________________
२१०
न्यायविनिश्चयविवरणे
[ २।१७४-१७५
लिङ्गभेदे प्रदर्शनार्थत्वादिति; अत्राप्युक्तम् - नवविधत्वेन सप्तविंशतिविधत्वेन च तद्दर्शनं कर्तव्यमिति । कथं चैवं कृत्तिकोदयादेः गमकत्वम्, संयोगिसमवायिनोरिव एकार्थसमवायिन्यपि तस्यानन्तर्भावात् ? न हि तदुदयादितत्साध्ययोः क्वचिदेकत्र समवायः, नापि तयोः कस्यचित् तत्कार्यस्येति । तन्न संयोग्यादिभेदेनापि त्रैविध्यवर्णनमुपपन्नम् । ततः स्थितम् - 'एतेन' इत्यादि । न केवलं तेषां भेद एवैवं प्रत्या५ ख्यातव्योऽपि तु लक्षणमपीत्याह
तल्लक्षणप्रपञ्चश्च निषेद्धव्यो दिशाऽनया । इति ।
तेषां पूर्ववदादीनां लक्षणमसाधारणं रूपं तस्य प्रपञ्चः पक्षव्यापित्वे सत्यन्वयव्यतिरेकावबाधितविषयत्वमसत्प्रतिपक्षत्वं चेतिरूपः सोऽप्यनया सौगतहेतुलक्षणं निराकरणरूपया दिशा निषेद्धव्यः इति । तथाहि
१०
अन्यथानुपपत्तिश्चेत् वाञ्चरूप्येण किं फलम् ? विनापि तेन तन्मात्रात् हेतुभावावकल्पनात् ॥ १५३१॥ नान्यथानुपपत्तिश्चेत् पाञ्चरूप्येण किं फलम् ! सताऽपि व्यभिचारस्य तेनाशक्यनिराकृतेः || १५३२॥ अन्यथानुपपत्तिश्चेत् पाञ्चरूप्येऽपि करूप्यते । वारूप्यात् पञ्चरूपत्वनियमो नावतिष्ठते ॥ १५३३॥ पाञ्चरूप्यात्मिकैवेयं नान्यथानुपपन्नता । पक्षधर्माद्यभावेऽपि चास्याः सत्त्वोपपादनात् ॥ १५३४ ॥
ततः तल्लक्षण इत्याद्यपि स्थितम् । सम्प्रति हेत्वाभासं दर्शयन्नाह - अन्यथानुपपन्नस्वरहिता ये विडम्बिताः ॥ १७४॥ हेतुत्वेन परैस्तेषां हेत्वाभासत्वमीक्ष्यते । इति ।
1
परैः एकान्तवादिभिः येन हेतवः अपि तु हेतुत्वेन विडम्बिता: कल्पिताः तेषां हेत्वाभासत्वं हेतुवदाभासमानत्वम् ईक्ष्यते । कुत एतत् ? अन्यथानुपपन्नत्वरहिता यत इति । अथ अन्यथानुपपत्तिवैकल्येऽपि हेतुत्वम् ; तदाभासत्वमेव न क्वचिद्भवेत्, कल्पनया सर्वत्र हेतुत्वस्यैवोपपत्तेः । कथं पुनस्तद्विडम्बितानां तद्रहित्वमिति चेत् ? उक्तमेतत् - 'असिद्धत्वादिदोषस्य तेषु २५ सर्वेषु सम्भवात्' इति । इदमत्रोदाहरणं यथा क्षणिकः शब्दः सत्त्वादिति । न हि क्षणिकं सन्नाम अर्थ - क्रियायास्तत्रासम्भवात् । निरूपितं चैतत् - ' यस्मिन्नसति यज्जातम्' इत्यादौं । तत्कथं तस्यान्यथाऽनुपपन्नत्वम् ? ‘अन्यथाऽनुपपन्नत्वमसिद्धस्य न सिद्ध्यति ' [ सिद्धिवि० परि० २ ] इति न्यायात् । सिद्धमेव तत्रापि तत् संवृत्येति चेत्; न; नित्येऽपि तया तद्भावात् । तथापि कथमन्यथा ऽनुषषन्नत्वम् ? व्यभिचाराद्विरुद्धत्वाच्च, वस्तुतः सत्त्वस्य परिणाम एव भावात् । निवेदयिष्यते
१५
२०
१ – दप्रतिद- आ०, ब०, प० । २ ताद्रूप्यात् ब० । ३ ये हेतवः ता० । ४ य इति अथ-आ०, ब०, प० । ५-षु भावादिति ता० । ६ न्यायवि० श्लो० १५३ । ७ संवृत्या |