SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २।१५-१७७ ] २ अनुमानप्रस्तावः २११ चैतत् - 'सत्ता सम्प्रतिबद्धैव परिणामे' इत्यादिना । तदनेन कृतकत्वादयोऽपि तदाभासतया प्रतिवक्तव्याः तेषां सत्त्वविशेषत्वात् । यद्यन्यथानुपपत्तिवैकल्यमेकान्ततः सत्त्वादीनाम्, क्षणभङ्गादिवत् परिणामेऽपि न तेषां हेतुत्वं स्यादिति चेत्; न; एकान्ततः तदभावात् । एतदेवाह विरोधादन्वयाभावाद् व्यतिरेकाप्रसिद्धितः ॥१७५॥ कृतकः क्षणिको न स्यात् नैकलक्षणहानितः ॥ ५ अपेक्षितपरव्यापारो भावः कृतकः । उपलक्षणमिदं तेन सन् प्रयत्न जन्यश्च शब्दादिः । किम् ? क्षणिको न स्यात् क्षणमात्रवृत्तिर्न भवेत् । कुत एतत् ? अन्वयाभावात् । न हि क्षणिकत्वेन तस्य क्वचिदन्वयः, प्रदीपादावपि तस्यानिश्चयत् । कथमन्यथा प्रापरतैलादिव्यापारवैफल्यप्रकल्पनेन तत्र तदुपपादनम्, अविप्रतिपत्तिविषये तदनुपपत्तेः ? भवतु तेनैव तत्र तदुपपादनमिति चेत्; न; तस्य क्वचित्तेनानन्वयात्, तन्निदर्शनेऽपि तस्यासिद्धेः । पुनस्तत्रापि परापरतत्कारणव्यापारवैफल्येन १० तदुपपादने अनवस्थापत्तेः । तदुपपादनमननुमानमेव तदयमदोष इति चेत्; न तर्हि प्रमाणं परामर्शात्मकत्वेन प्रत्यक्षत्वस्याप्यभावात् । प्रमाणान्तरत्वे च प्रमाणद्वयसङ्ख्या नियमव्यापत्तेः । अप्रमाणाच तत्प्रतिपत्तावन्यत्रापि प्रमाणकल्पना वैफल्यात् । मा भूदन्वयो व्यतिरेकादेव गमकत्वोपपत्तेरिति चेत्; न; अन्वयाभावे तस्यैवा सिद्धेः । न हि क्वचित् क्षणभङ्गेनान्वयस्याप्रतिपत्तौ तन्निवृत्त्या क्वचिद्धेतुव्यावृत्तेः शक्योऽवगमः, बुद्धिसंस्पर्शविरहिणस्तस्यैव निवृतेरनवगमात् । कथं पुनरन्वय - १५ व्यतिरेकयोरभावेऽपि कृतकत्वादेरहेतुत्वं ताभ्यां हेतुत्वस्य अव्याप्तेरिति चेत्; सत्यमिदं वस्तुवृत्त्या, परेण तु तयोस्तद्वयाप्तेरभिधानादेवमुक्तम् । वस्तुतस्तर्हि तस्य कुतः क्षणिकत्वं प्रत्यगमकत्वम् ? अन्यथा ऽनुषपत्तिवैकल्यादिति “चेत्; तत् तर्हि तस्यैकान्तिकमिति कथं परिणामेऽपि तस्य हेतुत्वमिति चेत् ? अस्य समाधानम् -'नैकलक्षणहानित:' इति । एकस्य लक्षणस्यान्यथाऽनुपपन्नत्वस्य येयमेकान्ततो हानिः ततः कृतकः क्षणिको न स्यादित्येतत् न अपि तु क्षणक्षयाद्यपेक्षयैव कथञ्चि- २० द्भाविन्य इति यावत् । अत्रैवोपपत्तिः 'विरोधात्' इति । तात्पर्यमत्र - य व-यतः क्षणक्षयादिव्यावृत्त्या तद्विरुद्धस्य परिणामस्य ततः साधनं ततो नैकान्ततः तत्र तद्धानिरिति । कथं पुनरप्रतिपन्ने क्षणभङ्ग तदन्वयव्यतिरेकयोरिव कचित्तद्विरोधस्यापि प्रतिपत्तिः ? तथापि तद्भावे किमन्वयव्यतिरेकाभ्यामपराद्धं यतस्तावपि न प्रतीयेते इति चेत् ? न; प्रतिपत्तेरपि तल्लक्षणानुगमेन तत्र भावात्, केवलं प्रमाणतस्तदनवगमादेव तदन्वयव्यतिरेकयोर्निषेधात् नित्यान्वयव्यतिरेकवत् । विरोधमेव दर्शयन्नाह - सत्ता सम्प्रतिबद्ध व परिणामे क्रियास्थितेः ॥१७६॥ निर्व्यापारी हि भावः स्यान्नित्यत्वे वा निरन्वये । इति । 1 एवकारो भिन्नप्रक्रमः परिणाम इत्यत्र दर्शनात् । ततः सत्ता सत्त्वं सम्यक् प्रतिबद्धा । क ? परिणाम एव न क्षणभङ्गादौ । ततस्तत्रैव सा हेतुरित्यर्थः । एतदेव कुतः ? क्रियास्थितेः, परिणाम १ "पेक्षित परव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।" - न्यायबि० पृ० ६७ । २ बुद्धसं-आ०, ब०, प०। ३- मिदमव - आ०, ब०, प० । ४ - रनभि - आ०, ब०, प० । ५ चेत्तर्हि आ०, ब०, प० । २५
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy