________________
२१२ न्यायविनिश्चयविवरणे
[२।१७७ एव क्रियायाः कार्यकारणस्य स्थितेः अवस्थानात् । एतदपि कस्मात् ? निर्व्यापारो व्यापारान्निष्क्रान्तो हि यस्मात् भावः चेतनादिः स्यात् भवेत् । कस्मिन् सति ? निरन्वये क्षणभङ्गे । केव ? नित्यत्वे वा नित्यत्व इव, वाशब्दस्य इवार्थत्वात् । निरन्वय इव वा नित्यत्वे इति । कुतः पुनर्निरन्वये निर्व्यापारत्वं भावस्योच्यते ! तस्य यद्युत्पत्तेरूध्वं व्यापारः कथं निरन्वयत्वं स्वयमपि तदा तस्य ५ भावात् । व्यापार एव तदा न भाव इति चेत्; व्याहतमिदम्-स नास्ति तद्वयापारोऽस्तीति । कथं वा स तस्य व्यापारः ? तत्कार्यत्वादिति चेत्, तत्रापि तर्हि कार्यवद व्यापारान्तरं मृगयितव्यम् । तस्यापि पश्चाद्भाविनः कथं तद्वयापारत्वम् ? तत्कार्यत्वादेवेति चेत् ; न; 'तत्रापि इत्यादेः प्रसङ्गादनवस्थितेश्च दोषात्, व्यापारस्याव्यापारादेव भावाद्भावे व्यर्थं व्यापारकल्पनं कार्यस्यापि तत एव भावात् । अथोत्पत्ति
समय एव व्यापारः उत्पत्तेरेव तत्त्वात्; तर्हि तदैव कार्यतद्वयापारौ पुनः तत्कार्यतद्वयापारावपीत्येक१० क्षणमेव जगत्प्राप्नुवत् सन्तानस्य तन्निबन्धनस्य प्रवृत्त्यादिव्यापारस्य चाभावमाविर्भावयेत् । अथायं
कार्यस्य स्वभावो यत्सत्यपि तद्वयापारे पश्चादेव भवतीति तदयमप्रसङ्ग इति; कथं पुनः उपरतव्यापारे तस्मिन् भवतस्तस्य तत्कार्यत्वम् ? यदि स्यात्; नित्यकार्यत्वमपि स्यात् । अतत्कार्यस्य कथं देशादिनियम इति चेत् ? तत्कार्यस्यापि कथं तत्कालादिक्रमः ? तथास्वाभाव्यादिति चेत्, अत एव तन्नियमोऽपि
स्यात् । असति च कारणे भवत्कार्यं पश्चादिव प्रागपि किन्न स्यात् अभावाविशेषात् ? भवत्येव, भाविनो १५ राज्यादेः प्रागेव.तत्कार्यस्य हस्तरेखादेर्दर्शनादिति चेत् ; तर्हि सुगतत्वमपि तदुपायाभियोगात् प्रागपि
भवेदिति पूर्व सुगतः पश्चात् संसारीति प्राप्तम् , संसारिण इव तदभियोगसम्भवात् । किं वा पुनस्तदभियोगस्य फलं निष्पन्ने ओदने पाकवत् ? तन्न निरन्वयस्य सव्यापारत्वम् । नापि नित्यस्य ।
___"भवतु निर्व्यापारत्वं तस्य, न हि तस्य व्यापारवलेन कार्यकारित्वं सहकारिसहि.. तानिर्व्यापारादेव तदुपपः। तथा हि व्यापारो नाम शक्तिरतीन्द्रिया, क्रिया वा भवेत ?
तयोश्च किं पदार्थेन सहोत्पन्नयोर्यावत्पदार्थभावित्वम् , आहोस्वित् सामान्यवत्तयोस्तेन सहानुत्पन्नयोस्तत्र सद्भावः ? पक्षद्वयेऽपि कार्यस्य सततोदयप्रसङ्गः। न हि शक्तापाराविष्टे च कारणे कार्यस्य क्षेपः। अथैतन्मा भूदिति तयोस्तत्र कादाचित्कत्वं कार्यवत्तत्रापि
वक्तव्यम् । कादाचित्कत्वे तयोः कारणपूर्वकत्वमवश्यम्भावि । तत्र सति विकल्पद्वयम्२५ किं स्वाश्रयपदार्थकारणमात्रभावित्वं तयोः, उतस्वित् सहकारिकारणापेक्षत्वम् ? पूर्वस्मिन्
पक्षे पुनरपि सर्वदा कार्योत्पत्तिप्रसङ्गः । सहकारिकारणापेक्षत्वे कार्यमेव कारणद्वयात् सम्मिलितादस्तु किं शक्तिव्यापाराभ्याम्" [ ] इति विश्वरूपः; तन्न युक्तम् ; अशक्तस्य कारणत्वे व्योमकुसुमादौ प्रसङ्गात् । तस्य नीरूपत्वान्नेति चेत् ; न; अशक्तित एव तस्यापि
तत्त्वात् , तस्याश्च नित्येऽप्यविशेषात् । शक्तमेव नित्यम् , केवलमतीन्द्रियशक्तिप्रतिषेधादेवाशक्तं ३० तदुच्यत इति चेत् ; ऐन्द्रियी तर्हि तच्छक्तिः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानाविनाभावात् । तथा च
१-त्वादिति आ० ब०, प०।२ व्यापारत्वात् ।