह्येवं आ० ब० प० । ६ "मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । वस्त्वानन्त्येप्यशक्तौ च नानावस्था विचार्यते ॥ " - ता० टि० ।
१५
शक्त्यशक्त्योर्विनिश्चयात् ॥ १५३९॥
तथा हि-यद्येकं वस्तु कतिचिदेव देश कालावस्थाभेदिनः कार्यग्रामानपेक्ष्य तत्सामग्रीश्च शक्तम्, तदपरापेक्षया तर्हि तदशक्तम्, तच्च तथा कुतश्चिन्निश्चीयमानमपेक्ष्य निश्चयमन्वाकर्षति विना तेन २० स्वयमनिश्चयात् । तथापि तन्निश्चये कारणनिश्चयमन्तरेणापि क्वचित्तत्कार्यत्वनिश्चयः स्यादिति न युक्तमिदं तस्य वचनम् -" न च सम्बन्धग्रहणे प्रमाणान्तरेण कार्यकारणयोः सम्बन्धग्रहः "
[
] इति । तस्मादतीन्द्रियैव शक्तिः । यदप्यत्र तेनोक्तम् - " कारणस्य शक्तस्य व्यापारवतश्च कार्यकर्तृत्वाभ्युपगमे तयोरपि कार्यत्वात् परव्यापारशक्त्यन्तरकल्पना तत्राप्यन्या तत्राप्यन्येत्यनवस्था ।" [ ] इति तदपि नित्यैकान्तमभ्युपगम्य तद्वादि- १५ नामेव दूषणं न स्याद्वादिनाम्, तन्मतेन पूर्वपूर्वस्मादेव शक्तिव्यापारपरिणामात् उत्तरोत्तरस्य तस्योत्पत्तेः । न चावस्थानमत्र 'दुषणम् ; अनादित्वेनानवस्थानस्यैव तत्प्रबन्धस्वभावत्वात् । कुतः पुनरतीन्द्रियायाः शक्तः प्रतिपत्तिः ? कार्यादेव लिङ्गादिति चेत्; व तया सह तस्याविनाभावप्रतिपत्तिः ? तदन्यत्रेति चेत्;