________________
२।१७३]
अनुमानप्रस्तावः
द्वयोरेवोपलब्घत्वं न प्रत्येकं तथा सति । जीव एवोपलब्धेति व्यवहारः कथं भवेत् ? || १५२७॥ तत्रैव समवायाच्चेदुपलब्धेर्न तत्क्षतेः ।
कारणत्वाविशेषात् स कॅरणेऽपि कुतो न वः १ ॥ १५२८ ॥ केवलस्यैव हेतुत्वं तस्मात्तस्योपवर्ण्यताम् । उपलब्धौ ततः प्राप्तं वृथैव करणं बहिः ॥ १५२९॥ हेतुत्वादपि तस्योपलब्धिस्तन्न व्यवस्थिता ।
तत्कथं तत्कृते तस्य करणं बाह्यमुच्यताम् ॥१५३॥
तस्मादस्मदादिसम्बन्धविशिष्टस्य बाह्यकरणस्यासम्भवात् असिद्धमेव तत्प्रत्यक्षविषयत्वं लिङ्गमिति कथमस्यान्वयव्यतिरेकित्वम् ? सिद्धस्यैव तदुपपत्तेः ।
२०७
५
१ उपलब्धा ज्ञाता ज्ञायकः इति यावत् । २ कारणे - आ०, ब०, प० । ३ कस्मा - आ०, ब०, प० । ४ कारणं आ०, ब०, प० । ५ तस्यात्म- आ०, ब०, प० । ६ सत्तासम्बन्धे । ७ भिन्नस्य सत्तासम्बन्धस्य । ८ प्रध्वंसः ।
१०
यदपि सपक्षव्यापिनस्तस्योदाहरणम् - अनित्यः शब्दः कृतकत्वात् घटादिवदिति । तद्व्यापित्वं 1 चास्य सर्वत्रानित्ये भावात् । पूर्वकस्य तु तदेकदेशवृत्तित्वं चानित्यत्वेऽपि बुद्धयादावविद्यमानत्वादिति प्रतिपत्तव्यमिति । अत्रोच्यते - नास्य सपक्षव्यापित्वम्; अनित्येऽपि प्रागभावे भावात् । नित्य एव स इति चेत्; कुतः कार्यकालेऽपि नोपलब्धि: : तस्याः कार्येण प्रतिबन्धादिति चेत्; न; विषयस्य तज्जननशक्तौ तदयोगात् । कार्यमपि प्रतिबन्धे शक्तमेवेति चेत्; उभयं तर्हि युगपत्प्राप्तमुपलब्धिस्त- १५ त्प्रतिबन्धश्चेति । न चैतन्न्याय्यं व्याघातात् । शक्तिरेव तेन तस्य प्रतिबध्यते इति चेत्; सिद्धं तर्हि तस्यानित्यत्वं शक्तिप्रतिबन्धस्यैव तत्प्रतिबन्धत्वात् तस्यास्तदव्यतिरेकात् । व्यतिरेके शक्तिशक्तिमद्भावस्य प्रतिषेधादिति कथन्न सपक्षैकदेश वृत्तित्वमस्यापि । न चास्य गमकत्वं प्रध्वंसेन व्यभिचारात् तस्य कृतकत्वेऽप्यनित्याभावात् । किं पुनरस्य कृतकत्वमिति चेत् प्रागसतः कुतश्चिदात्मलाभ एव घटादिवत् । प्रागसतः सत्तासम्बन्ध एव कृतकत्वं नात्मलाभ इति चेत्; न; अनात्मलाभे तत्सम्बन्ध- २० स्यायोगात् तस्य द्विष्ठत्वेन तदभावे ऽनुपपत्तेः । सत्यात्मलाभे किं तेन भावव्यवहारस्य तावता सिद्धेरिति चेत्; यद्येवं जानासि निर्मुच्यतां तत्र निर्बन्धः । कथमर्थान्तरतत्सम्बन्धाभावे सन्ति द्रव्यादय इति विशिष्टप्रत्ययो दण्डीत्यादेरर्थान्तरदण्डसम्बन्धनिबन्धनस्यैव तस्य दर्शनादिति चेत्; न; तत्रापि तन्निबन्धनस्वस्य प्रतिक्षिप्तत्वात् । कथं वा तत्सम्बन्धे सत्प्रत्ययः ? तत्र ' तदन्यस्याभावात् अनवस्थापत्तेः । अस्ति चायम् - अस्ति सत्तासम्बन्ध इति भवतां व्यवहारात् । उपचारादयं तत्रेति चेत्; किं पुनर्वस्तुतः स २५ नास्त्येव ? तथा चेत्; कथं विशेषणम् ? स्वरूपतो विद्यमानत्वादिति चेत्; ननु स्वरूपतो विद्यते इत्यपि विशिष्टप्रत्यय एव, अर्थान्तरव्यवच्छेदेन तद्विद्यमानत्वस्य स्वरूपेण विशेषणात् । तथा च कथं द्रव्यादिष्वपि विशिष्टप्रत्ययादर्थान्तरसत्तासिद्धि: : अनेन व्यभिचारात् । तन्न सत्तासम्बन्धः कृतकत्वम्, आत्मलाभस्यैव तत्त्वात् । तथा च कृतक एव प्रध्वंसः कारणादात्मलाभात् । भवत्वनित्य एव स इति
?