________________
२०८
न्यायविनिश्चयविवरणे
[२।१७३
चेत्; न तर्हि मुक्तेर्नित्यत्वं तस्या अपि सकलवैशेषिक गुणविच्छित्तिरूपायाः प्रध्वंसत्वात् । तथा च कथं तदर्थितया प्रेक्षावतां तत्त्वज्ञानाधिगमाय प्रवृत्तिर्यतः शास्त्रप्रणयनं फलवद्भवेत् ? अस्त्वेव निर्वाणस्याप्यनित्यत्वं तथापि न संसारस्योन्मज्जनं तदनित्यत्वस्यापि तद्विरोधादिति चेत्; न तद्विरोधिविरोधिनः तद्विरोधित्वानुपपत्तेः । तस्य हि संसारस्य विरोधि निर्वाणं तद्विरोधि चानित्यत्वं कथन्नाम संसारस्य विरोधि ५ स्यात् ? अन्यथा नैरात्म्यविरोधिनस्तत्प्रतिषेधस्य आत्मविरोधित्वमपि स्यादिति कथमात्मसिद्धिः ? मा भूच्च भवतां व्यतिरेकलिङ्गोपक्रमेण तत्साधनप्रवृत्तिः, साघितेऽपि तस्मिन् आत्मसिद्धेः तस्य तद्विरोधि - त्वेनाभावात् । तथा च कथं चित्रमता उक्तम् - " शरीरादौ च तद्विरहप्रतिषेधात् स एव प्रसिद्ध्यति प्रतिषेधस्य प्रतिषेधाद्विधिस्वभाव: सच्चात् (स्यात्) " [ ] इति ? ततो यथा तत्प्रतिषेधस्य नात्मना विरोधः तद्विरोधित्वात् तथा निःश्रेयसस्यानित्यत्वस्यापि संसारेणेति भवितव्यमेव तदा तदुन्मज्जनेन । १० तदनिच्छता च न प्रध्वंसस्या नित्यत्वमभ्युपगन्तव्यमिति स्यादेव तेन व्यभिचारात् अस्यागमकत्वम् । तन्न अन्वय्यादयोऽपि हेतवः ।
नापि तथा त्रैविध्यनियमः, उन्नामादीनामपूर्वत्वेन तत्रानन्तर्भावात् । पूर्ववतामेव स्वयमन्वयादीनां व्याख्यानात् ।
भवभेदेन तन्नियमः । वीतं हि नाम विधिमुखेन साध्यसाधनम्, अवीतं १५ प्रतिषेधपरम् उभयपरं च वीतावीतमिति, न चान्यथोन्नामादीनामपि तत्साधनं सम्भवतीति चेत् ; तन्न;
"
1
वीतेन विपक्षस्याप्रतिषेधे पक्षस्याप्यसिद्धेः, निराकृतप्रतिपक्षतया सिद्धस्यैव पक्षस्य सिद्धत्वोपपत्तेः, अन्यथा कुतश्चिज्जलादेः सिद्धावपि तद्विषक्षसद्भावाशङ्कया तदर्थिनामपि तत्राप्रवृत्तिप्रसङ्गात् प्रतिवादिनश्च पराजयाभावापत्तेः । प्रतिषिद्धप्रतिपक्षत्वं तस्य अवीतादवगम्यत इति चेत्, न तर्हि वीतस्य हेतुत्वम्, अतदेव विशिष्टस्य साध्यस्य सिद्धेः । न चैवं तस्याप्यवीतत्वम्, प्रतिषेधाधिष्ठानतया विधिमुपस्थापयतो २० वीतत्वस्यैवोपपत्तेः । किं वा वीतत्वादिभेदकथनेन कर्तव्यं गमकत्वस्यान्यथानुपपन्नत्वादेवोपपत्तेः । सत्यम्, न तदर्थं तत्कथनम्, अपि तु व्यापारभेदेन लिङ्गभेदप्रतिपादनार्थमिति चेत्; न; तथापि त्रैविध्यस्यानवस्थानात् । त्रिविधस्य सतः कालभेदापेक्षया नवविधत्वस्य नवविधस्यापि पुनरव्युत्पन्नसन्दिग्धविपर्यस्तरूपप्रतिषाद्यापेक्षया सप्तविंशतिविधत्वस्यापि सम्भवात् । तन्निबन्धनं भेदमनपेक्ष्य व्यापारमात्रकृतेन भेदेन त्रैविध्यमुच्यत इति चेत्; तमप्यनपेक्ष्य अन्यथानुपपत्तिनिबन्धनमेकविधत्वमेव तर्हि २५ वक्तव्यम् । विस्तरेण शिष्यव्युत्पादनस्य नवविधत्वसप्तविंशतिविधत्वाभ्यामपि सम्भवात् । तन्न वीता - दिभेदकल्पनमप्युपपन्नम् ।
तथा संयोग्यादिभेदकल्पनमपि तत्रापि प्रागुक्तहेतू नामनन्तर्भावात् । न हि कृत्तिकोदयः शकटोदयस्य संयोगी; कालव्यवधानेन परस्परमप्राप्तेः । यदपि संयोगिन उदाहरणं * वह घूम इति,
१ तद्विरोधिनः आ०, ब०, प० । २- वत्वादिति ता० । ३ “ श्रन्वयमुखेन प्रवर्तमानं विधायकं वीतम्, व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम्"- सा० त० कौ० का० १-५ । ४ " तथा धूमोऽग्नेः संयोगी" - प्रश० व्यो० पृ० ५७२ ।