________________
२।१७३] २ अनुमानप्रस्तावः
२०६ तदपि न युक्तम् ; विभिन्नान्तरालादपि तस्मादविनाभावनिर्णये पर्वतशिरसि पावकस्य प्रतिपत्तेः'।
तद्वयवधानादेव नासौ तस्य समवायी । यत्पुनरत्रोदाहरणम्-समवायी गोविषाणमिति; तन्न युक्तम्। विषाणे गोसमवायस्य निषिद्धत्वात् । अनिषेधेऽपि गवयादावपि तद्भावेन व्यभिचारात् । नायं दोषोऽ. वधारितविशेषस्यैव गमकत्वादिति चेत्, न; समवायित्वादेव तदवधारणासम्भवात् । अन्यतस्तत्सम्भवे च तत एव गमकत्वात् किं समवायित्वेन ? यद्यप्युदाहरणान्तरं समवायी शब्द आकाशस्येति; तदपि न ५ युक्तम् शब्दस्य पुद्गलपर्यायत्वेनाकाशसमवायस्य प्रतिषेधात् । कथं वा तत्र तत्समवाये तद्विकलमप्याकाशम् ? व्याप्त्या तत्र तस्यासमवायादिति चेत्; कथमव्याप्तिः ! तदवष्टब्धादन्यस्याकाशरूपस्याभावात् । तदवष्टम्भोऽपि तत्प्रदेशस्यैवेति चेत्; न; प्रदेशवत्त्वे तस्य कार्यत्वेनानित्यत्वप्रसङ्गात् घटादिवत् । न चैतदिष्टम् , “द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।" [ वैशे० २। १। २८ ] इत्यस्य व्याघातात् । न व्याघातः कल्पनयैव प्रदेशोषगमादिति चेत्, प्रदेशस्यैव तर्हि तदवष्टब्धस्य लिङ्ग शब्द १० इति न युक्तमिदं सूत्रम्-"शब्दो लिङ्गमाकाशस्य” [ वैशे० २। १। २७ ] इति, प्रदेशस्यानाकाशत्वात् ।
___ यदप्येकार्थसमवायिलिङ्गस्योदाहरणमुक्तम्-रूपं स्पर्शस्य एकार्थसमवायिलिङ्गम् । एकत्र कारणे तेजस्यर्थे तत्कार्ययोः साधनसाध्ययोः रूपस्पर्शयोः समवायात्, पाण्यादिकं वा पादादेर्लिङ्गम् , एकस्य तत्कार्यस्यार्थस्य शरीरस्य तयोः समवायादिति; तदपि न युक्तम् ; रूपात्तेजसि स्पर्शवत् गन्धा- १५ देरप्यनुमानापत्तेः, तेनापि तस्यैकार्थसमवायित्वस्य पृथिव्यादावुपलम्भात् । तस्य तत्रासम्भवदनुभवत्वान्नेति चेत्, न; तादृशस्यापि उष्णस्पर्शस्य सुवर्णादावनुमितेः। तज्जातीये सम्भवदनुभव एव स इति चेत्; समानं गन्धादावपि, पृथिव्यादौ तस्यापि तथाविधत्वात् । कुतः पुनः पृथिव्यादेस्तजातीयत्वमिति चेत् १ तेजसोऽपि हेमजातीयत्वं कुतः ? भासुरादूपादिति चेत्; रूपमात्रादितरस्यापि स्यात् । नन्वेवं वाय्वादावपि स्पर्शादेव गन्धादेरप्यनुमानोपपत्तेः कथं पृथिव्यादिभेदेन भूतानां चातुर्विध्यमिति २० चेत् ? न; उद्भवापेक्षया तदुपपत्तेः । यत्र हि स्पर्शस्यैवोद्भवः स वायुः, यत्र तु सरूपस्य तत्तेजः, यत्र सरूपरसस्य ता आपः, यत्र सरूपरसगन्धस्य सा पृथिवीति । ततो न युक्तमिदम्-"रूपरसगन्धस्पर्शवती पृथिवी रूपरसस्पर्शवत्य आपो द्रवा स्निग्धाश्च तेजो रूपस्पर्शवत् वायुः स्पर्शवान् ।” [ वैशे०-२।१।१-४] इति; रूपादीनां सर्वेषामपि सर्वत्र भावात् ।
यदपि पाण्यादिकं पादादावेकार्थसमवायिलिङ्गमुक्तम् । तदप्यनुपपन्नम् ; व्यभिचारात्, पादा- २५ वभावेऽपि पाण्यादेः सम्भवात् । यदेव निश्चिताव्यभिचारं तदेव लिङ्गम् ; अत एव न रूपादपि तेजसि गन्धादेरनुमानं स्पर्शाव्यभिचारस्यैव तत्रापि निश्चयादिति चेत्; न; एकार्थसमवायात्तन्निश्चये प्रकृता"परित्यागात् । अन्यतस्तन्निश्चये तत्समवायकल्पनवैफल्यात् । न तन्निश्चयार्थं संयोग्यादित्वकल्पनं तस्य
१ प्रतिपत्तिप्रसङ्गात् । २ कालव्यवधानादेव । ३ कृत्तिकोदयः । ४ शकटोदयस्य । ५ महिषादिव्यावृत्तं विशिष्टं विषाणम् । ६ शब्दसमवाये । ७ शब्दावष्टम्भोऽपि । ८ चामुना ता०। ९ “परिशेषाल्लिङ्गमाकाशस्य" -वैशे० सू० । १०-वायानिश्चये आ०,ब०,प०।११ प्रकृतस्य एकार्थसमवायिलिङ्गव्यभिचारस्य तदवस्थत्वात् ।
२७